摩诃婆罗多 · 章 13.185
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.185.1
स्त्रीणां हि समुदाचारं सर्वधर्मविदांवर ।
श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह ॥ १३.१८५.१ ॥
诸知一切法者中最殊胜的祖父啊!我愿从您处听闻女人的行为,请为我说明。
13.185.2
सर्वज्ञां सर्वतत्त्वज्ञां देवलोके मनस्विनीम् ।
कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत ॥ १३.१८५.२ ॥
在天界,名为迦迦伊的苏摩那——她全知、通晓一切真理、心志高远——向尸丹迪利发问。
13.185.3
केन वृत्तेन कल्याणि समाचारेण केन वा ।
विधूय सर्वपापानि देवलोकं त्वमागता ॥ १३.१८५.३ ॥
吉祥的女子啊!你以何种行为、何种善行,抖落了一切罪孽而来到天界?
13.185.4
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा ।
सुता ताराधिपस्येव प्रभया दिवमागता ॥ १३.१८५.४ ॥
你以自身的光辉熊熊燃烧,如火焰之舌;你以光芒如星主之女一般来到天界。
13.185.5
अरजांसि च वस्त्राणि धारयन्ती गतक्लमा ।
विमानस्था शुभा भासि सहस्रगुणमोजसा ॥ १३.१८५.५ ॥
身着不染尘埃的衣裳,不见疲倦,立于天车之上,你以千倍的光辉吉祥地闪耀。
13.185.6
न त्वमल्पेन तपसा दानेन नियमेन वा ।
इमं लोकमनुप्राप्ता त्वं हि तत्त्वं वदस्व मे ॥ १३.१८५.६ ॥
你并非凭微薄的苦行、布施或戒律来到此界;所以请把那个真理告诉我。
13.185.7
इति पृष्टा सुमनया मधुरं चारुहासिनी ।
शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ॥ १३.१८५.७ ॥
苏摩那温柔地这样问道,美丽而微笑的舍因迪利轻声对苏摩那说了这番话。
13.185.8
नाहं काषायवसना नापि वल्कलधारिणी ।
न च मुण्डा च जटिला भूत्वा देवत्वमागता ॥ १३.१८५.८ ॥
我并非因穿着赭色衣服、披树皮衣、剃光头发或留着结髻的头发而成就神性。
13.185.9
अहितानि च वाक्यानि सर्वाणि परुषाणि च ।
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रवम् ॥ १३.१८५.९ ॥
我总是小心谨慎,从未对丈夫说过任何有害或粗暴的话。
13.185.10
देवतानां पितॄणां च ब्राह्मणानां च पूजने ।
अप्रमत्ता सदा युक्ता श्वश्रूश्वशुरवर्तिनी ॥ १३.१८५.१० ॥
在供奉诸神、祖先与婆罗门时,我总是专心尽责,并侍奉公婆。
13.185.11
पैशुन्ये न प्रवर्तामि न ममैतन्मनो गतम् ।
अद्वारि न च तिष्ठामि चिरं न कथयामि च ॥ १३.१८५.११ ॥
我不搬弄是非,我的心也不向那方面去;我不在门口久立,也不长时间闲谈。
13.185.12
असद्वा हसितं किञ्चिदहितं वाऽपि कर्मणा ।
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा ॥ १३.१८५.१२ ॥
我绝不以任何方式参与不当的嬉笑、有害的行为,也不参与秘密或公开的事务。
13.185.13
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् ।
आसनेनोपसंयोज्य पूजयामि समाहिता ॥ १३.१८५.१३ ॥
当丈夫因事外出后回到家中,我便以专注的心,设座迎接并敬奉他。
13.185.14
यदन्नं नाभिजानाति यद्भोज्यं नाभिनन्दति ।
भक्ष्यं वा यदि वा लेह्यं तत्सर्वं वर्जयाम्यहम् ॥ १३.१८५.१४ ॥
凡是他不认识的食物,凡是他不赞许的食品,无论是可食之物还是可舔之物,我都一概戒避。
13.185.15
कुटुंबार्थे समानीतं यत्किञ्चित्कार्यमेव तु ।
पुनरुत्थाय तत्सर्वं कारयामि करोमि च ॥ १३.१८५.१५ ॥
凡为家事而来的任何事务,我再次起身,使一切得以办成,我自己也亲自去做。
13.185.16
अग्निसंरक्षणपरा गृहशुद्धिं च कारये ।
कुमारान्पालये नित्यं कुमारीं परिशिक्षये ॥ १३.१८५.१६ ॥
我专心守护圣火,并督促家中的清洁;每日护养孩童,并好好地教导少女。
13.185.17
आत्मप्रियाणि हित्वाऽपि गर्भसंरक्षणे रता ।
बालानां वर्जये नित्यं शापं कोपं प्रतापनम् ॥ १३.१८५.१७ ॥
即使舍弃自己所珍爱的,一心护持腹中胎儿,我对孩子们始终戒除诅咒、愤怒与严厉的惩罚。
13.185.18
अविक्षिप्तानि धान्यानि नान्नविक्षेपणं गृहे ।
रक्तवत्स्पृहये गेहे गावः सयवसोदकाः।
समुद्गम्य च शुद्धाऽहं भिक्षां दद्यां द्विजातिषु ॥ १३.१८५.१८ ॥
我将谷物妥善存放,从不在家中撒落食物;我希望牛群有大麦、草料和饮水;我清晨起身,洁净自身,将施食布施给再生者。
13.185.19
प्रवासं यदि मे याति भर्ता कार्येण केनचित् ।
मङ्गलैर्बहुभिर्युक्ता भवामि नियता तदा ॥ १३.१८५.१९ ॥
若我的丈夫因某事外出远行,我便备好诸多吉祥之物,保持克制谨慎。
13.185.20
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् ।
प्रसाधनं च निष्क्रान्ते नामिनन्दामि भर्तरि ॥ १३.१८५.२० ॥
丈夫外出之时,我不因眼膏、黄色颜料、沐浴、花环、香膏或装饰而欢喜。
13.185.21
नोत्थापयामि भर्तारं सुखं सुप्तमहं सदा ।
आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः।
नोत्थापये सुखं सुप्तं ह्यातुरं पालये पतिम् ॥ १३.१८५.२१ ॥
丈夫安然熟睡时,我从不唤醒他;即便在紧急之事上,我的心也因他而安宁。安睡之人我不惊动;他病了,我便照料丈夫。
13.185.22
नायासयामि भर्तारं कुटुम्बार्थेऽपि सर्वदा ।
गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना ॥ १३.१८५.२२ ॥
即便为了家务,我也从不烦扰丈夫;我总是守护私密之事,居室也总是洁净整齐。
13.185.23
इमं धर्मपथं नारी पालयन्ती समाहिता ।
अरुन्धतीव नारीणीस्वर्गलोके महीयते ॥ १३.१८५.२३ ॥
女子若守此法道,心志专一,便如阿鲁芬提之于众妇,在天界受人尊崇。
13.185.24
एतदाख्याय सा देवी सुमनायै तपस्विनी ।
पतिधर्मं महाभागा जगामादर्शनं तदा ॥ १३.१८५.२४ ॥
女神、苦行女、大福之人如此向苏摩娜讲说夫之法,随即便消失在视野之外。
13.185.25
यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि ।
स देवलोकं सम्प्राप्य नन्दने स सुखी वसेत् ॥ १३.१८५.२५ ॥
若有人每逢节日诵读此《般度五子》故事,他将往生天界,在难陀园中安乐居住。