Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.19

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.19.1

गरुडः पक्षिणां श्रेष्ठ इति पूर्वं पितामह ।
उक्तस्त्वया महाबाहो श्वेतवाहं प्रशंसता ॥ १३.१९.१ ॥

祖父啊,您从前曾说迦如达是鸟中之最,那是在赞美白马者之时,啊大臂者。

13.19.2

अत्र कौतूहल इति श्रवणे जायते मतिः ।
कथं गरुत्मान्पक्षीणां श्रैष्ठ्यं प्राप परन्तप ॥ १३.१९.२ ॥

此时我心中生起想要聆听的好奇:迦如特曼如何在鸟中获得至尊之位,啊焚敌者?

13.19.3

सुपर्णो वैनतेयश्च केन शत्रुश्च भोगिनाम् ।
किंवीर्यः किंबलश्चासौ वक्तुमर्हसि भारत ॥ १३.१९.३ ॥

毗那达之子苏跋那因谁而成为诸蛇的敌人?他的威力如何,力量如何?婆罗多啊,您应当告诉我们。

13.19.4

वासुदेव महाबाहो देवकी सुप्रजास्त्वया ।
श्रुतं ते धर्मराजस्य मम हर्षविवर्धन ॥ १३.१९.४ ॥

婆苏提婆啊,大臂者,提婆基因您而得善子。您已听闻法王的话语,这使我的欢喜增长。

13.19.5

सुपर्णं शंस इत्येव मामाह कुरुनन्दनः ।
अस्य प्रवक्तुमिच्छामि त्वयाऽज्ञप्तो महाद्युते ॥ १३.१९.५ ॥

库鲁之乐对我说:“请讲述苏跋那。”大光明者啊,遵从您的命令,我愿意讲述此事。

13.19.6

त्वं हि शौरे महाबाहो सुपर्णः प्रोच्यसे पुरा ।
अनादिनिधने काले गरुडश्चासि केशव ॥ १३.१९.६ ॥

您啊,首罗之后裔,大臂者,往昔曾被称为苏跋那。而在无始无终之时,啊羯舍婆,您也是迦如达。

13.19.7

तस्मात्पूर्वं प्रसाद्य त्वां धर्मपुत्राय धीमते ।
गरुडं पततांश्रेष्ठं वक्तुमिच्छामि माधव ॥ १३.१९.७ ॥

因此,我先取悦于你,愿为智慧的法之子讲述鸟中之最——迦鲁荼,哦摩陀婆。

13.19.8

यथैव मां भवान्वेद तथा वेद युधिष्ठिरः ।
यथा च गरुडो जातस्तथाऽस्मै ब्रूहि तत्वतः ॥ १३.१९.८ ॥

你如何认识我,尤迪希提罗也如此认识我。迦鲁荼如何诞生,请如实地告诉他。