摩诃婆罗多 · 章 13.247
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.247.1
त्रियक्ष त्रिदशश्रेष्ठ त्र्यम्बक त्रिदशाधिप ।
त्रिपुरान्तक कामाङ्गहर त्रिपथगाधर ॥ १३.२४७.१ ॥
三目者啊,诸神中最胜者,三眼者,诸神之主,毁灭三城者,夺去爱神身体者,承载三道恒河者。
13.247.2
दक्षयज्ञप्रशमन सूलपाणेऽरिसूदन ।
नमस्ते लोकपालेश लोकपालवरप्रद ॥ १३.२४७.२ ॥
平息达刹祭祀者啊,持三叉戟者,灭敌者,向你致敬。世界守护者之主啊,赐予世界守护者恩惠者。
13.247.3
नैकशाखमपर्यन्तमध्यात्मज्ञानमुत्तमम् ।
अप्रतर्क्यमविज्ञेयं साङ्ख्ययोगसमन्वितम् ॥ १३.२४७.३ ॥
最上的内在自我知识,枝叶繁多而无穷尽,超越推理而不可知,与数论和瑜伽相结合。
13.247.4
भवता परिपृष्टेन शृण्वन्त्या मम भाषितम् ।
इदानीं श्रोतुमिच्छामि सायुज्यं त्वद्गतं विभो ॥ १३.२४७.४ ॥
你既已问起,我也已聆听我的言语,现在我想听,主啊,你所达到的与你合一的境界。
13.247.5
कथं परिचरन्त्येते भक्तास्त्वां परमेष्ठिनम् ।
आचारः कीदृशस्तेषां केन तुष्टो भवेद्भवान्।
वर्ण्यमानं त्वया साक्षात्प्रीणयत्यधिकं हि मा ॥ १३.२४७.५ ॥
这些信徒如何侍奉你这至尊主?他们的行为如何,何物能使你满意?你亲自描述之时,它使我极为欣喜。
13.247.6
हन्त ते कथयिष्यामि मम सायुज्यमद्भुतम् ।
येन ते न निवर्तन्ते युक्ताः परमयोगिनः ॥ १३.२४७.६ ॥
好吧,我将告诉你我奇妙的合一,至高的瑜伽行者一旦与之相合,便不再返回。
13.247.7
अव्यक्तोऽहमचिन्त्योऽहं पूर्वैरपि मुमुक्षुभिः ।
साङ्ख्ययोगौ मया सृष्टौ सर्वं चापि चराचरम् ॥ १३.२४७.७ ॥
我是未显现者,我是不可思议者,即便往昔求解脱者也曾认识我。数论与瑜伽由我所造,一切动与不动之物亦然。
13.247.8
अर्चनीयोऽहमीशोऽहमव्ययोऽहं सनातनः ।
अहं प्रसन्नो भक्तानां ददाम्यमरतामपि ॥ १३.२४७.८ ॥
我当受礼拜,我是主宰,我不灭且永恒。我对信徒欢喜,甚至赐予他们不死。
13.247.9
न मां विदुः सुरगणा मुनयश्च तपोधनाः ।
त्वत्प्रियार्थमहं देवि मद्विभूतिं ब्रवीमि ते ॥ १३.२४७.९ ॥
即便诸天神众与以苦行为财富的仙人也不认识我。女神啊,为了你所钟爱之事,我向你讲说我的神力。
13.247.10
आश्रमेभ्यश्चतुर्भ्योऽहं चतुरो ब्राह्मणाञ्शुभे ।
मद्भक्तान्निर्मलान्पुण्यान्समानीय तपस्विनः ॥ १३.२४७.१० ॥
吉祥的女神啊,我从四种生活阶段中召集了四位婆罗门——他们是我的信徒,清净、有福德的苦行者。
13.247.11
व्याचख्येऽहं तथा देवि योगं पाशुपतं महत् ।
गृहीतं तच्च तैः सर्वं मुखाच्च मम दक्षिणात् ॥ १३.२४७.११ ॥
女神啊,如是我讲说了伟大的帕苏帕塔瑜伽。他们便从我的右口接受了全部。
13.247.12
श्रुत्वा तत्त्रिषु लोकेषु स्थापितं चापि तैः पुनः ।
इदानीं च त्वया पृष्टो वदाम्येकमनाः शृणु ॥ १३.२४७.१२ ॥
他们听闻之后,又将其确立于三界。现在你既然问了,我便专心地为你讲说,你听着。
13.247.13
अहं पसुपतिर्नाम मद्भक्ता ये च मानवाः ।
सर्वे पाशुपता ज्ञेया भस्मदिग्धतनूरुहाः ॥ १३.२४७.१३ ॥
我名为波舍波帝。凡是我的信徒,都应被认作波舍波多(Pāśupata),其身上的毛发都涂满了圣灰。
13.247.14
रक्षार्थं मङ्गलार्थं न पवित्रार्थं च भामिनि ।
लिङ्गार्थं चैव भक्तानां भस्म दत्तं मया पुरा ॥ १३.२४७.१४ ॥
光彩照人的女子啊,我从前把这圣灰赐予信徒,不是为了保护,不是为了吉祥,也不是为了清净,而是为了林伽(liṅga)。
13.247.15
तेन संदिग्धसर्वाङ्गा भस्मना ब्रह्मचारिणः ।
जटिला मुण्डिता वाऽपि नानाकारशिखण्डिनः ॥ १३.२४७.१५ ॥
以圣灰涂遍全身的梵行者,或结发者,或剃头者,佩戴各式各样发髻的人。
13.247.16
विकृताः पिङ्गलाभिस्च नग्ना नानाप्रकारिणः ।
भैक्षं चरन्तः सर्वत्र निःस्पृहा निष्परिग्रहाः ॥ १३.२४७.१६ ॥
形貌怪异、黄褐色、裸身、种类繁多,到处乞食,无欲无求,不占有任何财物。
13.247.17
मृत्पात्रहस्ता मद्भक्ता मन्निवेशितबुद्ध्यः ।
चरन्तो निखिलं लोकं मम हर्षविवर्धनाः ॥ १३.२४७.१७ ॥
手持陶钵,我的信徒们心意专注于我,遍游整个世界,增益我的喜悦。
13.247.18
मम पाशुपतं दिव्यं योगशास्त्रमनुत्तमम् ।
सूक्ष्मं सर्वेषु लोकेषु विमृशन्तश्चरन्ति ते ॥ १३.२४७.१८ ॥
我那神圣而至高的瑜伽论典波舍波多(Pāśupata)精微深奥;他们在一切世界中思索它,四处游行。
13.247.19
एवं नित्याभियुक्तानां मद्भक्तानां तपस्विनाम् ।
उपायं चिन्तयाम्याशु येन मामुपयान्ति ते ॥ १३.२४७.१९ ॥
因此,对于那些恒常专注的我的信徒与苦行者,我很快便考虑使他们得以归向我的方法。
13.247.20
स्थापितं त्रिषु लोकेषु शिवलिङ्गं मया मम ।
नमस्कारेण वा तस्य मुच्यन्ते सर्वकिल्बिषैः ॥ १३.२४७.२० ॥
在三界之中,有我所立的湿婆林伽;仅以恭敬礼拜于它,众人便脱离一切罪业。
13.247.21
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः ।
शिवलिङ्गप्रणामस्य कलां नार्हन्ति षोडशीम् ॥ १३.२४७.२१ ॥
祭祀、布施、诵习吠陀,以及重礼大祭,都抵不上对湿婆林伽礼敬的十六分之一。
13.247.22
अर्चया शिवलिङ्गस्य परितुष्याम्यहं प्रिये ।
शिवलिङ्गार्चनायां तु विदानमपि मे शृणु ॥ १३.२४७.२२ ॥
爱妻啊,我因礼拜湿婆林伽而心满意足。现在也请听我说礼拜湿婆林伽的规则。
13.247.23
गोक्षीरनवनीताभ्यामर्चयेद्यः शिवं मम ।
इष्टस्य हयमेधस्य यत्फलं तत्फलं भवेत् ॥ १३.२४७.२३ ॥
凡以牛奶与酥油礼拜我湿婆者,所得之果,正如行马祠所得之果。
13.247.24
घृतमण्डेन यो नित्यमर्चयेद्यः शिवं मम ।
स फलं प्राप्नुयान्मर्त्यो ब्राह्मणस्याग्निहोत्रिणः ॥ १३.२४७.२४ ॥
凡人每日以酥油之精华礼拜我湿婆者,得到行阿耆尼火祭的婆罗门所得之果。
13.247.25
केवलेनापि तोयेन स्नापयेद्यः शिवं मम ।
स चापि लभते पुण्यं प्रियं च लभते नरः ॥ १३.२४७.२५ ॥
若有人仅以清水为我的湿婆林伽沐浴,此人亦得功德,并得其所爱之物。
13.247.26
सघृतं गुग्गुलु सम्यग्धूपयेद्यः शिवान्तिके ।
गोसवस्य तु यज्ञस्य यत्फलं तस्य तद्भवेत् ॥ १३.२४७.२६ ॥
若在湿婆前以酥油与古古鲁香妥善焚香,则其所得之果,即为牛祭(go-sava)之果。
13.247.27
यस्तु गुग्गुलपिण्डेन केवलेनापि धूपयेत् ।
तस्य रुक्मप्रधानस्य यत्फलं तस्य तद्भवेत् ॥ १३.२४७.२७ ॥
若仅以一团古古鲁香焚香,其所得之果与以黄金为主要布施者相同。
13.247.28
यस्तु नानाविधैः पुष्पैर्मम लिङ्गं समर्चयेत् ।
स हि धेनुसहस्रस्य दत्तस्य फलमाप्नुयात्। ॥ १३.२४७.२८ ॥
若以各色花朵善供养我的林伽,则必得布施千牛之果。
13.247.29
यस्तु देशान्तरं गत्वा शिवलिङ्गं समर्चयेत् ।
तस्मात्सर्वमनुष्येषु नास्ति मे प्रियकृत्तमः ॥ १३.२४७.२९ ॥
若有人远赴他国而善供养湿婆林伽,则在所有人中,没有比他更让我欢喜的人。
13.247.30
एवं नानाविधैर्द्रव्यैः शिवलिङ्गं समर्चयेत् ।
मत्समानो मनुष्येषु न पुनर्जायते नरः ॥ १३.२४७.३० ॥
如此以种种供品善供养湿婆林伽者,在人中便与我相等,且此人不再投生为人。
13.247.31
अर्चनाभिर्नमस्कारैरुपहारैः स्तवैरपि ।
भक्तो मामर्चयेन्नित्यं शिवलिङ्गेष्वतन्द्रितः ॥ १३.२४७.३१ ॥
信徒应以礼拜、致敬、供品和赞颂,不懈怠地常在湿婆林伽中供奉我。
13.247.32
पलाशबिल्वपत्राणि राजवृक्षस्रजं तथा ।
अर्कपुष्पाणि मेध्यानि मत्प्रियाणि विशेषतः ॥ १३.२४७.३२ ॥
palāśa 与 bilva 的叶子、rāja 树的花环,以及 arka 花——这些洁净之物尤其为我所喜爱。
13.247.33
फलं वा यदि वा शाकं पुष्पं वा यदि वा जलम् ।
दत्तं सम्प्रीणयेद्देवि भक्तैर्मद्गतमानसैः ॥ १३.२४७.३३ ॥
果实或蔬菜、花朵或清水——无论供奉什么,女神啊,心向于我的信徒都应以此令我欢喜。
13.247.34
ममाभिपरितुष्टस्य नास्ति लोकेषु दुर्लभम् ।
तस्मात्ते सततं भक्ता मामेवाभ्यर्चयन्त्युत ॥ १३.२४७.३४ ॥
对于我这位完全欢喜的神,诸世界中没有难以得到的东西。因此,你的信徒们总是只供奉我。
13.247.35
मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः ।
मद्भक्ताः सर्वलोकेषु पूजनीया विशेषतः ॥ १३.२४७.३५ ॥
我的信徒不会毁灭;我的信徒远离污垢。我的信徒在一切世界中都尤其值得供奉。
13.247.36
मद्द्वेषिणश्चि ये मर्त्या मद्भक्तद्वेषिणश्च वा ।
यान्ति ते नरकं घोरमिष्ट्वा क्रतुशतैरपि ॥ १३.२४७.३६ ॥
憎恨我的凡人,或憎恨我的信徒的人,即使举行了百次祭祀,也会堕入可怖的地狱。
13.247.37
एतत्ते सर्वमाख्यातं योगं पाशुपतं महत् ।
मद्भक्तैर्मनुजैर्देवि श्राव्यमेतद्दिनेदिने ॥ १३.२४७.३७ ॥
女神啊,这一切已经向你宣说:这是伟大的帕舒帕塔瑜伽。我的信徒们应当日复一日地听闻此法。
13.247.38
शृणुयाद्यः पठेद्वाऽपि ममेदं धर्मनिश्चयम् ।
स्वर्गं कीर्तिं धनं धान्यं स लभेत नरोत्तमः ॥ १३.२४७.३८ ॥
凡听闻或诵读我这关于法的定论的人,便是人中之最,他将获得天界、名声、财富与五谷。