Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.254

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.254.1

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ १३.२५४.१ ॥

尤迪西提罗听完了所有净化人心的法教后,再次对商塔奴之子说道。

13.254.2

किमेकं दैवतं लोके किं वाऽप्येकं परायणम् ।
स्तुवन्तः कं कर्मर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ १३.२५४.२ ॥

世间唯一的神是谁?或者唯一的至高归宿是什么?人们赞颂谁、礼拜谁,才能获得吉祥?

13.254.3

को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ १३.२५४.३ ॥

在一切法之中,您认为哪一种是最高之法?诵念什么,众生才能从生死轮回的束缚中解脱?

13.254.4

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥ १३.२५४.४ ॥

以千名赞颂世界之主、神中之神、无限的至高人,人便常常觉醒而起。

13.254.5

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ १३.२५४.५ ॥

以虔诚之心常常礼拜那不灭的补鲁莎,冥想他、赞颂他、向他顶礼,施祭者也唯独归于他。

13.254.6

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःकातिगो भवेत् ॥ १३.२५४.६ ॥

若常常赞颂那无始无终的毗湿奴,即世界的大主宰、诸界的监护者,便能超越一切苦难。

13.254.7

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वबूतभवोद्भवम् ॥ १३.२५४.७ ॥

他敬重婆罗门,知晓一切法,增益世界的声誉,是世界之主、大存在,也是一切众生生起的源头。

13.254.8

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १३.२५४.८ ॥

依我之见,这是一切法中最殊胜的:人应当以虔敬和赞颂,常常礼拜那莲花眼者。

13.254.9

परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ १३.२५४.९ ॥

他是至上的大光明,是至上的大苦行,是至上的大梵,是至上的究竟归依。

13.254.10

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १३.२५४.१० ॥

他是圣中之圣,吉中之吉,诸神之神,是众生不灭的父亲。

13.254.11

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १३.२५४.११ ॥

一切众生在初劫到来时从他而生,在劫末又再次归于他而灭。

13.254.12

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १३.२५४.१२ ॥

大王啊,请听我诵说毗湿奴的千名——那位世界之主、宇宙之王,这些名号能驱除罪恶的恐惧。

13.254.13

यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १३.२५४.१३ ॥

为了众生的福祉,我将讲述那些被诸仙人所颂唱的、大士的著名派生之名。

13.254.14

ऋषिर्नाम्नां सहस्रस्य देवव्यासो महामुनिः ।
छन्दोनुष्टुप्तथा देवो भगवान्देवकीसुतः ॥ १३.२५४.१४ ॥

千名之仙人是大圣人、神圣的毗耶娑;韵律为阿奴湿图卜;神祇是薄伽梵,提婆吉之子。

13.254.15

अमुतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसाम हृदयं तस्य शान्त्यर्थे विनियुज्यते ॥ १३.२५४.१५ ॥

生于甘露之光者为种子,提婆吉之爱子为力量,三娑摩为其心;此乃为求平安而施用。

13.254.16

ओं विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १३.२५४.१६ ॥

唵;宇宙、毗湿奴、婆沙吒祭;过去、未来、现在之主;众生的创造者、护持者、存在、众生之我、养育众生者。

13.254.17

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ १३.२५४.१७ ॥

清净之我、最高之我,解脱者的至上归宿,不灭者、补鲁沙、见证者、知场者,亦为不朽者。

13.254.18

योगो योगविदांनेता प्रधानपुरुषेश्वरः ।
नरसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ॥ १३.२५४.१८ ॥

瑜伽;通晓瑜伽者之导师;原质与补鲁沙之主;具人狮之身的吉祥羯沙婆,至上补鲁沙。

13.254.19

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ १३.२५४.१९ ॥

他是一切,是灭者(Śarva),是吉祥者(Śiva),是不动者(Sthāṇu),是众生之源,是宝藏,是不灭者,是生之源,是使之存在者,是持守者,是起源,是主,是自在者。

13.254.20

स्वयंभूः शंभुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ १३.२५४.२० ॥

他是自生者,是安乐者(Śambhu),是太阳(Āditya),是莲花眼者,是大声者,是无始无终者,是创造者,是安排者,是诸元素中最上者。

13.254.21

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ १३.२५४.२१ ॥

他是不可量者,是感官之主(Hṛṣīkeśa),是脐生莲花者,是诸不死者之主,是毗首羯磨(Viśvakarmā),是摩奴(Manu),是特瓦希陀(Tvaṣṭṛ),是最广大者,是古老者,是坚固者。

13.254.22

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुद्धाम पवित्रं मङ्गलं परम् ॥ १३.२५४.२२ ॥

他是不可执取者,是永恒者,是黑天(Kṛṣṇa),是红眼者,是普罗达那(Pratardana),是丰盛者,是三峰之居者,是清净者,是吉祥者,是至上者。

13.254.23

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माघवो मधुसूदनः ॥ १३.२५४.२३ ॥

他是主宰者,是赐予命息者,是命息本身,是长者,是最上者,是众生之主,是金胎,是地胎,是摩陀婆(Mādhava),是杀摩图者(Madhusūdana)。

13.254.24

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ १३.२५४.२४ ॥

他是自在者,是勇猛者,是持弓者,是智者,是威力,是步伐,是无上者,是难以攻破者,是感恩者,是成就者,是自持者。

13.254.25

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १३.२५४.२५ ॥

众神之主、庇护、安乐,以宇宙为种子,众生之源;日、年、蛇、证明、全见者。

13.254.26

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ १३.२५४.२६ ॥

无生者、一切之主、成就者、成就、一切之初、不灭者;牛猴、量不可测之自性、出于一切瑜伽者。

13.254.27

वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १३.२५४.२७ ॥

居所者、心怀高尚者、真实者、自性平等者、有尺度者、平等者;不虚者、莲花眼者、行如牛者、形如牛者。

13.254.28

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतः स्थापुर्वरारोहो महातपाः ॥ १३.२५४.२८ ॥

楼陀罗、多首者、赤褐者、宇宙之源、清净名声者;不死者、永恒者、不动者、上升卓越者、大苦行者。

13.254.29

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥ १३.२५४.२९ ॥

遍在者、知一切者、太阳、军队遍布者、惩恶者;吠陀、通晓吠陀者、无缺者、以吠陀为肢体者、通晓吠陀者、诗人。

13.254.30

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १३.२५४.३० ॥

世界之监、诸神之监、法之监、有为与无为者;四我者、四重显现者、四牙者、四臂者。

13.254.31

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसु ॥ १३.२५४.३१ ॥

光明者,食物与食者,忍耐者,世界的初生者。无垢者,胜利与胜者,宇宙之源,补纳婆素。

13.254.32

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमोयमः ॥ १३.२५४.३२ ॥

因陀罗之弟、侏儒、高大者、不虚者、清净者、强盛者。超越因陀罗者,摄持者,创造,坚定之我,制约,阎摩。

13.254.33

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १३.२५४.३३ ॥

可知者,医者,常修瑜伽者,杀英雄者,摩陀婆,摩度。超越诸根,大幻力者,大勇气者,大力者。

13.254.34

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १३.२५४.३४ ॥

大智、大勇、大力、大光明者。形体不可指示者,吉祥者,无量自性者,持大山者。

13.254.35

महेष्वासो महीभर्ता श्रीनिवासः सताङ्गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदाम्पतिः ॥ १३.२५४.३५ ॥

大弓手,大地之主,吉祥之所居,善人之归宿。阿尼如陀,诸天之乐,瞿频陀,知牛者之主。

13.254.36

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ १३.२५४.३६ ॥

摩利支,调伏者,天鹅,金翅鸟,蛇中最胜者。金脐,善苦行,莲花脐,生主。

13.254.37

अमृत्युः सर्वदृक्सिंहः सन्धाता सन्धिमान्स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ १३.२५४.३७ ॥

不死者、全视之狮、结合者、具足结合者、坚定者、不生者、难以忍受者、统治者、名闻自我者、诸天敌人的杀戮者。

13.254.38

गुरुर्गरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ १३.२५४.३८ ॥

导师、迦卢special鸟、住所、真实者、具真实勇力者、眨眼者、不眨眼者、戴花环者、言语之主、智慧高尚者。

13.254.39

अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ १३.२५४.३९ ॥

至上领袖、村落之长、吉祥者、正义、引导者、风、千头者、宇宙之魂、千眼者、千足者。

13.254.40

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः ॥ १३.२५४.४० ॥

旋转者、心已转离者、被包覆者、摧碎者、日、世界的毁灭者、火、风、承载大地者。

13.254.41

सुप्रसादः प्रसन्नात्मा विश्वदृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतिः साधुर्जह्नुर्नारायणो नरः ॥ १३.२५४.४१ ॥

极其慈悲者、心境澄明者、见一切宇宙者、享受宇宙者、遍在者、尊敬善人者、受尊敬者、善者、Jahnu、Nārāyaṇa、Nara。

13.254.42

असंख्येयोप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ १३.२५४.४२ ॥

不可计数者、心量无限者、殊胜者、建立秩序者、清净者、目的成就者、决意成就者、赐予成就者、成就之因。

13.254.43

वृषाहिर्वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ १३.२५४.४३ ॥

跋利沙希、跋利沙跋、毗湿奴、跋利沙波婆、跋利沙乌陀罗、增益与增长者、离群者、圣典之海。

13.254.44

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ १३.२५४.४४ ॥

善臂、难持者、善辩者、摩晒陀罗、施财者与财富、非一形者、大形者、尸毗湿吒、光照者。

13.254.45

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पृष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ १३.२५४.४५ ॥

持力、持光、持辉者,本性为光者,烈照者,兴盛者,为字母所触者,真言,具月光者,具日轮光辉者。

13.254.46

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ १३.२५४.४६ ॥

生于甘露光之月者,太阳,月中之点,诸天之主,世界之药,桥梁,以真理与法为勇力者。

13.254.47

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ १३.२५४.४७ ॥

过去、未来与生成之主,风,净化者,火,断欲者,生欲者,可爱者,欲,施欲者,主。

13.254.48

युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ १३.२५४.४८ ॥

创始诸劫者,转动诸劫者,具众幻者,大吞噬者,不可见者,显现形相者,胜千者,胜无尽者。

13.254.49

इष्टो विशिष्टः शिष्टेष्ट शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ १३.२५४.४९ ॥

他可爱、卓越,为贤者所愿,是湿陀丁、那呼沙、公牛。他是断除愤怒者,是生起愤怒者与行者,遍臂者,承载大地者。

13.254.50

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ १३.२५४.५० ॥

他是不退者、著名者、命、施命者、因陀罗之弟,是水之宝库、依处、不放逸者、安立者。

13.254.51

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरंदरः ॥ १३.२५४.५१ ॥

他是塞建陀,持塞建陀者,车轭之首,施恩者,以风为乘。他是婆苏提婆、大光、原始神、城池摧毁者补罗檀陀罗。

13.254.52

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ १३.२५४.५२ ॥

他是无忧者、度者、渡者、英雄、舍利之子、人主,是随顺者、百转者、持莲者、莲目者。

13.254.53

पद्मनाबोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धिर्ऋद्धो वृद्धात्मा महाक्षो गरुडध्वक्षः ॥ १३.२५४.५३ ॥

他是莲花脐、莲花眼、莲花胎、持身者,是大福德者、成就者、老成者、大眼者、金翅鸟旗者。

13.254.54

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिंजयः ॥ १३.२५४.५४ ॥

他是无比者、沙罗跋、可畏者、知时者、受供养的哈利。他具足一切相好,有吉祥天,是战阵的胜者。

13.254.55

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ १३.२५४.५५ ॥

维克沙罗、罗希多、摩尔伽、赫都、达摩陀罗、萨诃、摩希陀罗、摩诃婆伽、吠伽梵、阿米答舍那。

13.254.56

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ १३.२५४.५६ ॥

乌德bhava、刹blah那、天神、室利胎藏、至高主、工具、因、作者、坏者、深奥者、隐秘者。

13.254.57

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ १३.२५४.५७ ॥

维耶瓦赛耶、维耶瓦斯塔那、三斯塔那、斯塔那达、德罗婆、般尔迪、至明者、满足者、增益者、吉祥目者。

13.254.58

रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।
वीरः शक्तिमतांश्रेष्ठो धर्मो धर्मविदुत्तमः ॥ १३.२५४.५८ ॥

罗摩、毗罗摩、无尘、摩尔伽、可导者、导、非导、英雄、有力者中最胜者、法、知法者中最上者。

13.254.59

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ १३.२५४.५९ ॥

吠Kuntha、补鲁沙、生气、施气者、唵、普利图、金胎、灭敌者、遍在者、风、超感者。

13.254.60

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ १३.२५४.६० ॥

季节、善见、时、至尊者、受取者、猛烈者、年、巧者、休息、遍施者。

13.254.61

विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ १३.२५४.६१ ॥

广延、不动者、坚固之柱、尺度、不灭之种子;义与非义,大宝藏,大享受者,大财富主。

13.254.62

अनिर्विण्णः स्थविष्ठो भूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ १३.२५४.६२ ॥

不倦者、最广大者、大地、法之柱、大祭;以星宿为轮辋者、星宿之主、忍辱者、精微者、勤勉者。

13.254.63

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सताङ्गतिः ।
सर्वदर्शी वमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ १३.२५४.६३ ॥

祭祀、值得供奉者、极可供奉者、仪式、长祭、善人之归依;遍见者、已脱离抛弃之自我、一切知者、最上智慧。

13.254.64

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ १३.२५४.६४ ॥

持善愿者、面容俊美者、精微者、声音美妙者、赐予幸福者、善友;令心醉者、克制愤怒者、臂力强大者、摧破者。

13.254.65

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ १३.२५४.६५ ॥

令人入睡者、自主者、遍在者、具多种自性者、作多种业者;年、慈爱者、有犊者、宝藏之胎、财富之主。

13.254.66

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ १३.२५४.६६ ॥

护法者、行法者、具法者;有与无、可灭与不灭;不可知者、千光者、安排者、具相者。

13.254.67

गभस्तिनेमिः सत्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ १३.२५४.६७ ॥

伽跋斯提涅弥,安住于善性者,狮子,众生的大自在天,原初神,大神,诸神之主,持诸神者,导师。

13.254.68

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरी भूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ १३.२५४.६८ ॥

乌塔罗,牛主,守护者,以智慧可知者,古老者,有身者,持众生者,享受者,猴王,施予丰厚布施者。

13.254.69

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
विनयोज्यः सत्यसन्धो दाशार्हः सात्वतांपतिः ॥ १३.२५४.६९ ॥

饮苏摩者,饮甘露者,苏摩,征服众多者,人中最上者,可以训导引导者,誓言真实者,达莎尔哈,萨特瓦塔之主。

13.254.70

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ १३.२५४.७० ॥

生命,训导者,见证者,穆昆达,无量勇力者,水之宝藏,无限之自我,卧于大海之上者,终结者。

13.254.71

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ १३.२५४.७१ ॥

不生者,堪受大敬者,自在者,胜敌者,令人欢喜者,喜乐,欢悦者,喜悦者,以真理为法者,三步遍行者。

13.254.72

महर्षिः कपिलाचार्य कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ १३.२५४.७२ ॥

大仙,导师迦毗罗,感恩者,大地之主,三足者,三十三天之主,大角者,作终结者。

13.254.73

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ १३.२५४.७३ ॥

大野猪、戈文达、苏舍那、佩戴金臂钏者、秘密者、深邃者、难测者、隐藏者、持轮与杵者。

13.254.74

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ १३.२५४.७४ ॥

造物者、自成其身者、不可胜者、黑天、坚固者、桑迦尔沙那、不坏者、伐楼那、伐楼那之属、树、莲目者、大心者。

13.254.75

भगवान्भगहा नन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ १३.२५४.७५ ॥

世尊、灭薄伽者、欢喜者难提、戴野花花环者、执犁者、太阳、光明太阳、忍耐者、至善之归趣。

13.254.76

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ १३.२५४.७६ ॥

善弓者、断斧者、可畏者、施财者、触天者、遍见者、毗耶娑、言语之主、非胎生者。

13.254.77

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ १३.२५४.७७ ॥

三重歌咏者、娑摩歌者、娑摩本身、涅槃、良药、医者、行舍离者、寂静、寂静者、坚定之修、寂止、最上归依。

13.254.78

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ १३.२५४.७८ ॥

身相吉祥者、施寂静者、创造者、俱牟陀、卧于睡莲者、利益牛者、牛主、护持者、牛目者、爱牛者。

13.254.79

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ १३.२५४.७९ ॥

永不退缩者,自我已寂灭者,收摄万物者,赐予安乐者,吉祥者;胸前有室利婆磋标记者,吉祥之所居,吉祥之主,吉祥者中最尊贵者。

13.254.80

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ १३.२५४.८० ॥

赐予吉祥者,吉祥之主,吉祥之所居,吉祥之宝藏,显现吉祥者,承载吉祥者,creating吉祥者,至上之善,吉祥者,三界之依归。

13.254.81

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ १३.२५४.८१ ॥

眼睛美丽者,肢体美好者,具百喜者,欢喜者,光明,众灵之主,自我已被征服者,自我已调伏者,美名者,疑惑已断者。

13.254.82

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ १३.२५४.८२ ॥

崇高者,四面皆有眼目者,无上主者,永恒者,坚定者,卧于大地者,庄严者,吉祥显现者,离忧者,除忧者。

13.254.83

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ १३.२५४.८३ ॥

光明者,受供养者,瓶(造化之器),自性清净者,净化者,无碍者(阿尼卢陀),战车上无敌者,普拉德尤姆纳,威力无量者。

13.254.84

कालनेमिनिहा वीरः शौरिः सूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ १३.२५४.८४ ॥

杀死迦罗涅弥者,英雄,舒罗之后裔,舒罗众人之主,三界之自性,三界之主,羯舍婆,杀死罗刹鬃毛者,哈利。

13.254.85

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ १३.२५४.८५ ॥

迦摩提婆、迦摩护、迦摩、可爱者、作典者、形相不可言说者、毗湿奴、英雄、无尽者、胜财者。

13.254.86

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ १३.२५४.८६ ॥

护持婆罗门者、作梵者、梵天、梵、增长梵者、知梵者、婆罗门、属梵者、梵智者、婆罗门所爱者。

13.254.87

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ १३.२५४.८७ ॥

大步者、大作者、大光者、大蛇、大祭、大祭者、大祀、大供物。

13.254.88

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिःस्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ १३.२५४.८८ ॥

可赞者、好赞者、赞颂、赞美、赞者、好战者、圆满者、成就者、圣洁者、圣名者、无病者。

13.254.89

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ १३.२५४.८९ ॥

疾如意者、造圣渡者、以财为种者、施财者、施财者、婆苏提婆、光明者、心意宽厚者、供物。

13.254.90

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ १३.२५४.९० ॥

善趣者、善敬者、真实者、善盛者、以善为依归者、属舒罗森那者、耶都族最胜者、居所、善耶牟那者。

13.254.91

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पहो दृप्तो दुर्धरोऽद्धाऽपराजितः ॥ १३.२५४.९१ ॥

众生之所居,婆苏提婆,一切生气之所依,火神;摧毁傲慢者,崇高者,难以制伏者,实为不可战胜者。

13.254.92

विश्वमूर्तिर्महमूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ १३.२५४.९२ ॥

以宇宙为形者,大形者,光明形者,无形者,多形者,未显者,百形者,百面者。

13.254.93

एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ १३.२५४.९३ ॥

唯一而非众多;创造者;谁、何者,即那无上之境;众世界之友,众世界之主,摩陀婆,爱护信徒者。

13.254.94

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ १३.२५४.९४ ॥

金色之色,金色之身,妙好之身,涂檀香、佩臂钏者;杀英雄者,不平等者,空者,以酥油为祝福者,不动者,动者。

13.254.95

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृत् ।
सुमेधा मेघजो धन्यः सत्यमेधा धराधरः ॥ १३.२५४.९५ ॥

无慢者,予人尊荣者,可尊敬者,诸世界之主,持三界者;大智者,生于云者,有福者,真智者,持大地者。

13.254.96

तेजो वृषो द्युतिधरः सर्वशस्त्रभृतांवरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ १३.२५४.९६ ॥

光明,强者中之雄牛,持辉光者,诸持兵器者中最胜者;制止者,惩罚者,警觉者,多峰者,伽陀之兄。

13.254.97

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वदविदेकपात् ॥ १३.२५४.९७ ॥

四形者、四臂者、四阵者、四道者、四我者、四态者、通晓四吠陀者、独足者。

13.254.98

समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ १३.२५४.९८ ॥

使一切同归轮转者、自我已收摄者、难以战胜者、难以超越者、难以获得者、难以抵达者、难以接近的堡垒、难以近居者、杀死难杀之敌者。

13.254.99

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ १३.२५४.९९ ॥

肢体吉祥者、世界之鹿精华者、善线者、增益线者、行为如因陀罗者、大行者、已作所作者、传承已立者。

13.254.100

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ १३.२५४.१०० ॥

起源者、美者、妙者、宝脐者、美目者、日者、赐力者、有角者、胜者、遍知而胜者。

13.254.101

सुवर्णिबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ १३.२५४.१०१ ॥

金点者、不动者、一切言辞之主中的主、大湖、大渊、大有者、大宝藏。

13.254.102

कुमुदः कुन्दरः कुन्दः पर्जन्यः पवनोऽनिलः ।
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ १३.२५४.१०२ ॥

如莲者、如茉莉者、茉莉、雨云、风、微风、具甘露光者、不死之身者、一切知者、面向一切者。

13.254.103

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोदुम्बरोश्वत्थश्चापूरान्ध्रनिषूदनः ॥ १३.२५४.१०३ ॥

易得、善誓、成就者、胜敌者、烧敌者;尼亚格罗陀、优昙婆罗、阿输陀树;摧毁遮补罗与安达罗者。

13.254.104

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ १३.२५४.१०४ ॥

千光、七舌、七薪、七乘;无形、无垢、不可思议;生怖畏者,除怖畏者。

13.254.105

अणुर्बृहत्कृशः स्थूलो गुणभृन्नर्गुणो महान् ।
अधृतः स्वधृतः स्वास्थ्यः प्राग्वंशो वंशवर्धनः ॥ १३.२५४.१०५ ॥

微细、广大、瘦削、粗大;持德者、无德者、伟大者;无所依者、自持者、自安者;族之先祖、增益族系者。

13.254.106

भारभृत्कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ १३.२५४.१०६ ॥

负重者、被称说者、瑜伽行者、瑜伽主、满足一切愿望者;住所、苦行者、瘦削者、金翅鸟、以风为乘者。

13.254.107

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ता नियमो यमः ॥ १३.२५४.१०७ ॥

持弓者、射术、刑杖、调伏者、自制;不败者、能忍一切者、制御者、戒律、阎摩。

13.254.108

सत्ववान्सात्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हःऋ प्रियकृत्प्रीतिवर्धनः ॥ १३.२५४.१०८ ॥

具善性者、属善质者、真实者、专注于真理法者;意向、值得喜爱者、值得者、令人喜悦者、增益欢喜者。

13.254.109

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ १३.२५४.१०९ ॥

行于天空者,光明,光辉悦目,享用祭品者,遍在者,太阳罗毗、毗卢遮那、苏利耶、萨维德利,日眼者。

13.254.110

अन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ १३.२५४.११० ॥

终结者,享用祭品者,享受者,赐予幸福者,多方施予者,长子,永不沮丧者,常不忍不义者,世界的根基,奇妙者。

13.254.111

सनात्सनातनतमः कपिलः कपिरप्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः ॥ १३.२५४.१११ ॥

永恒者,最永恒者,迦毗罗,赤色者,万物归灭于其中者,赐予安乐者,成就安乐者,安乐本身,享受安乐者,右手为安乐者。

13.254.112

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ १३.२५४.११२ ॥

不猛烈者,戴耳环者,持轮者,勇武者,权威强大者,超越声音者,忍受声音者,清凉者,造夜者。

13.254.113

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ १३.२५४.११३ ॥

不残忍者,温和者,灵巧者,慷慨者,忍耐者中最殊胜者,最有学问者,无畏者,闻其名与颂其德皆为功德者。

13.254.114

उत्तारणो दुष्कृतिहा पुण्यो दुःखप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ १३.२५४.११४ ॥

救度者,灭除恶业者,圣洁者,灭除苦恼恶梦者,诛杀英雄者,护持者,善人,生命赐予者,遍在而安立者。

13.254.115

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १३.२५४.११५ ॥

形态无穷、光辉无穷者,战胜愤怒者,驱除恐惧者,坚固者,心意深邃者,指令诸方与隅方者。

13.254.116

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १३.२५४.११६ ॥

无始者,地与天界,吉祥天女,大勇士,佩戴美丽臂钏者,生育者,众生出生之始,可畏者,有可畏威力者。

13.254.117

आधारनिलयो धाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १३.२५४.११७ ॥

一切支撑之居所,持护者,笑容如花者,为众生而醒者,向上行者,行于正道者,赐予生命者,唵音,赌注。

13.254.118

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १३.२५४.११८ ॥

量度,气息之居所,持气者,气息之生命,真理,知真理者,一体之我,超越生、死、老者。

13.254.120

यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः ।
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥ १३.२५४.१२० ॥

持祭者,行祭者,祭主,享祭者,祭之资具,终结祭者,祭之秘密,食物,亦是食者。

13.254.121

आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १३.२५४.१२१ ॥

自生者,自现者,掘地者毗迦纳,歌唱娑摩者,提婆吉之子,创造者,地之主,除罪者。

13.254.122

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः।
सर्वप्रहारणायुध ओंनम इति ॥ १३.२५४.१२२ ॥

手持法螺者,持难陀剑者,执轮者,持沙阇弓者,执杖者,手持车轮者,不可动摇者,一切攻击兵器皆其所持者。如是:「唵,敬礼」。

13.254.123

इतीदं कीर्तनीयस्यि केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १३.२५४.१२३ ॥

如是,可称颂的大德罗摩克舍瓦的千个神圣名号已全部宣说。

13.254.124

य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोमुत्रेह च मानवः ॥ १३.२५४.१२४ ॥

凡人若常闻此或诵此,于今世或来世,不会得到任何不吉之事。

13.254.125

वेदान्तो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ १३.२५४.१२५ ॥

愿婆罗门成为吠檀多的通达者,刹帝利得胜,吠舍富有财富,首陀罗获得安乐。

13.254.126

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ १३.२५४.१२६ ॥

求法者得法,求财者得财,求欲者得欲,求子者得子。

13.254.127

भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नातेमत्प्रकीर्तयेत् ॥ १३.२५४.१२७ ॥

凡有信心者,常晨起,身心清净,意念专注于他,当诵此婆苏提婆的千名。

13.254.128

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ १३.२५४.१२८ ॥

他获得广大的名声和在亲族中的尊崇。他得到坚固的福运,并获得无上的善果。

13.254.129

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्ययोगो द्युतिमान्बलरूपगुणान्वितः ॥ १३.२५४.१२९ ॥

他无论何处都不会遭遇恐惧。他获得勇力与光辉,成为不可战胜、光彩照人之人,具备力量、容貌与美德。

13.254.130

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येदापन्न आपदः ॥ १३.२५४.१३० ॥

受病苦者从病中解脱;被缚者从束缚中解脱。恐惧者从恐惧中解脱,陷入灾难者从灾难中解脱。

13.254.131

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ १३.२५४.१३१ ॥

充满虔诚、常以千名赞颂至上人者,能迅速度过一切困难。

13.254.132

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १३.२५४.१३२ ॥

依止毗湿奴、全心归向毗湿奴、灵魂洗净一切罪过的凡人,将到达永恒的梵。

13.254.133

न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ १३.२५४.१३३ ॥

毗湿奴的信徒处处没有不吉祥之事,生、死、老、病之怖畏也不会在他们心中生起。

13.254.134

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १३.२५४.१३४ ॥

以信心与虔敬诵读此赞歌者,将获得内心的安乐、忍耐、吉祥、坚定、记忆与名声。

13.254.135

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ १३.२५४.१३५ ॥

对于行善积功、虔信至上人的信徒,心中不生愤怒、嫉妒、贪婪,也无恶念。

13.254.136

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १३.२५४.१३६ ॥

天空连同月亮、太阳与星辰,四方、大地与大海,皆由伟大的婆苏提婆之力所支撑。

13.254.137

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १३.२५४.१३७ ॥

这个包括动与不动众生的世界,连同天神、阿修罗、乾闼婆、夜叉、龙蛇与罗刹,皆在克里希那的掌控之下。

13.254.138

इन्द्रियाणि मनो बुद्धिः सत्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १३.२५४.१३८ ॥

据说,诸根、意、觉、善性、光辉、力量与坚定,皆以婆苏提婆为自性;田与知田者亦复如是。

13.254.139

सर्वागमानामाचारः प्रथमं परिकल्प्यते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १३.२५४.१३९ ॥

诸经典中首先规定的是行为(品行);法从行为而生,法之主宰即是不坏者(阿君陀)。

13.254.140

ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारयणोद्भवम् ॥ १३.२५४.१४० ॥

诸仙、祖灵、诸神、大元素与诸成分,以及这动与不动的世界,都生于那罗延。

13.254.141

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादिकर्म च ।
वेदाः सास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १३.२५४.१४१ ॥

瑜伽、智慧、数论、诸学问、技艺等事,吠陀、论典与知识,皆出自生主(Janārdana)。

13.254.142

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ १३.२५४.१४२ ॥

唯一的毗湿奴是大有情,而各各分别的有情也有许多,但皆是他。遍及三界,作众生之我,享受一切的不坏者在享用。

13.254.143

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ १३.२५४.१४३ ॥

凡欲得吉祥与安乐者,当诵读此由毗耶娑所赞颂的薄伽梵毗湿奴之颂。

13.254.144

विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्।
न ते यान्ति पराभवम् ओं नम इति ॥ १३.२५४.१४४ ॥

凡敬奉宇宙之主、不生之神、世界的生起与消散者、莲花眼者的人,不遭失败。唵,敬礼。

13.254.145

पद्मपत्रविशालक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ १३.२५४.१४५ ॥

眼如莲瓣广阔的、脐生莲花者、诸天中最殊胜者啊!生主啊,请做那些深爱你的信徒的护佑者吧。

13.254.146

भगवानुवाच ।
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव।
सोहमेकेन श्लोकेन स्तुत एव न संशयः ।
स्तुत एव न संशय ओं नम इति ॥ १३.२५४.१४६ ॥

世尊说:般度之子啊,凡想以千名赞颂我的人,我以一颂便受其赞颂,毫无疑问。确已受赞,毫无疑问。唵,南无,如是。

13.254.147

वासनाद्वासुदेवः स्या वासितं ते जगत्त्रयम् ।
सर्वभूतनिवासोसि वासुदेव् नमोस्तु ते ॥ १३.२५४.१४७ ॥

因你的居住,你是婆薮提婆;三界为你所遍满。你是一切众生的居所。婆薮提婆啊,向你致敬。

13.254.148

नमोस्त्वनन्ताय सहस्रमूर्तये ।
सहस्रपादाक्षिशिरोरुबाहवे।
सहस्रनाम्ने पुरुषाय शाश्वते ।
सहस्रकोटियुगधारिणे नमः।
श्रीसहस्रकोटियुगधारिणे नम इति ॥ १३.२५४.१४८ ॥

敬礼无限者;敬礼具千相者。敬礼具千足、千目、千头、千股与千臂者。敬礼具千名的永恒补鲁沙。敬礼承载千亿劫者。敬礼承载千亿劫的吉祥者,如是。