Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.272

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.272.1

शरतल्पगते भीष्मे कौरवाणां धुरन्धरे ।
शयाने वीरशयने पाण्डवैः समुपस्थिते ॥ १३.२७२.१ ॥

当俱卢族的中坚者毗湿摩躺在箭床上,安卧于英雄之床,般度之子们来到他身边时。

13.272.2

युधिष्ठिरो महाप्राज्ञो मम पूर्वपितामहः ।
धर्माणामागमं श्रुत्वा विदित्वा सर्वसंशयान् ॥ १३.२७२.२ ॥

智慧深广的坚战,我的先祖,听闻诸法的传承,明了一切疑惑。

13.272.3

दानानां च विधिं श्रुत्वा च्छिन्नधर्मार्थसंशयः ।
यदन्यदकरोद्विप्र तन्मे शंसितुमर्हसि ॥ १३.२७२.३ ॥

听闻布施的规则,断除了关于法与财的疑惑之后,婆罗门啊,他还做了什么,请你告诉我。

13.272.4

अभून्मुहूर्तं स्तिमितं सर्वं तद्राजमण्डलम् ।
तूष्णींभूते ततस्तस्मिन्पटे चित्रमिवार्पितम् ॥ १३.२७२.४ ॥

刹那间,整个王众之会都静止了。他们沉默下来,静止不动,宛如画在布帛上的图画。

13.272.5

मुहूर्तमिव च ध्यात्वा व्यासःक सत्यवतीसुतः ।
नृपं शयानं गाङ्गेयमिदमाह वचस्त्वरन् ॥ १३.२७२.५ ॥

毗耶娑,即萨蒂耶瓦蒂之子,沉思片刻后,急忙对躺在那里的恒河之子说了这些话。

13.272.6

राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः ।
सहितो भ्रातृभिः सर्वैः पार्तिवैश्चानुयायिभिः ॥ १३.२७२.६ ॥

大王啊,俱卢王坚战恢复了常态,与所有兄弟、诸王及随从一同。

13.272.7

उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता ।
तमिमं पुरयानाय समनुज्ञातुमर्हसि ॥ १३.२७२.७ ॥

人中之虎啊,他与智慧的黑天一同侍奉您。您应当允许他返回城中。

13.272.8

एवमुक्तो भगवता व्यासेन पृथिवीपतिः ।
युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः ॥ १३.२७२.८ ॥

尊者毗耶娑如此说后,大地之主、河之子准许了与大臣们同在的坚战。

13.272.9

उवाच चैनं मधुरं नृपं शान्तनवो नृपः ।
प्रविशस्व पुरीं राजन्धर्मे च ध्रियतां मनः ॥ १३.२७२.९ ॥

沙恭陀之子那位国王温和地对他说:国王啊,进入城中吧,让你的心安住于法。

13.272.10

यजस्व विविधैर्यजैर्बह्वन्नैः स्वाप्तदक्षिणैः ।
ययातिरिव राजेन्द्र श्रकद्धादमपुरःसरः ॥ १३.२७२.१० ॥

诸王之主啊,如耶耶提那样举行种种祭祀,备足饮食,给予丰厚的布施,以信心和自制为先导。

13.272.11

क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय ।
श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः ॥ १३.२७२.११ ॥

普利塔之子啊,专心于刹帝利之法,使祖先与诸神欢喜。你将获得吉祥,你心中的焦灼也将消散。

13.272.12

रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय ।
सुहृदः फलसत्कारैरर्चयस्व यथार्हतः ॥ १३.२७२.१२ ॥

使一切臣民欢喜,妥善安抚国家的各个组成部分,并按照各人的应得,以赠礼和敬意尊重你的友人。

13.272.13

अनुं त्वां तात जीवन्तु मित्राणि सुहृकदस्तथा ।
चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः ॥ १३.२७२.१३ ॥

亲爱的,愿你的朋友与善意者都与你同在,如同立于圣所的结果之树,婆罗门们啊。

13.272.14

आगन्तव्यं च भवता समये मम पार्थिव ।
विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे ॥ १३.२७२.१४ ॥

国王啊,你必须在我指定的时间前来,待太阳回转、北行之路开始之时。

13.272.15

तथेत्युक्त्वा च कौन्तेयः सोभिवाद्य पितामहम् ।
प्रययौ सपरीवारो नगरं नागसाह्वयम् ॥ १३.२७२.१५ ॥

他说“就这样吧”,然后恭敬地向祖父行礼,与随从一起前往名为那伽萨婆耶的城市。

13.272.16

धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम् ।
सह तैर्ऋषिभिः सर्वैर्भ्रातृभिः केशवेन च ॥ १३.२७२.१६ ॥

让持国王走在前面,也带上忠于丈夫的甘陀利,与那些仙人、兄弟们以及克沙瓦(黑天)同行。

13.272.17

पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिव ।
प्रविवेश कुरुश्रेष्ठः पुरं वारणसाह्वयम् ॥ १३.२७२.१७ ॥

国王啊,与城中居民、乡间百姓以及年长的大臣们一起,库鲁中的至尊进入了名为瓦拉那萨婆耶的城市。