摩诃婆罗多 · 章 13.35
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.35.1
किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना ।
कथं वै लोकयात्रां तु किंशीलश्च समाचरेत् ॥ १३.३५.१ ॥
追求世间生活之福祉的人应当做什么?又应以怎样的品性,如何践行世间的生活?
13.35.2
देवे नारायणे भक्तिः शंकरे साधुपूजया ।
ध्यानेनाथ जपः कार्यः स्वधर्मैः शुचिचेतसा ॥ १३.३५.२ ॥
当对神那罗延怀有虔敬,并如法供养湿婆。然后应以禅定持诵,以清净之心履行自身的本分。
13.35.3
कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् ।
मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत् ॥ १३.३५.३ ॥
身有三种业,口有四种业,意有三种业;应当舍弃这十种业道。
13.35.4
प्राणातिपातः स्तैन्यं च परदाराभिमर्शनम् ।
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् ॥ १३.३५.४ ॥
杀害众生、偷盗、触犯他人之妻,这三者是身之三罪,应当全然远离。
13.35.5
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा ।
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ॥ १३.३५.५ ॥
妄言、粗恶语、离间语与妄语,这四者是口之四罪。大王啊,不应说出,也不应在心中思量。
13.35.6
अनभिध्या परस्वेषु सर्वसत्वेषु सौहृदम् ।
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥ १३.३५.६ ॥
不贪求他人之物,对一切众生怀有善心,并确信业必有果报——应当修持这三种心之德行。
13.35.7
तस्माद्वाक्वायमनसा नाचरेदशुभं नरः ।
शुभान्येवाचरँल्लोके भक्तो नारायणस्य हि।
तस्यैव तु पदं सूक्ष्मं प्रसादादश्नुयात्परम् ॥ १३.३५.७ ॥
因此人不应以言语、身体或意念行恶。在此世间只行善事的那乐那延纳的信徒,将凭其恩典获得他微妙的居所,即至上之境。