Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.52

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.52.1

न बिभेति कथं सा स्त्री शापाच्च परमद्युते ।
कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे ॥ १३.५२.१ ॥

哦,至高光辉者啊,那女子为何不畏惧诅咒?那位尊者又如何得以解脱?请你告诉我。

13.52.2

अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् ।
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया ॥ १३.५२.२ ॥

阿湿陀伐刹问她:“你如何改变你的形貌?你不可说谎;为了婆罗门的心愿,请说实话。”

13.52.3

द्यावापृथिव्योर्यत्रैषा काम्या ब्राह्मणसत्तम ।
शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम ॥ १३.५२.३ ॥

婆罗门中最优秀者啊,请专心听完这一切:这愿望存在于天地之间的何处,哦,真正勇猛的人!

13.52.4

जिज्ञासेयं प्रयुक्ता मे स्थैर्यं कर्तुं तवानघ ।
अव्युत्थानेन ते लोका जिताः सत्यपराक्रम ॥ १३.५२.४ ॥

无罪者啊,我提出此问,是为了考验你的坚定。哦,真正勇猛的人,你不动摇,因此征服了诸界。

13.52.5

उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते ।
स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः ॥ १३.५२.५ ॥

你应知我为北方之方向;你已看见女子的轻浮。欲望之热病,甚至折磨年老的女子。

13.52.6

अविश्वासो न व्यसनी नातिसक्तोऽप्रवासकः ।
विद्वान्सुशीलः पुरुषः सदारः सुखमश्नुते ॥ १३.५२.६ ॥

不多疑、不沉溺恶习、不过分执着、不远游,且博学、品行良好的人,与妻子一同享受幸福。

13.52.7

तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः ॥ १३.५२.७ ॥

今日,祖父与伐娑婆(因陀罗)及诸神皆对你感到满意。

13.52.8

सत्वं येन च कार्येण सम्प्राप्तो भगवानिह ।
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभः ॥ १३.५२.८ ॥

你来到此处所为之事,正是新娘的父亲通过那位婆罗门派遣你来的,二生者中的翘楚啊。

13.52.9

प्रेषितश्चोपदेशाय तच्च सर्वं श्रुतं त्वया ॥ १३.५२.९ ॥

你被派来接受教导,而这一切你都已经听过了。

13.52.10

नितान्तं स्त्री भोगपरा प्रियवादाप्रवासनात् ।
रक्ष्यते चाकुचेलाद्यैरप्रसङ्गानुवर्तनैः ॥ १३.५२.१० ॥

一心沉溺享乐的女子,因言语温和、不远行他乡、衣着不邋遢、不随从不当之交往而得到极好的守护。

13.52.11

अपर्वस्वनिषिद्धासु रात्रिष्वप्यनृतौ व्रजेत् ।
रात्रौ च नातिनियमो न वै ह्यनियमो भवेत्॥ ॥ १३.५२.११ ॥

在非节日且不被禁止的夜晚,即使不在受孕之期,也可以亲近;夜间不应过分拘束,也不应完全没有约束。

13.52.12

क्षेमैर्गमिष्यसि गृहं श्रमश्च न भविष्यति ।
कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति ॥ १३.५२.१२ ॥

你将平安回家,也不会疲倦。婆罗门啊,你将得到那位少女,而她也会成为有子之母。

13.52.13

काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम् ।
अनतिक्रमणीया साकृत्स्नैर्लोकैस्त्रिभिः सदा ॥ १३.५२.१३ ॥

你出于欲望问我,于是说出了回答;它在三界中永远不可违背。

13.52.14

गच्छस्व कृतकृत्यस्त्वं किं वाऽन्यच्छ्रोतुमिच्छसि ।
यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् ॥ १३.५२.१४ ॥

去吧,你的目的已经达到。或者你还想听别的什么吗?凡我所言,都照实而说,哦,婆罗门中的仙人阿湿陀跋克拉。

13.52.15

ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ ।
तस्य सम्माननार्थं मे त्वयि वाक्यं प्रभाषितम् ॥ १३.५२.१५ ॥

我为仙人所喜,因你而在此,哦,婆罗门中的雄牛;为了尊敬他,我对你说出了这些话。

13.52.16

श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः ।
अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत् ॥ १३.५२.१६ ॥

那婆罗门听了她的话,合掌站立;得到她的允许后,他又回到自己的家中。

13.52.17

गृहमागत्य विश्रान्तः स्वजनं परिपृच्छ्य च ।
अभ्यागच्छच्च तं विप्रं न्यायतः कुरुनन्दन ॥ १३.५२.१७ ॥

回到家中,休息并问候了亲人之后,哦,俱卢族的喜悦者,他依礼又去见那位婆罗门。

13.52.18

पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम् ।
प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना ॥ १३.५२.१८ ॥

那婆罗门问他,那位见过此例的婆罗门,便怀着极为喜悦的心对他说。

13.52.19

भवताऽहमनुज्ञातः प्रास्थितो गन्धमादनम् ।
तस्य चोत्तरतो देशे दृष्टं मे दैवतं महत् ॥ १३.५२.१९ ॥

蒙您允许,我启程前往乾陀摩陀那山。在它北面的地区,我看见了一位伟大的神祇。

13.52.20

तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः ।
श्रावितश्चापि तद्वाक्यं गृहं चाभ्यागतः प्रभो ॥ १३.५२.२० ॥

她允许了我,也赞美了您。我将她的话转告他人,主啊,我便回到了家中。

13.52.21

तमुवाच तदा विप्रः सुतां प्रतिगृहाण मे ।
नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् ॥ १३.५२.२१ ॥

那时婆罗门对他说:「请接受我的女儿。在星宿与月日相合之时,您确实是最适合的人选。」

13.52.22

अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो ।
कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा ॥ १३.५२.२२ ॥

他说「就这样吧」,便接受了那位少女;主啊,那位具有至高法德之心的人当时便欢喜起来。

13.52.23

कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् ।
उवास मुदितस्तत्र श्वाश्रमे विगतज्वरः ॥ १३.५२.२३ ॥

他将那少女接纳为妻,与那位极其美丽的妻子在自己的修行林中居住,欢喜而无忧。