Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.85

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.85.1

दर्शने कीदृशः स्नेहः संवासे च पितामह ।
महाभाग्यं गवां चैव तन्मे व्याख्यातुमर्हसि ॥ १३.८५.१ ॥

祖父啊,相见与共处之中会生出怎样的情谊?牛的大福分又是什么?请为我解说。

13.85.2

हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते ।
नहुषस्य च संवादं महर्षेश्च्यवनस्य च ॥ १३.८५.२ ॥

啊,光辉的人,我将给你讲一个古老的故事:那诃沙与大仙者遮逾那之间的对话。

13.85.3

पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ ।
उदवासकृतारम्भो बभूव स महाव्रतः ॥ १३.८५.३ ॥

往昔,婆罗多族的雄牛啊,婆利古之后裔大仙遮逾那开始了水中居住的誓愿,成为大誓者。

13.85.4

निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च ।
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः ॥ १३.८५.४ ॥

灭除傲慢、愤怒、喜悦与悲伤之后,那位大仙持守水中居住之誓,度过十二年。

13.85.5

आदधत्सर्वभूतेषु विस्रम्यं परमं शुभम् ।
जलेचरेषु सर्वेषु शीतरश्मिरिव प्रभुः ॥ १३.८५.५ ॥

他在一切众生之中,在水中游动的一切生灵之中,如同清辉之月般为主,树立了至善的信任。

13.85.6

स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च ।
गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह ॥ १३.८५.६ ॥

他身如木桩般静止,又使自己清净,向诸神行礼之后,走入恒河与阎牟那河之间的水中。

13.85.7

गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम् ।
प्रतिजग्राह शिरसा वातवेगसमं जवे ॥ १३.८५.७ ॥

他将恒河与亚穆纳河那极其可怖的激流与吓人的轰鸣顶在头上,那冲力与风速相当。

13.85.8

गङ्गा च यमुना चैव सरितश्च सरांसि च ।
प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् ॥ १३.८५.८ ॥

恒河、亚穆纳河以及其他河流与湖泊环绕着那位仙人行右绕礼,并未伤害他。

13.85.9

अन्तर्जलेषु सुष्वाप काष्ठभूतो महामुनिः ।
ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ ॥ १३.८५.९ ॥

那位大仙人在水中沉睡,如木头般一动不动;然后,婆罗多族的雄牛啊,这位智者便升起站立于水面之上。

13.85.10

जलौकसां ससत्वानां बभूव प्रियदर्शनः ।
उपाजिघ्नन्त च तदा मत्स्यास्तं हृष्टमानसाः।
तत्र तस्यासतः कालः समतीतोऽभवन्महान् ॥ १३.८५.१० ॥

他对水中生物和一切众生都显得可爱可亲;那时,心怀喜悦的鱼儿便向他靠近。他在那里居住,漫长的时光流逝而去。

13.85.11

ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः ।
तं देशं समुपाजग्मुर्जालहस्ता महाद्युते ॥ १३.८५.११ ॥

之后,在某个适当的时候,渔人们来到了那个地方,光辉的人啊,他们手中拿着渔网。

13.85.12

निषादा बहवस्तत्र मत्स्योद्धरणनिश्चयाः ।
व्यायता बलिनः शूराः सलिलेष्वनुवर्तिनः।
अभ्याययुश्च तं देशं निश्चिता जालकर्म्णि ॥ १३.८५.१२ ॥

许多决心捕鱼的尼沙陀人来到那里——身材魁梧、强壮勇猛、善于水中行动,且专注于撒网之事;他们靠近了那个地方。

13.85.13

जालं ते योजयामासुर्नवसूत्रकृतं दृढम् ।
मत्स्योद्धरणमाकर्षस्तदा भरतसत्तम ॥ १३.८५.१३ ॥

他们系好一张由九股线编成的坚固渔网;然后,婆罗多中的最优秀者啊,他们拉动渔网以捞起鱼。

13.85.14

ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः ।
गङ्गायमुनयोर्वारि जालेनावकिरन्ति ते ॥ १३.८५.१४ ॥

于是那些渴望捕鱼的渔人,用多种方法以渔网搅动恒河与阎牟那河的水。

13.85.15

जालं सुविततं तेषां नवसूत्रकृतं तथा ।
विस्तारायामसम्पन्नं यत्तत्र सलिले क्षमम् ॥ १३.८५.१५ ॥

他们那张由九股线织成的渔网铺得很开;宽长俱全,适合那里的水域。

13.85.16

ततस्ते सुमहच्चैव बलवच्च सुवर्तितम् ।
अवतीर्य ततः सर्वे जालं चकृषिरे तदा ॥ १३.८५.१६ ॥

于是他们拿起那张极大、坚固且运用得当的渔网;随后众人下到水中,拉动了渔网。

13.85.17

अभीतरूपाः संहृष्टा अन्योन्यवशवर्तिनः ।
बबन्धुस्तत्र मत्स्यांश्च तथाऽन्याञ्जलचारिणः ॥ १३.८५.१७ ॥

他们神色无惧、欢喜异常,彼此听从,在那里捆住了鱼,也捆住了水中行走的其他生物。

13.85.18

तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् ।
आकर्षयन्महाराज जालेनाथ यदृच्छया ॥ १३.८५.१८ ॥

就这样,大王啊,他们偶然用渔网拉起了被鱼群环绕的婆利古之子车耶那。

13.85.19

नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् ।
लग्नैः शङ्खनखैर्गात्रे क्रोडैश्चित्रैरिवार्पितम्। ॥ १३.८५.१९ ॥

身上沾满河中水藻,留着黄褐色胡须,头戴纠结的发髻;贝壳与斑斓的螺蛳仿佛附着在他的身体上。

13.85.20

तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् ।
सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि ॥ १३.८५.२० ॥

众渔夫见精通吠陀的仙人被网提起,皆合掌,以头叩地而倒下。

13.85.21

परिखेदपरित्रासाज्जालस्याकर्षणेन च ।
मत्स्या बभूवुर्व्यापन्नाः स्थलसंस्पर्शनेन च ॥ १३.८५.२१ ॥

因被网拖曳而疲惫惊恐,又触及干燥的陆地,鱼儿都死去了。

13.85.22

स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम् ।
बभूव कृपयाविष्टो निःश्वसंश्च पुनःपनः ॥ १३.८५.२२ ॥

见鱼群遭此屠戮,仙人满怀悲悯,一次又一次地叹息。

13.85.23

अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु ।
करवाम प्रिय किं ते तन्नो ब्रूहि महामुने ॥ १३.८५.२३ ॥

我们因无知所犯之罪,求您施恩于我们。大仙,请告诉我们,何事能令您欢喜。

13.85.24

इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत् ।
यो मेऽद्य परमः कामस्तं शृणुध्वं मसाहिताः ॥ १३.८५.२४ ॥

被如此问讯,身处鱼群之中的车耶那说道:“与我同在的你们,请听我此刻最大的心愿。”

13.85.25

प्राणोत्सर्गं विसर्गं वा मत्स्यैर्यास्याम्यहं सह ।
संवासान्नोत्सहे त्यक्तुं सलिलेऽध्युपितानहम् ॥ १३.८५.२५ ॥

我宁愿与鱼同死,或者离开它们;但因长久与它们共居于水中,我不忍心抛弃它们。

13.85.26

इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः ।
सर्वे विवर्णवदना नहुषाय न्यवेदयन् ॥ १३.८५.२६ ॥

众渔夫听了这话,因极度恐惧而颤抖,个个面色苍白,便将此事禀告了那诃沙。