Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.111

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.111.1

स्वभक्तस्य हृषीकेश धर्माधर्ममजानतः ।
धर्मं पुण्यतमं देव पृच्छतः कथयस्व मे ॥ १४.१११.१ ॥

主宰感官者啊,您的信徒我不知法与非法,天神啊,我请问最有功德的法,请告诉我。

14.111.2

यदेतदग्निहोत्रं वै सृष्टं वर्णत्रयस्य तु ।
मन्त्रवद्यद्धुतं सम्यग्विधिना चाप्युपासितम्।
आहिताग्निं नयत्यूर्ध्वं सपत्नीकं सबान्धवम् ॥ १४.१११.२ ॥

此火供为三种种姓所设,若以咒语依仪轨正确献供并恭敬修习,便能将立圣火者连同妻子和亲族引向上界。

14.111.3

कथं तद्ब्राह्मणैर्देव होतव्यं क्षत्रियैः कथम् ।
वैश्यैर्वा देवदेवेश कथं वा सुहुतं भवेत् ॥ १४.१११.३ ॥

天神啊,婆罗门应当如何供献,刹帝利如何,吠舍如何?天神之主啊,或者它如何才算恰当地献供?

14.111.4

कस्मिन्काले कतं कस्य आधेयोऽग्निः सुरोत्तम ।
आहितस्य कथं वाऽपि सम्यगाचरणं भवेत् ॥ १४.१११.४ ॥

应在何时、由何人设立圣火?天神中最尊贵者啊,已立圣火者的行持应当如何才算恰当?

14.111.5

कत्यग्नयः किमात्मानः स्थानं किं कस्य वा विभो ।
कतरस्मिन्हुते स्थाने कं व्रजेदाग्निहोत्रिकः ॥ १४.१११.५ ॥

火有几种?其自性如何?处所为何,或属于谁,万能者啊?在哪个处所献供之后,行阿耆尼火供者会前往哪个世界?

14.111.6

अग्निहोत्रनिमित्तं च किमुत्पन्नं पुराऽनघ ।
कथमेवाथ हूयन्ते प्रीयन्ते च सुराः कथम् ॥ १४.१११.६ ॥

阿耆尼火供的因由是什么?它往昔从何而生,无垢者啊?它如何献供,诸天神又如何欢喜?

14.111.7

विधिवन्मन्त्रवत्कृत्वा पूजितास्त्वग्नयः कथम् ।
कां गतिं वदतांश्रेष्ठ नयन्ति ह्यग्निहोत्रिणः ॥ १४.१११.७ ॥

按照规范并以咒语供奉的火,如何引向何种归宿?言者中最优者啊,行阿耆尼霍特拉者达到何种归宿?

14.111.8

दुर्हुताश्चापि भगवन्नविज्ञातास्त्रयोऽग्नयः ।
किमाहिताग्नेः कुर्वन्ति दुश्चीर्णा वाऽपि केशव ॥ १४.१११.८ ॥

世尊,错误供奉与未被认知的三火,对设立圣火者会做什么?或者,错误施行的行为会做什么,哦,克舍婆?

14.111.9

उत्सन्नाग्निस्तु पापात्मा कां योनिं देव गच्छति ।
एतत्सर्वं समासेन भक्त्या ह्युपगतस्य मे।
वक्तुमर्हसि सर्वज्ञ सर्वाधिकं नमोस्तु ते ॥ १४.१११.९ ॥

火已熄灭的罪人会进入何种胎藏?天神啊,我怀着虔诚前来,你应当简要地把这一切告诉我。全知者啊,至高于一切者,向你致敬。

14.111.10

शृणु राजन्महापुण्यमिदं धर्मामृतं परम् ।
यत्तु तारयते युक्तान्ब्राह्मणानग्निहोत्रिणः ॥ १४.१११.१० ॥

君王啊,请听这极具功德的至上法甘露,它能度脱修持行阿耆尼霍特拉的虔诚婆罗门。

14.111.11

ब्र्हमित्वेनासृजं लोकानहमादौ महाद्युते ।
सृष्टोऽग्निर्मुखतः पूर्वं लोकानां हितकाम्यया ॥ १४.१११.११ ॥

大光明者啊,起初我以梵天之形创造了诸世界。出于利益众生的愿望,先从口中生出了火。

14.111.12

यस्मादग्रे स भूतानां सर्वेषां निर्मितो मया ।
तस्मादग्नीत्यभिहितः पुराणज्ञैर्मनीषिभिः ॥ १४.१११.१२ ॥

因我先为一切众生创造了他,所以通晓往世书的贤者称他为「阿耆尼」(火)。

14.111.13

यस्मात्तु सर्वकृत्येषु पूर्वमस्मै प्रदीयते ।
आहुतिर्दीप्यमानाय तस्मादग्नीति कथ्यते ॥ १४.१११.१३ ॥

因为在一切祭祀仪式中,首先向他——这光耀者——献上供物,因此他被称为阿耆尼(火)。

14.111.14

यस्माच्च तु नयत्यग्रां गतिं विप्रान्सुपूजितः ।
यस्माच्च नयनाद्राजन्देवेष्वग्नीति कथ्यते ॥ १४.१११.१४ ॥

他受到良好的供奉,引导婆罗门走向至高之道;大王啊,因为他引导,所以在诸神中他被称为阿耆尼。

14.111.15

तस्माच्च दुर्हुतः सोयमलं भक्षयितुं क्षणात् ।
यजमानं नरश्रेष्ठ क्रव्यादोऽग्निस्ततः स्मृतः ॥ १४.१११.१५ ॥

因此,人中最好的人啊,若献祭不当,他在一瞬间便能吞噬施祭者;所以阿耆尼也被称为食肉者(克拉夫雅德)。

14.111.16

सर्वभूतात्मको राजन्देवानामेष वै मुखम् ।
प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः ॥ १४.१११.१६ ॥

大王啊,这位是一切众生之我,实为诸神之口;这位主宰,最先从我口中所生,为世界的利益而做烹煮者。

14.111.17

सृष्टमात्रो जगत्सर्वमत्तुमैच्छत्पुरा खलु ।
ततः प्रशमितः सोग्निरूपास्यैव मया पुरा ॥ १४.१११.१७ ॥

他一被创造出来,便想吞噬整个世界;于是那阿耆尼被平息了,因为先前已被我礼敬。

14.111.18

सततोपासनात्सोयमौपासन इति स्मृतः ॥ १४.१११.१८ ॥

因为持续的供奉,此神被称为奥波萨那(供奉之火)。

14.111.19

आहुतिः सर्वमाख्याति तस्मिन्वसति सोनलः ।
आवसथ्य इति ख्यातस्तेनासौ ब्रह्मवादिभिः ॥ १४.१११.१९ ॥

祭供揭示一切;那火就居于其中。因此梵论者称其为阿婆萨特亚(Āvasathya)。

14.111.20

तस्मात्पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः ।
सोममण्डलमध्येन गतिस्तस्य द्विजन्मनः ॥ १४.१११.२० ॥

因此,对于依法行五大祭祀的再生者,其道路穿过月轮的中央。

14.111.21

ते च सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः ।
गता ह्यमरसायुज्यं ते ह्यग्न्यर्चनतत्पराः ॥ १४.१११.२१ ॥

那七位仙人,已成就、诸根与心智皆已调伏,专心礼拜火,确已得与不死者合一。

14.111.22

अपरे चावसथ्यं च पचनाग्निं प्रचक्षते ।
तस्मिन्पञ्च महायज्ञा वैश्वदेवश्च वर्तते ॥ १४.१११.२२ ॥

另有人称家火与炊火;在其中举行五大祭祀及吠舍婆提婆(Vaiśvadeva)之祭。

14.111.23

स्थलीपाकं च गार्हं च सर्वे चास्मिन्प्रतिष्ठिताः ।
गृह्यकर्मवहो यस्मात्तस्माद्गृहपतिस्तु सः ॥ १४.१११.२३ ॥

锅中烹煮与家庭祭仪皆立足于此;因其承载家庭之业,故称为家主(gṛhapati)。

14.111.24

औपासनं चावसथ्यं सभ्यं पचनपावकम् ।
आहुर्ब्रह्मविदः केचिन्मतमेतन्ममापि च ॥ १४.१११.२४ ॥

有些梵论者称供奉火、家火、会堂火与炊火;这也是我的看法。

14.111.25

अग्निहोत्रप्रकारं च शृणु राजन्समाहितः ।
त्रयाणां गुणनामानां वह्नीनामुच्यते मया ॥ १४.१११.२५ ॥

大王,请专心听阿耆尼厚special仪式的方法。我将讲述以其性质命名的三火。

14.111.26

गृहाणां हि पतित्वं हि गृहपत्यमिति स्मृतम् ।
गृहपत्यं तु यस्यासीत्तत्तस्माद्गार्हपत्यता ॥ १४.१११.२६ ॥

家的主宰被称为家主,即 gṛhapatya。因家主所持之火属于他,故称为 gārhapatya。

14.111.27

यजमानं तु यस्मात्तु दक्षिणां तु गतिं नयेत् ।
दक्षिणाग्निं तमाहुस्ते दक्षिणायतनं द्विजाः ॥ १४.१११.२७ ॥

因为它引导施祭者趋向南方,人们称之为南火;再生者称其为南方之位。

14.111.28

आहुतिः सर्वमाख्याति हव्यं वै वहनं स्मृतम् ।
सर्वहव्यवहो वह्निर्गतश्चाहवनीयताम् ॥ १४.१११.२८ ॥

供品显示一切;承载供物被称为 vahana。承载一切供物的火达到了 āhavanīya 的境地。

14.111.29

यं चाक्सथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः ।
आवसथ्यं तु तं चाग्निं पचनाग्निं प्रचक्षते ॥ १४.१११.२९ ॥

再生者依规定将 āvasathya 供品投入根火之中——此火称为烹煮火 pacana-agni。

14.111.30

तेषां स भागतो वह्निः सभ्य इत्यभिधीयते ।
आवतथ्यस्तु यो वह्निः प्रथमः स प्रजापतिः ॥ १४.१११.३० ॥

作为它们之分的火称为 sabhya,即集会之火。名为 āvatathya 的火是第一火;那便是生主 Prajāpati。

14.111.31

ब्रह्मा च गार्हपत्योऽग्निस्तस्मिन्नेव हि सोभवत् ।
दक्षिणाग्निस्त्वयं रुद्रः क्रोधात्मा चण्ड एव सः ॥ १४.१११.३१ ॥

梵天是家主火,他也在其中而生。此南火即是楼陀罗,其本性是愤怒,他是猛烈的。

14.111.32

अहमाहवनीयोऽग्निराहोमाद्यस्य वै मुखे ।
सभ्योऽग्निः पञ्चमो यस्तु स्कन्द एव नराधिप ॥ १४.१११.३२ ॥

我是祭供火,居于开始献祭者的口中。第五个,即会众火,正是斯坎达,哦,人主。

14.111.33

पृथिवी गार्हपत्योऽग्निरन्तरिक्षं च दक्षिणः ।
स्वर्गमाहवनीयोऽग्निरेवमग्नित्रयं स्मृतम् ॥ १४.१११.३३ ॥

大地是家主火,虚空是南火,天界是祭供火;如此,三火被记述。

14.111.34

वृत्तश्च गार्हपत्योऽग्निर्यस्माद्वृत्ता च मेदिनी ।
अर्धचन्द्राकृतिस्तं वै दक्षिणाग्निस्तथा भवेत् ॥ १४.१११.३४ ॥

家主火是圆形的,因为大地是圆的;南火也应当是半月形。

14.111.35

चतुरश्रं ततः स्वर्गं निर्मलं तु निरामयम् ।
तस्मादाहवनीयोऽग्निश्चतुरश्रो भवेन्नृप ॥ १४.१११.३५ ॥

天界是四方形的,纯净无病;因此,哦,国王,祭供火应当是四方形的。

14.111.36

जुहुयाद्गार्हपत्यं यो भुवं जयति स द्विजः ।
जुहोति दक्षिणं यस्तु स जयत्यन्तरिक्षकम् ॥ १४.१११.३६ ॥

在家主火中献祭的再生者征服大地;在南火中献祭者征服虚空。

14.111.37

पृथिवीमन्तरिक्षं च दिवं ऋषिगणैः सह ।
जयत्याहवनीयं यो जुहुयाद्भक्तिमान्नरः ॥ १४.१११.३७ ॥

虔诚之人向阿呼婆尼耶火献祭,便与诸仙众一同获得大地、虚空与天界。

14.111.38

आभिमुख्येन होमस्तु यस्य यज्ञेषु वर्तते ।
तेनाप्याहवनीयत्वं गतो वह्निर्महाद्युतिः ॥ १४.१११.३८ ॥

祭祀之火正对所祭之神而供奉,故这位大光明之火也获得了阿呼婆尼耶之位。

14.111.39

आहोमादग्निहोत्रेषु यज्ञैर्वा यत्र सर्वशः ।
यस्मात्तस्मात्प्रवर्तन्ते ततो ह्याहवनीयता ॥ १४.१११.३९ ॥

在阿格尼霍特拉祭及诸祭祀中,一切行为皆由献祭而始,因此而生阿呼婆尼耶之德。

14.111.40

यस्त्वावसथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः ।
स तु सप्तर्षिलोकेषु सपत्नीकः प्रमोदते ॥ १४.१११.४० ॥

二生者依法向阿婆萨特亚火与本源之火献祭,便与其妻在七仙之界中喜乐。

14.111.41

इष्टो भवति सर्वाग्नेरग्निहोत्रं च तद्भवेत् ।
त्राणाद्वै यजमानस्य ह्यग्निहोत्रमिति स्मृतम् ॥ १४.१११.४१ ॥

此为诸火所喜,此即阿格尼霍特拉;因其护佑祭主,故称阿格尼霍特拉。

14.111.42

होइज्येषु विषादो वै विषादो दुःखमुच्यते ।
दुःखं तापत्रयं प्रोक्तं तापं हि नरकं विदुः ॥ १४.१११.४२ ॥

在供献之礼中,所谓忧戚即是忧戚;忧戚称为苦;苦被说为三种热恼;而热恼,人们知其即是地狱。

14.111.43

आध्यात्मिकं चाधिदैवमाधिभौतिकमेव च ।
एतत्तापत्रयं प्रोक्तमात्मविद्भिर्नराधिप ॥ १४.१११.४३ ॥

内在、天界与外界——这三种苦恼已由知自我者宣说,人主啊。

14.111.44

यस्माद्वै त्रायते दुःखाद्यजमानं हुतोऽनलः ।
तस्मात्तु विधिवत्प्रोक्तमग्निहोत्रमिति श्रुतौ ॥ १४.१११.४४ ॥

因为被献入的火能救护施祭者脱离苦恼,所以在吠陀中依规则称之为阿耆尼词罗。

14.111.45

तदग्निहोत्रं सृष्टं वै ब्रह्मणा लोककर्तृणा ।
वेदाश्चाप्यग्निहोत्रं तु जज्ञिरे स्वयमेव तु ॥ १४.१११.४५ ॥

那阿耆尼词罗由世界的创造者梵天所造;吠陀本身也自然从阿耆尼词罗而生。

14.111.46

अग्निहोत्रफला दारा दत्तभुक्तफलं धनम् ।
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ १४.१११.४६ ॥

以阿耆尼词罗为果报的妻子;以布施与享用为果报的财富。以欢爱与子嗣为果报的妻子;以布施与享用为果报的财富。

14.111.47

त्रिवेदमन्त्रसंयोगादग्निहोत्रं प्रवर्तते ।
ऋग्यजुःसामभिः पुण्यैः स्थाप्यते सूत्रसंयुतैः ॥ १४.१११.४७ ॥

借三吠陀咒语的结合,阿耆尼词罗得以运行;以《梨俱》《夜柔》《娑摩》的圣句,并结合祭线,它得以确立。

14.111.48

वसन्ते ब्राह्मणस्य स्यादाधेयोऽग्निर्नराधिप ।
वसन्तो ब्राह्मणो ज्ञेयो वेदयोनिः स उच्यते ॥ १४.१११.४८ ॥

人主啊,对于婆罗门,应在春季设立所应安置之火。应知春季即是婆罗门,他被称为吠陀之胎藏。

14.111.49

अग्न्याधेयं तु येनाथ वसन्ते क्रियतेऽनघ ।
तस्य श्रीर्बह्मवृद्धिश्च ब्राह्मणस्य विवर्धते ॥ १४.१११.४९ ॥

无罪者啊!春季所行的圣火安立之礼,使婆罗门的吉祥与梵学增长。

14.111.50

क्षत्रियस्याग्निराधेयो ग्रीष्मे श्रेष्ठः स वै नृप ।
येनाधानं तु वै ग्रीष्मे क्रियते तस्य वर्धते।
श्रीः प्रजाःक पशवश्चैव वित्तं तेजो बलं यशः ॥ १४.१११.५० ॥

大王啊,对刹帝利而言,夏季安立圣火最为殊胜;凡夏季所行的安立之礼,他的吉祥、民众、牲畜、财富、威光、力量与名声都会增长。

14.111.51

शरदृतौ तु वैश्यस्य ह्याधानीयो हुताशनः ।
शरद्रात्रं स्वयं वैश्यो वैश्ययोनिः स उच्यते ॥ १४.१११.५१ ॥

秋季之时,应安立的祭火属于吠舍;秋夜之中,吠舍自身被称为吠舍之源。

14.111.52

शरद्याधानमेवं वै क्रियते येन पाण्डव ।
तस्यापि श्रीः प्रजाऽऽयुश्च पशवोऽर्थश्च वर्धते ॥ १४.१११.५२ ॥

般度之子啊,凡秋季如此所行的安立之礼,他的吉祥、子嗣、寿命、牲畜与财富也都会增长。

14.111.53

पशवः सर्व एवैते त्रिभिः सर्वैरलङ्कृताः ।
अग्निहोत्रा ह्यवर्तन्ते तैरेव ध्रियते जगत् ॥ १४.१११.५३ ॥

所有这些牲畜都由三者完全庄严;阿格尼霍特拉之祭确实循环运转,世界正是依靠它们而得以维持。

14.111.54

ग्राम्यारण्याश्च पशवो पृक्षाश्चैव तृणानि च ।
फलान्योषधयश्चापि अग्निहोत्रकृते हविः ॥ १४.१११.५४ ॥

家养与野生的牲畜,熊类,草木、果实与药草——这些都是阿格尼霍特拉之祭的供品。

14.111.55

रसाः स्नेहास्तथा गन्धा रत्नानि मणयस्तथा ।
काञ्चनानि च लोहानि ह्यग्निहोत्रकृतेऽभवन् ॥ १४.१११.५५ ॥

诸味、油脂、香气、宝石、珠玉,以及金与铁,都是为了阿耆尼祠火而生。

14.111.56

आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः ।
धर्मशास्त्रं च तत्सर्वमग्निहोत्रकृते कृतम् ॥ १४.१११.५६ ॥

医术、射术、弥曼差、正理之广论及法典,这一切都是为了阿耆尼祠火而作。

14.111.57

छन्दः शिक्षा च कल्पश्च तथा व्याकरणानि च ।
शास्त्रं ज्योतिर्निरुक्तं चाप्यग्निहोत्रकृते कृतम् ॥ १४.१११.५७ ॥

韵律、音韵、仪轨书、语法、论典、天文与词源,也都是为了阿耆尼祠火而作。

14.111.58

इतिहासपुराणं च गाथाश्चोपनिषत्तथा ।
आथर्वणानि कर्माणि चाग्निहोत्रकृते कृतम् ॥ १४.१११.५८ ॥

史传与往世书、诗偈、奥义书以及阿闼婆之仪式,也都是为了阿耆尼祠火而行。

14.111.59

यच्चैतस्यां पृथिव्यां वै किंचिदस्ति चराचरम् ।
तत्सर्वमग्निहोत्रस्य कृते सृष्टं स्वयंभुवा ॥ १४.१११.५९ ॥

凡此大地之上一切动与不动之物,都是自生之神为阿耆尼祠火而创造的。

14.111.60

अग्निहोत्रस्य दर्शस्य पूर्णमासस्य चाप्यथ ।
युपेष्टिपशुबन्धानां सोमपानक्रियावताम् ॥ १४.१११.६० ॥

以及阿耆尼祠火、达尔沙祭、满月祭、祭柱、献祭、牲祭,以及行饮苏摩之仪者。

14.111.61

तिथिनक्षत्रयोगानां मुहूर्तकरणात्मकम् ।
कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं पुराऽनघ ॥ १४.१११.६१ ॥

昔日有以月日、星宿、合、时刻与历法之计算构成的天文知识,用以知晓时间,哦无罪者。

14.111.62

ऋग्यजुः साममन्त्राणां श्लोकतत्वार्थचिन्तनात् ।
प्रत्यापत्तिविकल्पानां छन्दोज्ञानं प्रल्पितम् ॥ १४.१११.६२ ॥

通过思考《梨俱》《夜柔》《娑摩》诸咒的诗句之义与要旨,并考虑重复与变化之法,遂立韵律之学。

14.111.63

वर्णाक्षरपदार्थानां सन्धिलिङ्गं प्रकीर्तितम् ।
नामधातुविवेकार्थं पुरा व्याकरणं स्मृतम् ॥ १४.१११.६३ ॥

字母、音节、词与义的连声与性别已被阐明;为辨别名词与词根,昔日传承了语法。

14.111.64

यूपवेद्यध्वरार्थं तु प्रोक्षणश्रवणाय तु ।
यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम् ॥ १४.१११.६४ ॥

为祭柱、祭坛与祭礼,为听闻洒净之音,为使祭祀与其神相应,遂立音韵之学(śikṣā)。

14.111.65

यज्ञपात्रपवित्रार्थं द्रव्यसंभारणाय च ।
सर्वयज्ञविकल्पाय पुराकल्पं प्रकल्पितम् ॥ १४.१११.६५ ॥

为祭器之洁净、物料之备办及一切祭祀之变通,遂立古老的仪轨书(kalpa)。

14.111.66

नामधातुविकल्पानां तत्वार्थनियमाय च ।
सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम् ॥ १४.१११.६६ ॥

为辨明名词与词根变化之义理,并为诸吠陀之词源,诸仙人作《语源论》(Nirukta)。

14.111.67

वेद्यर्थं पृथिवी सृष्टा संभारार्थ तथैव च ।
इध्मार्थमथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम् ॥ १४.१११.६७ ॥

大地为祭坛而造,亦为祭物而造;为燃火之薪与祭柱,梵天造了草木。

14.111.68

ग्राम्यारण्याश्च पशवो जायन्ते यज्ञकारणात् ।
मन्त्राणां विनियोगं च प्रोक्षितं श्रपणं तथा ॥ १४.१११.६८ ॥

家畜与野兽因祭祀而生;诵咒之用、洒水与烹煮亦然。

14.111.69

अनुयाजप्रयाजाश्च मरुतां शंसिनस्तथा ।
औद्गात्रं चैव साम्नां वै प्रतिप्रस्थानमेव च ॥ १४.१११.६९ ॥

后随祭与前行祭,末陀的赞诵,歌咏的鸣唱之职,以及前位之事。

14.111.70

विष्णुक्रमाणां क्रमणं दक्षिणावभृथं तथा ।
त्रिकासमर्चनं चैव स्यानेषूपहृतं तथा ॥ १४.१११.७० ॥

毗湿奴三步之行、布施与沐浴礼、三火之供奉,以及于各处所献之祭品。

14.111.71

देवताग्रहणं मोक्षं हविषां श्रपणं तथा ।
नावबुद्ध्यन्ति ये विप्रा निन्दन्ति च पशोर्वधम्।
ते यान्ति नरकं घोरं रौरवं तमसाऽऽवृतम् ॥ १४.१११.७१ ॥

那些不明白诸神之分的取受、供物的释放与烹煮,并谴责杀牲的婆罗门,会堕入被黑暗笼罩的可怖的罗罗婆地狱。

14.111.72

शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः ।
कृमिर्भिर्भक्ष्यमाणाश्च तिष्ठेयुः पूयशोणिते ॥ १४.१११.७२ ॥

在那里停留数十万年之后,这些最卑劣的人被蛆虫啃食,将躺在脓血之中。

14.111.73

वृक्षा यूपत्वमिच्छन्ति पशुत्वं पशवस्तथा ।
तृणानीच्छन्ति बर्हिष्ट्वमोषध्यश्च हविष्यताम्।
सोमत्वं च लताः सर्वा वेदित्वं च वसुंधर ॥ १४.१११.७३ ॥

树木希望成为祭柱,牲畜也同样希望成为祭牲。草希望成为神圣的吉祥草,药草希望成为供品。一切藤蔓希望成为苏摩,大地希望成为祭坛。

14.111.74

यस्मात्पशुत्वमिच्छन्ति पशवः स्वर्गलिप्सया ।
तस्मात्पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव ॥ १४.१११.७४ ॥

因为牲畜为求天界而愿意成为祭牲,所以在祭祀中杀牲并非暴力,啊,般度之子。

14.111.75

यूपास्तन्मन्त्रसंस्कारैर्दर्भाश्च पशवस्तथा ।
यजमानेन सहिताः स्वर्गं यान्ति नरेश्वर ॥ १४.१११.७५ ॥

祭柱经由那些咒语的加持,吉祥草与牲畜也同样与祭主一同升往天界,啊,人主。

14.111.76

यावत्कालं हि यज्वा वै स्वर्गलोके महीयते ।
तावत्कालं प्रमोदन्ते पशवो ह्यध्वरे हताः ॥ १४.१११.७६ ॥

祭主在天界受尊崇多久,祭祀中被杀的牲畜便欢喜多久。

14.111.77

अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत्कृतम् ।
वेदोक्तं ये न कुर्वन्ति हिंसाबुद्ध्या क्रतून्द्विजाः।
सद्यः शूद्रत्वामायान्ति प्रेत्य चण्डालतामपि ॥ १४.१११.७७ ॥

不杀生是吠陀的仪轨,称为梵行,由此而行。那些以暴力之心不行吠陀所规定之祭祀的再生族,立即堕为首陀罗,死后甚至堕为旃陀罗。

14.111.78

गावो यज्ञार्थमुत्पन्ना दक्षिणार्थं तथैव च ।
सुवर्णं रजतं चैव पात्रक्रुभार्थमेव च ॥ १४.१११.७८ ॥

牛是为祭祀而生,为祭司的酬金也是如此;金与银也是,还有为制作器皿而用。

14.111.79

दर्भाः संस्तरणार्तं तु रक्षसां रक्षणाय च ।
पजनार्थं द्विजाः सृष्टास्तारका दिवि देवताः ॥ १४.१११.७९ ॥

吉祥草被创造出来用于铺设祭座,并用于抵御罗刹;为了牲畜和人类,再生者被创造出来;天上的星辰成为了神明。

14.111.80

क्षत्रिया रक्षणार्थं तु वैश्या वार्तानिमित्ततः ।
शुश्रूषार्थं त्रयाणां वै शूद्राः सृष्टाः स्वयंभुवा ॥ १४.१११.८० ॥

刹帝利为保护而生,吠舍为谋生而生,首陀罗为侍奉三个上层种姓而由自生者所造。

14.111.81

एवमेतज्जगत्सर्वमग्निहोत्रकृते कृतम् ।
नावबुध्यन्ति ये चैव नरास्तु तमसा वृताः ॥ १४.१११.८१ ॥

如此,这整个世界都是为了阿耆尼霍特拉祭而造的;然而被黑暗所遮蔽的人们却不明白这一点。

14.111.82

ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम् ।
रौरवाद्विप्रयुक्तास्तु कृमियोनिं व्रजन्ति ते ॥ १४.१११.८२ ॥

他们堕入名为“罗罗婆”的可怕地狱;离开罗罗婆之后,他们投生为虫类。

14.111.83

यथोक्तमग्निहोत्राणां शुश्रूषन्ति च ये द्विजाः ।
तैर्दत्तं सहुतं चेष्टं दत्तमध्यापितं भवेत् ॥ १४.१११.८३ ॥

对于按规定侍奉阿耆尼霍特拉祭的再生者而言,所施舍的布施、所奉的祭品、所行的祭祀与所传授的教导,皆能结出果实。

14.111.84

एवमिष्टं च पूर्तं च यद्विप्रैः क्रियते नृप ।
तत्सर्वं सम्यगाहृत्य चादित्ये स्थापयाम्यहम् ॥ १४.१११.८४ ॥

国王啊,婆罗门如此所行的一切祭祀与功德之事,我都完整地收集起来,安置于太阳之中。

14.111.85

मया स्थापितमादित्ये लोकस्य सुकृतं हि तत् ।
धारयेद्यत्सहस्रांशुः सुकृतं ह्यग्निहोत्रिणाम् ॥ १४.१११.८५ ॥

我安置于太阳(Āditya)之中的,乃是世间的善业;愿千光者(太阳)持守它,因为这是奉行阿耆尼霍特拉者的善业。

14.111.86

यावत्कालं तु तिष्ठन्ति लोके चाप्यग्निहोत्रिणः ।
तावदेव हि पुण्येन दीप्यते रविणाऽम्बरे ॥ १४.१११.८६ ॥

只要奉行阿耆尼霍特拉者仍存于世间,凭借此功德,太阳便在天空中照耀。

14.111.87

स्वर्गे स्वर्गं गतानां तु वीर्याद्भवति वीर्यवान् ।
तत्र ते ह्युपभुञ्जन्ति ह्यग्निहोत्रस्य तत्फलम्।
समानरूपा देवानां तिष्ठन्त्याबूतसंप्लवम् ॥ १४.१११.८७ ॥

升天之人凭自身之力而变得强大。在那里他们享受阿耆尼霍特拉的果报;以与天神相同的形貌,直到世界的大毁灭之时才停留。

14.111.88

वृथाऽग्निना च ये केचिद्दह्यन्ते ह्यग्निहोत्रिणः ।
न तेऽग्निहोत्रिणां लोके मानसाऽपि व्रजन्ति ते ॥ १४.१११.८८ ॥

那些奉行阿耆尼霍特拉者若无端被火焚烧,即便以心念也到不了阿耆尼霍特拉者的世界。

14.111.89

वीरघ्रास्तु दुराचारा दरिद्रास्तु नराधमाः ।
विकला व्याधिताश्चापि जायन्ते शूद्रयोनिषु ॥ १४.१११.८९ ॥

杀害英雄者、行为邪恶者、贫穷者、卑劣之人、残疾者与病患者,都生于首陀罗之胎。

14.111.90

तस्मादप्रोषितैर्नित्यमग्निहोत्रं द्विजातिभिः ।
होतव्यं विधिवद्राजन्नूर्ध्वामिच्छन्ति ये गतिम् ॥ १४.१११.९० ॥

因此,大王啊,希望走向上界之路的再生族,应常按规则奉行阿耆尼霍特拉,而不离开家室。

14.111.91

आत्मवन्नावमन्तव्यमग्निहोत्रं युधिष्टिर ।
न त्याज्यं क्षणिमप्येतदग्निहोत्रं युधिष्ठिर ॥ १४.१११.९१ ॥

般度之子坚战啊,不应像对待自己一样轻视阿耆尼火祭。坚战啊,这火祭即使片刻也不可放弃。

14.111.92

वृद्धत्वेऽप्यग्निहोत्रं ये गृह्णन्ति विधिवद्द्विजाः ।
शूद्रान्नाद्विरता दान्ताः संयतेन्द्रियबुद्धयः ॥ १४.१११.९२ ॥

即使在老年也依规则供奉阿耆尼火祭、远离首陀罗之食、克己自制、摄伏感官与心智的再生婆罗门。

14.111.93

पञ्चयज्ञपरा नित्यं लोभक्रोधविवर्जिताः ।
द्विकालमतिथींश्चैव पूजयन्ति च भक्तितः ॥ १४.१११.९३ ॥

始终专心于五祭、远离贪欲与愤怒、每日两时以虔诚敬奉宾客的人。

14.111.94

तेऽपि सूर्योदयप्रख्यैर्विमानैर्वायुवेगिभिः ।
मम लोके प्रमोदन्ते दृष्ट्वा मां च युधिष्ठिर ॥ १४.१११.९४ ॥

他们也乘着如日出般光明、如风般迅疾的天车,在我的世界中欢喜;坚战啊,见到我之后也欢喜。

14.111.95

मन्वन्तरं च तत्रैकं मोदिता द्विजसत्तमाः ।
इह मानुष्यके लोके जायन्ते द्विजसत्तमाः ॥ १४.१११.९५ ॥

在彼处欢喜一个摩奴期之后,最优秀的婆罗门啊,他们又在此人间世界中出生。

14.111.96

बालाहिताग्रयो ये च शूद्रान्नाद्विरताः सदा ।
क्रोधलोभविनिर्मुक्ताः प्रातस्स्नानपरायणाः।
यथोक्तमग्निहोत्रं वै जुह्वते विजितेन्द्रियाः ॥ १४.१११.९६ ॥

年少时即设立圣火、始终远离首陀罗之食、免于愤怒与贪欲、专心于晨浴、克服感官而依规定供奉阿耆尼火祭的人。

14.111.97

आतिथेयाः सदा सौम्या द्विकालं मत्परायणाः ।
ते यान्त्यपुनरावृत्तिं भित्त्वा चादित्यमण्डलम् ॥ १४.१११.९७ ॥

常行待客、温和、每日两时专注于我者,穿越太阳圆盘,而达不再返回之境。

14.111.98

मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः ।
तत्र बालार्कसङ्काशाः कामगाः कामरूपिणः ॥ १४.१११.९८ ॥

他们与妻子一同乘坐如日出般光明的车辆前往我的世界;在那里,他们如初升之日,随意往来,随意变化形貌。

14.111.99

ऐश्वर्यगुणसंपन्नाः क्रीडन्ति च यथासुखम् ।
इत्येषामाहिताग्नीनां विभूतिः पाण्डुनन्दन ॥ १४.१११.९९ ॥

具备主宰之德的他们,随意欢乐。般杜之子啊,这便是奉持圣火者的荣耀。

14.111.100

श्रुतिं केचिन्निन्दमानाः श्रुतिं दूष्यन्त्यबुद्धयः ।
प्रमाणं न च कुर्वन्ति ये यान्तीहापि दुर्गतिम्। ॥ १४.१११.१०० ॥

有些愚昧之人诽谤并玷污天启(吠陀,śruti);不以之为权威者,即在此世陷入恶运。

14.111.101

प्रमाणमितिहासं च वेदान्कुर्वति ये द्विजाः ।
ते यान्त्यमरसायुज्यं नित्यमास्तिक्यबुद्धयः ॥ १४.१११.१०१ ॥

以历史传说与吠陀为权威、常怀信仰之心的再生者,得与不死者合一。