Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.117

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.117.1

कीदृशानां तु शूद्राणां नानुगृह्णासि चार्चनम् ।
उद्वेगस्तव कस्माद्धि तन्मे ब्रूहि सुरेश्वर ॥ १४.११७.१ ॥

诸神之主啊,你不接受哪一类首陀罗的礼拜?为何这让你感到厌恶?请告诉我。

14.117.2

अव्रतेनाप्यभक्तेन स्पृष्टां शूद्रेण चार्चनाम् ।
तां वर्जयामि राजेन्द्र श्वपाकविहितामिव ॥ १४.११७.२ ॥

被无誓愿、无虔信的首陀罗触碰过的礼拜,哦王中之王,我拒绝;仿佛它是为食狗者所规定的。

14.117.3

नन्वहं शङ्करश्चापि गावो विप्रास्तथैव च ।
अश्वत्थोऽमररूपं हि त्रयमेतद्युधिष्ठिर ॥ १४.११७.३ ॥

哦,坚战,难道我、湿婆、牛、婆罗门,以及菩提树——这三者不是具有不死之形吗?

14.117.4

एतत्त्रयं हि मद्भक्तो नावमन्येत कर्हिचित् ।
अवमानितमेतत्तु दहत्यासप्तमं कुलम् ॥ १४.११७.४ ॥

我的信徒绝不可轻慢这三者;因为轻慢它们,会烧毁七代之内的家族。

14.117.5

अश्वत्थो ब्राह्मणा गावो मन्मयास्तारयन्ति हि ।
तस्मादेतत्प्रयत्नेन त्रयं पूजय पाण्डव ॥ १४.११७.५ ॥

菩提树、婆罗门和牛都由我所成,它们能够救度他人。因此,般度之子啊,应当精心礼敬这三者。

14.117.6

ब्राह्मणेनैव देहेन कथं शूद्रत्वमाप्नुयात् ।
ब्रह्म वा नश्यति कथं वक्तुं देव त्वमर्हसि ॥ १४.११७.६ ॥

具有婆罗门之身的人,怎会堕入首陀罗之境?或者,梵(吠陀)又如何败亡?哦神,唯有你才配告诉我。

14.117.7

कूपस्नानं तु यो विप्रः कुर्याद्द्वादशवार्षिकम् ।
स तेनैव शरीरेण शूद्रत्वं यात्यसंशयम् ॥ १४.११७.७ ॥

婆罗门若在井中沐浴十二年,便以此身无疑地堕为首陀罗。

14.117.8

यस्तु राजाश्रयेणैव जीवेद्द्वादशवार्षिकम् ।
स शूद्रत्वं व्रजेद्विप्रो वेदानां पारगोपि सन् ॥ १४.११७.८ ॥

婆罗门若仅依赖国王生活十二年,即使精通吠陀,也会堕为首陀罗。

14.117.9

पत्तने नगरे वाऽपि यो द्वादशसमा वसेत् ।
स शूद्रत्वं व्रजेद्विप्रो नात्र कार्या विचारणा ॥ १४.११७.९ ॥

婆罗门若在市镇或城邑中居住十二年,便堕为首陀罗;此事无须怀疑。

14.117.10

उत्पादयति यः पुत्रं शूद्रायां काममोहितः ।
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥ १४.११७.१० ॥

婆罗门若被欲望迷惑,与首陀罗女子生子,其体内的梵便立即消亡。

14.117.11

यः सोमलतिकां विप्रः केवलं भक्षयेद्वृथा ।
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥ १४.११७.११ ॥

婆罗门若徒然只食用苏摩藤,其体内的梵便立即消亡。

14.117.12

मैथुनं कुरुते यस्तु जिह्वायां ब्राह्मणो नृप ।
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥ १४.११७.१२ ॥

大王,婆罗门若以舌行淫,其体内的梵便立即消亡。

14.117.13

विप्रत्वं दुर्लभं प्राप्य दुर्मर्गैरेवमादिभिः ।
विनाशयन्ति ये तत्तु ताञ्शोचामि युधिष्ठिर ॥ १४.११७.१३ ॥

啊,坚战,我为那些获得罕见婆罗门身份、却以邪路等方式毁掉它的人而悲伤。

14.117.14

तस्मात्सर्वप्रत्नेन मत्प्रियो यो युधिष्ठिर ।
जातिभ्रंशकरं कर्म न कुर्यादीदृशं द्विजः ॥ १४.११७.१४ ॥

因此,啊,坚战,那位我所爱的再生者,应竭尽全力,不做这种导致失去种姓的行为。