摩诃婆罗多 · 章 14.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.23.1
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सुभगे सप्तहोतॄणां विधानमिह यादृशम् ॥ १४.२३.१ ॥
这里的人也讲述这个古老的故事:善良的女子啊,这里七位祭司(呼唤者)的安排便是如此。
14.23.2
घ्राणश्चक्षुश्च जिह्वा च त्वक् श्रोत्रं चैव पञ्चमम् ।
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ॥ १४.२३.२ ॥
鼻、眼、舌、皮肤,第五是耳,以及意与觉——这七者即是祭司(呼唤者),各自独立安住。
14.23.3
सूक्ष्माकाशे समं प्राप्ते न पश्यन्तीतरेतरम् ।
एतद्वै सप्तहोतृत्वं स्वभावाद्विद्धि शोभने ॥ १४.२३.३ ॥
他们在微妙的虚空中同等地到达,却彼此不相见。光明的女子啊,应当知道,这便是七者依其本性所具的祭司之职。
14.23.4
सूक्ष्मे तु काशे सम्प्राप्ते कथं नान्योन्यदर्शिनः ।
कथं स्वभावाद्भगवन्नेतदाचक्ष्व मे प्रभो ॥ १४.२३.४ ॥
然而,他们到达微妙的虚空之后,为何彼此不相见?尊者啊,这依其本性是如何发生的?主啊,请为我解说。
14.23.5
गुणज्ञानेषु विज्ञानं गुणज्ञानामभिज्ञता ।
परस्परं गुणानेते नाभिजानन्ति कर्हिचित् ॥ १४.२३.५ ॥
在认识属性之中有辨别之智,在认识属性之中也有特别的熟悉。然而,这些彼此之间从不能识别对方的属性。
14.23.6
जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च ।
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ॥ १४.२३.६ ॥
舌、眼,同样还有耳、皮肤、意与觉,都不能获得气味;只有鼻能够获得它们。
14.23.7
घ्राणं चक्षुस्तथा क्षोत्रं त्वङ्मनो बुद्धिरेव च ।
न रसानधिगच्छन्ति जिह्वा तानधिगच्छति ॥ १४.२३.७ ॥
鼻、眼、耳、身、意与智,不能觉知味;唯有舌能觉知之。
14.23.8
घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च ।
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ॥ १४.२३.८ ॥
鼻、舌、耳、身、意与智,不能觉知色;唯有眼能觉知之。
14.23.9
घ्राणं जिह्वा ततश्चक्षुः श्रोत्रं बुद्धिर्मनस्तथा ।
न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ॥ १४.२३.९ ॥
鼻、舌、眼、耳、智与意,不能觉知触;唯有身能觉知之。
14.23.10
घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च ।
न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ॥ १४.२३.१० ॥
鼻、舌、眼、身、意与智,不能觉知声;唯有耳能觉知之。
14.23.11
घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं बुद्धिरेव च ।
सङ्कल्पान्नाधिगच्छन्ति मनस्तानधिगच्छति ॥ १४.२३.११ ॥
鼻、舌、眼、身、耳与智,不能以思念觉知;唯有意能觉知之。
14.23.12
घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च ।
न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति ॥ १४.२३.१२ ॥
鼻、舌、眼、身、耳与意,不能觉知究竟之安住;唯有智能觉知之。
14.23.13
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इन्द्रियाणां च संवादं मनसश्चैव भामिनि ॥ १४.२३.१३ ॥
此处人们也引用这古老的传说——诸根与意之间的对话,光彩照人的女子啊。
14.23.14
नाघ्राति मामृते घ्राणं रसं जिह्वा न वेत्ति च ।
रूपं चक्षुर्न गृह्णाति त्वक् स्पर्सं नावबुध्यते ॥ १४.२३.१४ ॥
没有我,鼻不嗅气味,舌不知味道,眼不取形色,身不觉触感。
14.23.15
न श्रोत्रं बुध्यते शब्दं मया हीनं कथञ्चन ।
प्रवरं सर्वबूतानामहमस्मि सनातनम् ॥ १४.२३.१५ ॥
若无我,耳绝不能闻声。我是一切众生中最殊胜的,是永恒的。
14.23.16
अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः ।
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ॥ १४.२३.१६ ॥
若无我,诸根常如空屋、熄灭的火焰,不再发光。
14.23.17
काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः ।
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ॥ १४.२३.१७ ॥
如湿木与干柴,若无我,众生虽以诸根努力,也不能获得诸德之境。
14.23.18
एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् ।
ऋतेऽस्मानस्मदर्थांस्त्वं भोगान्भुङ्क्ते भवान्यदि ॥ १४.२३.१८ ॥
如你所想,此言为真吧。若无我们,而你却享受为我们而设的诸欲之乐。
14.23.19
यद्यस्मासु प्रलीनेषु तप्रणं प्राणधारणम् ।
भोगान्भुङ्क्ते भवान्सत्यं यथैतन्मन्यते तथा ॥ १४.२३.१९ ॥
若我们消融之时,唯有你维持生命之气并享受诸般欲乐,那么你所想的确是真实的。
14.23.20
अथवाऽस्मासु लीनेषु तिष्ठत्सु विषयेषु च ।
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ॥ १४.२३.२० ॥
或者,若我们消融而诸境仍在,而你仅凭意念便如实享受诸般欲乐。
14.23.21
अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा ।
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ॥ १४.२३.२१ ॥
若你认为成就常在我们的境界之中,那么以鼻取色,以眼取味吧。
14.23.22
श्रोत्रेण गन्धानादत्स्व स्पर्शानादत्स्व जिह्वया ।
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ॥ १४.२३.२२ ॥
以耳取香,以舌取触,以皮取声,又以智取触。
14.23.23
बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् ।
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हति ॥ १४.२३.२३ ॥
强者无拘,律则为弱者而设。请取从未享受过的诸欲;享用残余之物,与你不相称。
14.23.24
यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति ।
ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ॥ १४.२३.२४ ॥
如弟子奔至师长处听闻经义,然后领受所闻,便侍奉所learned之义。
14.23.25
विषयानेवमस्माभिर्दर्शितानभिमन्यसे ।
अनुभूतानतीतांश्च स्वप्ने जागरणे तथा ॥ १४.२३.२५ ॥
你这样把我们所展示的、已经经历和已经过去的对象,在梦中和醒时都视为真实。
14.23.26
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् ।
अस्मदर्थे कृते दृश्यते प्राणधारणम् ॥ १४.२३.२६ ॥
在心智低下的众生中,可见心意的沮丧,以及为我们而行时的维持生命。
14.23.27
बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च ।
बुभुक्षया पीड्यमानो विषयानेन धावति ॥ १४.२३.२७ ॥
他把许多念想视为真实,又侍奉梦境,为饥渴所苦,便奔向诸境。
14.23.28
अगारमद्वारमिव प्रविश्य ।
सङ्कल्पभोगान्विषयानविन्दन्।
प्राणक्षये शान्तिमुपैति नित्यं ।
दारुक्षयेऽग्निर्ज्वलितो यथैव ॥ १४.२३.२८ ॥
仿佛进入无门之屋,获得作为欲念享受的诸境,在生命耗尽时常得寂静,如同柴尽之火。
14.23.29
कामं तु नष्टेषु गुणेषु सङ्गः ।
कामं च नान्योन्यगुणोपलब्धिः।
अस्मान्विना नास्ति तपोपलब्धि-
स्तामप्यृते त्वां न भजेत्प्रहर्षः ॥ १४.२३.२९ ॥
诸德虽灭,爱着仍在,彼此亦能觉知诸德;离开我们则无苦行之成就,离开它,欢喜也不会眷顾你。