Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.56

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.56.1

उदङ्कः केन तपसा संयुक्तो वै महामनाः ।
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्ववे ॥ १४.५६.१ ॥

心胸宏大的乌单伽以何种苦行而具足?他想要诅咒毗湿奴——那位大能之主。

14.56.2

उदङ्को महता युक्तस्तपसा जनमेजय ।
गुरभक्तः स तेजस्वी नान्यत्किञ्चिदपूजयत् ॥ १४.५६.२ ॥

ઔ 贾纳默贾亚啊,乌单伽具足大苦行。他光辉而敬重师尊,不崇拜其他任何事物。

14.56.3

सर्वेषामृषिपुत्राणामेष आसीन्मनोरथः ।
औदङ्कीं गुरुवृत्तिं वै प्राप्नुयामेति भारत ॥ १४.५६.३ ॥

婆罗多啊,所有仙人之子的愿望都是:能像乌单伽那样获得对师尊的服侍。

14.56.4

गौतमस्य तु शिष्याणां बहूनां जनमेजय ।
उदङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ॥ १४.५६.४ ॥

贾纳默贾亚啊,在乔答摩的众多弟子中,当时对乌单伽产生了更大的爱与亲近。

14.56.5

स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा ।
सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ॥ १४.५६.५ ॥

凭借他的克制与清净、勇毅的行为以及恰当的侍奉,乔答摩对他感到满意。

14.56.6

अथ शिष्यसहस्राणि समनुज्ञाय गौतमः ।
उदङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत ॥ १४.५६.६ ॥

随后,乔答摩遣散了数千弟子,但出于极深的爱,他不愿允许乌单伽离去。

14.56.7

तं क्रमेण जरा तात प्रतिपेदे महामुनिम् ।
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः ॥ १४.५६.७ ॥

孩子啊,老年逐渐降临到那位大仙身上,但那位敬爱师长的仙人当时并未察觉。

14.56.8

ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ ।
उदङ्कः काष्ठभारं च महान्तं समुपानयत् ॥ १४.५६.८ ॥

此后有一次,王中之王啊,乌当伽去取柴火,并带回了一大捆木柴。

14.56.9

स तद्भाराभिभूतात्मा काष्ठभारमरिंदम ।
निचिक्षेप क्षितौ राजन्परिश्रान्तो बुभुक्षितः ॥ १४.५६.९ ॥

他被那重担压得身心俱疲,征服敌人的人啊,他把柴捆放在地上;国王啊,他疲惫而饥饿。

14.56.10

तस्य काष्ठे विलग्नाऽभूज्जटा रूप्यसमप्रभा ।
ततः काष्ठैः सह तदा पपात धरणीतलम् ॥ १४.५६.१० ॥

他那如银般闪亮的发辫缠在了木柴上;于是他与柴木一同跌落在地面上。

14.56.11

ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भारत ।
दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा ॥ १४.५६.११ ॥

于是,他被重担压得疲惫不堪,又饥饿难忍,婆罗多啊,他看到自己年迈的这种状况,便以悲切的声音哭了起来。

14.56.12

ततो गुरुसुता तस्य पद्मपत्रनिभानना ।
जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना।
पितुर्नियोगाद्भावज्ञा शिरसाऽवनता तदा ॥ १४.५६.१२ ॥

于是,老师的女儿,面容如莲花花瓣,腰身优美,双目宽大,用手擦去了他的泪水;遵从父亲的命令,理解他的心情,她低头站立。

14.56.13

तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः ।
न हि तानश्रुपातांस्तु शक्ता धारयितुं मही।
गौतमस्त्वब्रवीद्विप्रमुदङ्कं प्रीतमानसः ॥ १४.५६.१३ ॥

她被烧伤的双手随着那些泪滴落下;大地无法承受那些落下的泪水。于是心中欢喜的乔达摩对婆罗门乌坦卡说道。

14.56.14

कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः ।
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि तत्त्वतः ॥ १४.५६.१४ ॥

孩子,今天你的心为何在此超越了悲伤?婆罗门中的圣者啊,请坦白地说出来,我想如实地听闻。

14.56.15

भवद्गतेन मनसा भवत्प्रियचिकीर्षया ।
भवद्भक्तिगतेनेह भवद्भावानुगेन च ॥ १४.५६.१५ ॥

心念皆系于你,愿为你所喜而行,在此专注于对你的虔敬,并遵从你的心意。

14.56.16

जरेयं नाघबुद्धा मे नाभिज्ञातं सुखं च मे ।
शतवर्षोषितं मां हि न त्वमन्यनुजानिथाः ॥ १४.५६.१६ ॥

这衰老并未被我视为罪过,我的快乐也未被知晓;我已活了百年,你却不许我离去。

14.56.17

भवता त्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम ।
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ॥ १४.५६.१७ ॥

然而,经你允许的我的年幼弟子们已经来到,二生者中最殊胜的人啊,成百上千。

14.56.18

त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव ।
व्यतिक्रामन्महाकालो नावबुद्धो द्विजर्षभ ॥ १४.५६.१८ ॥

我怀着对你的爱,专心侍奉师长,婆罗门中的雄牛啊,漫长的时光过去了,我却未曾察觉。

14.56.19

किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव ।
अनुज्ञां प्रतिगृह्य त्वं स्वगृहान्गच्छ माचिरम् ॥ १४.५६.१९ ॥

婆迦婆啊,若你今日心意已定要离去,就请辞行并即刻回到你自己的家中。

14.56.20

गुर्वर्तं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम ।
तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो ॥ १४.५६.२० ॥

最优秀的再生者啊,我该为师尊奉上什么供养?请告诉我,尊贵者,我好带来它,并在您允许后离去。

14.56.21

दक्षिणापरितोषो वै गुरूणां सद्भिरुच्यते ।
तवि ह्याचरतो धर्मं तुष्टोऽहं वै न संशयः।
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह ॥ १४.५६.२१ ॥

善人说,对师长的供养只需满足即可。你奉行法,我确实心满意足,毫无疑问。请知道我已如此满足,婆利古中最优秀者啊。

14.56.22

युवा षोडशवर्षो हि यद्यद्य भविता भवान् ।
ददानि पत्नीं कन्यां च स्वां ते दुहितरं द्विज।
एतामृतेऽङ्गना नान्या त्वत्तेजोऽर्हति सेवितुम् ॥ १४.५६.२२ ॥

若你今日便成为十六岁的青年,婆罗门啊,我便将亲生的女儿嫁给你为妻。除她之外,没有别的女子配得上侍奉你的光辉。

14.56.23

ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् ।
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ॥ १४.५६.२३ ॥

于是他变成青年,接受了那位名声显赫的女子;经师尊允许后,他便对师母说话。

14.56.24

किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष माम् ।
प्रियं हितं च काङ्क्षामि प्राणैरपि धनैरपि ॥ १४.५६.२४ ॥

我该给你什么?请为了师尊的利益而吩咐我。我愿为你求取喜悦与福利,即使以生命,也以财富。

14.56.25

यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं महत् ।
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ॥ १४.५६.२५ ॥

此世间最为稀有、最为奇妙、最为珍贵的宝物,我将以苦行取来。此事我毫不怀疑。

14.56.26

अहल्योवाच ।
परितुष्टाऽस्मि ते विप्र नित्यं भक्त्या तवानघ।
पर्याप्तमेतद्भद्रं ते गच्छ तात यथेप्सितम् ॥ १४.५६.२६ ॥

无罪的婆罗门啊,我因你恒常的虔敬而深感欣慰。这已足够。愿你吉祥,孩子,随你所愿去吧。

14.56.27

उदङ्कस्तु महाराज पुनरेवाब्रवीद्वचः ।
आज्ञापयस्व मां मातः कर्तव्यं च तव प्रियम् ॥ १४.५६.२७ ॥

然而,大王,乌坦伽又说了这些话:母亲啊,请吩咐我,让我去做您所喜爱且应当做的事。

14.56.28

अहल्योवाच ।
सौदासपत्न्या विधृते दिव्ये ये मणिकुण्डले।
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ॥ १४.५६.२८ ॥

把萨乌达萨之妻所持的那对神圣宝石耳环取来吧。愿你吉祥,愿师尊的心愿顺利成就。

14.56.29

स तथेति प्रतिश्रुत्य जगाम जनमेजय ।
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ॥ १४.५६.२९ ॥

惟,阇那美阁耶啊,他说了“就这样吧”,许下承诺,随即为了让师母欢喜,动身去取那些宝物。

14.56.30

स जगाम ततः शीघ्रमुदङ्को ब्राह्मणर्षभः ।
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ॥ १४.५६.३० ॥

于是婆罗门中的雄牛优当迦迅速前往向食人者娑陀娑乞求宝珠耳环。

14.56.31

गौतमस्त्वब्रवीत्पत्नीमुदङ्को नात्र दृश्यते ।
इति पृष्टा तमाचष्ट कुण्डलार्थे गतं च सा ॥ १४.५६.३१ ॥

瞿昙对妻子说:“优当迦不在这里。”经询问,她告诉他,他为耳环而去了。

14.56.32

ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् ।
शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ॥ १४.५६.३२ ॥

于是他对妻子说:“你这件事做得不对。那位国王被诅咒之后,必定会杀害那位婆罗门。”

14.56.33

अहल्योवाच ।
अजानन्त्या नियुक्तः स भगवन्ब्राह्मणो मया।
भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति ॥ १४.५६.३३ ॥

阿诃厘耶说:“尊者啊,是我不知情地派那位婆罗门去的。蒙您恩典,他将毫无惧怕。”

14.56.34

इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः ।
उदङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ॥ १४.५६.३४ ॥

瞿昙听了,对妻子说:“就这样吧。”优当迦也在空寂的森林里看见了那位国王。