摩诃婆罗多 · 章 14.66
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.66.1
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् ।
उपायाद्वृष्णिभिः सार्दं पुरं वारणसाह्वयम् ॥ १४.६६.१ ॥
就在此时,英勇的婆薮提婆(黑天)也与毗湿尼族人一同来到了名为婆罗那婆诃瓦的城市。
14.66.2
समयं वाजिमेधस्य विदित्वा पुरुषर्षभः ।
यथोक्तो धर्मपुत्रेण प्रव्रजन्स्वपुरीं प्रति ॥ १४.६६.२ ॥
得知马祭的时间后,这位人中之雄遵照法子所嘱,启程返回自己的城邦。
14.66.3
रौक्मिणेयेन सहितो युयुधानेन चैव ह ।
चारुदेष्णेन सांबेनि गदेन कृतवर्मणा ॥ १४.६६.३ ॥
与罗迦弥尼之子、尤优陀那、遮卢提湿那、三婆、伽陀和无畏甲一同前行。
14.66.4
सारणेन च वीरेण निशठेनोन्मुखेन च ।
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ॥ १४.६६.४ ॥
与英雄娑罗那、尼萨陀和温慕迦同行,以大力罗摩居前,并与苏跋陀罗同在。
14.66.5
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः ।
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः ॥ १४.६६.५ ॥
看着德罗波蒂、乌塔拉和普利塔,为了安慰她们,也为了安慰那些丈夫已被杀害的刹帝利女子。
14.66.6
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः ।
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ॥ १४.६६.६ ॥
见他们到来,大地之主持国王与心胸宽广的毗杜罗依礼相迎。
14.66.7
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषोत्तमः ।
विदुरेणि महातेजास्तथैव च युयुत्सुना ॥ १४.६६.७ ॥
克里希纳——人中至尊、备受尊敬——便住在那里;大力的维度罗与优育苏同样(敬重他)。
14.66.8
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय ।
जज्ञे तव पिता राजन्परिक्षित्परवीरहा ॥ १४.६६.८ ॥
当维瑞尼的英雄们居住在那里时,于是,嗟乎,遮娜梅阇耶,你的父亲波利克希特降生了,王啊,他是敌方英雄的杀者。
14.66.9
स तु राजा महाराज ब्रह्मास्त्रेणावपीडितः ।
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ॥ १४.६६.९ ॥
那位国王,大王啊,被梵天之箭所击,便如尸体一般僵直不动,使欢喜与悲伤同时增长。
14.66.10
हृष्टानां सिंहनादेन जनानां तत्र निःस्वनः ।
आविवश दिशःसर्वाः पुनरेवाभ्युपागमत् ॥ १४.६६.१० ॥
欢欣的人们发出如狮子般的吼声,那声音在那里再次响起,充满了所有的方向。
14.66.11
ततः सोतित्वरः कृष्णो विवेशान्तःपुरं तदा ।
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः ॥ १४.६६.११ ॥
于是克里希纳急忙地,与优育陀那同行,心神与诸根俱感痛苦,走进了内宫。
14.66.12
ततस्त्वरितमायान्तीं ददर्शं स्वां पितृष्वसाम् ।
क्रोशन्तीमभिधावेति वासुदेवं पुनःपुनः ॥ १४.६६.१२ ॥
随后他看见自己的姑母急匆匆赶来,哭喊着,一次又一次地向婆苏提婆奔去。
14.66.13
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् ।
विक्रोशन्त्यश्च करुणं पाण्डवानां स्त्रियो नृप ॥ १४.६६.१३ ॥
大王啊,后面有德罗波蒂与光荣的妙贤,以及般度诸子的妇女们,悲声哀号而来。
14.66.14
ततः कृष्णं समासाद्य कुन्ती भोजसुता तदा ।
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ॥ १४.६६.१४ ॥
于是,博阇之女贡蒂走近克里希纳,王中猛虎啊,她以哽咽的泪声说道。
14.66.15
वासुदेव महाबाहो सुप्रजा देवकी त्वया ।
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् ॥ १४.६६.१५ ॥
大臂的婆苏提婆啊,因你,提婆伽有了好儿子。你是我们的依靠与支柱,这个家族依赖于你。
14.66.16
यदुप्रवीर योऽयं ते स्वस्त्रीयस्यात्मजः प्रभो ।
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ॥ १४.६६.१६ ॥
雅度英雄啊,主啊,你姊妹之子的这个儿子被阿updates湿婆摩所杀,死而降生。凯沙瓦啊,请使他复活。
14.66.17
त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन ।
अहं संजीवयिष्यामि मृतं जातमिति प्रभो ॥ १४.६६.१७ ॥
雅度的欢喜啊,你曾许下誓言:「我要使这死生的孩子复活。」主啊!
14.66.18
सोयं जातो मृतस्तात पश्यैनं पुरुषर्षभ ।
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ॥ १४.६६.१८ ॥
这个孩子死生,亲爱的。请看看他,人中之牛啊——也请看看乌陀罗、妙贤、德罗波蒂和我,摩陀婆啊。
14.66.19
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा ।
सहदेवं च दुर्धर्षं सर्वान्नस्त्रातुमर्हसि ॥ १४.६६.१९ ॥
法之子、怖军、白分、无种,以及难以战胜的偕天——你应当护佑我们所有人。
14.66.20
अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च ।
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ॥ १४.६६.२० ॥
达沙尔哈之裔啊,般度之子的生命与我的生命都系于他;他是般度的供物,我岳父的供物也是如此。
14.66.21
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च ।
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन ॥ १४.६६.२१ ॥
愿吉祥降临于你。阿般夷的爱子啊,虽然他已逝去,但你要为这同样可爱的亡者带来欢喜,檀那檀那(克里希纳)啊。
14.66.22
उत्तरा हि पुरोक्तं वै कथयत्यरिसूदन ।
अभिमन्योर्वचः कृष्ण प्रियत्वात्तन्न संशयः ॥ १४.६६.२२ ॥
灭敌者啊,乌多罗确实转述了阿般夷先前所说的话;克里希纳啊,这是出于爱,毫无疑问。
14.66.23
अब्रवीत्किल दाशार्ह वैराटीमार्जुनिस्तदा ।
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ॥ १४.६६.२३ ॥
据说当时阿周那之子阿般夷对毗罗吒之女说:吉祥的女子啊,你的儿子将去往他舅舅的家族。
14.66.24
गत्वा वृष्णयन्धककुलं धनुर्वेदं ग्रहीष्यति ।
अस्त्राणि च विचित्राणि नितीशास्त्रं च केवलं ॥ १४.६६.२४ ॥
他将前往缚栗尼与安陀迦之族,学习射箭之术、种种神妙兵器,以及完整的治国之学。
14.66.25
इत्येतत्प्रणयात्तात सौभद्रः परवीरहा ।
कथयामास दुर्धर्षस्तथा चैतन्न संशयः ॥ १४.६६.२५ ॥
亲爱的孩子,出于爱,苏跋陀罗之子——敌方英雄的杀手、不可战胜者——如此讲述了这一切,此事无疑。
14.66.26
तास्त्वां वयं प्रणम्येह याचामो मधुसूदन ।
कुलस्यास्य हितार्तं च कुरु कल्याणमुत्तमम् ॥ १४.६६.२६ ॥
我们在此向你礼拜,恳求你,哦,摩图苏陀那:为了这个家族的福祉和受苦之人,请施行至高的善行。
14.66.27
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना ।
उद्धृत्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ॥ १४.६६.२७ ॥
对着婆利什尼的后裔如此说完,大眼的普利塔因悲痛而举起双臂,其他女子也都倒在地上。
14.66.28
अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः ।
स्वस्त्रीयो वासुदेवस्य मृतो जात इति प्रभो ॥ १४.६६.२८ ॥
大王啊,她们都泪眼模糊地说道:“主啊,伐苏提婆之妹的儿子们是死胎出生的。”
14.66.29
एवं गते ततः कुन्तीं पर्यगृह्णाज्जनार्दनः ।
भूमौ निपतितां चैनां सान्त्वयामास भारत ॥ १४.६६.२९ ॥
事情既已如此,遮那陀那便扶起倒在地上的贡蒂,并安慰她,婆罗多啊。