Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.70

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.70.1

ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् ।
तदा तद्वेश्म ते पित्रा तेजसाऽभिविदीपितम् ॥ १४.७०.१ ॥

国王啊,当克利希那收回梵天神箭时,那座宫殿被你父亲的光辉完全照亮。

14.70.2

ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् ।
अन्तरिक्षे च वागासीत्साधु केशव साध्विति ॥ १४.७०.२ ॥

于是所有罗刹离开那座房屋而消失;天空中响起一个声音:“善哉,克舍婆,善哉!”

14.70.3

तदस्त्रं ज्वलितं चापि पितामहमगात्तदा ।
ततः प्राणान्पुनर्लेभे पिता तव नरेश्वर ॥ १४.७०.३ ॥

那道燃烧的神箭也便回到了祖父那里;于是,人主啊,你的父亲重新获得了生命之气。

14.70.4

व्यचेष्टत च बालोसौ यथोत्साहं यताबलम् ।
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः ॥ १४.७०.४ ॥

那孩子便依着自己的力量,兴致勃勃地动弹起来;于是,国王啊,婆罗多族的妇女们都欢喜起来。

14.70.5

ब्राह्मणा वाचयामासुर्गोविन्दस्यैव शासनात् ।
ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम् ॥ १४.७०.५ ॥

正是依照戈温达的命令,婆罗门们诵读了吉祥祝福;于是,所有欢喜的妇女都赞美了阁那陀那。

14.70.6

स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः ।
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा।
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः ॥ १४.७०.६ ॥

婆罗多族的诸狮之妇,仿佛得到了船只,渡到了彼岸;贡蒂、德鲁帕达之女黑公主、妙贤、乌塔拉,以及其他人中狮子的妇女,心中都欢喜起来。

14.70.7

तत्र मल्ला नटाश्चैव ग्रन्थिकाः सौख्यशायिकाः ।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तं जनार्दनम् ॥ १४.७०.७ ॥

摔跤手、舞者、猜谜者、娱乐歌者,以及苏塔与摩揭陀的歌颂者群体,也都赞美了遮那陀那。

14.70.8

कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ ।
सभाजयत संहृष्टो महाराज महाजनः ॥ १४.७०.८ ॥

以赞颂俱卢世系的祝福,婆罗多之牛啊,欢喜的大众尊敬了他。

14.70.9

उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् ।
अभ्यवादयत प्रीता सह पुत्रेण भारत ॥ १४.७०.९ ॥

Uttarā 适时起身,欢喜地与其子一同向耶度族之乐致敬,婆罗多啊。

14.70.10

ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः ।
तथैव वृष्णिशार्दूलो नाम चास्याकरोत्प्रभुः।
पितुस्तव महाराज सत्यसन्धो जनार्दनः ॥ १४.७०.१० ॥

随后,他欢喜地特别赠予她许多宝物,那位维瑞尼之虎般的主也为他取了名字。大王啊,为你的父亲,诚守誓言的遮那陀那如此行事。

14.70.11

परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः ।
परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा ॥ १४.७०.११ ॥

因为他在家族几近衰落时生于阿毗摩竭尤之家,于是那时他说:“就叫他‘珀里克希特’吧。”

14.70.12

सोऽवर्धत यथाकालं पिता तव जनाधिप ।
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत ॥ १४.७०.१२ ॥

他按时成长——你的父亲,人主啊;婆罗多啊,他是全世界心灵的喜悦。

14.70.13

मासजातस्तु ते वीर पिता भवति भारत ।
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः ॥ १४.७०.१३ ॥

啊,英雄,婆罗多,你的父亲那时还是一个月大的婴儿。于是般度之子们带着大量珍宝前来。

14.70.14

मेरुकूटनिभान्भाण्डान्कलशान्भाजनानि च ।
कृताकृतं महद्भीममादाय पुरुषोत्तमाः ॥ १४.७०.१४ ॥

如同须弥山峰的器皿、瓶罐和容器,有加工的和未加工的,巨大而可怖的物品,人中最优秀者带着它们前来。

14.70.15

भारतैर्वाहनैस्तत्र गोरुते गोरुते पथि ।
निवसन्तो ययुर्देवं स्मरन्तः परमेष्ठिनः ॥ १४.७०.१५ ॥

婆罗多人乘着车辆,在路上每一个牛鸣距离之地停留,一边念想至上之神,一边前行。

14.70.16

नासीत्तत्र नृपः कश्चिदभारार्तो नृपं विना ।
भीमादयोऽपि यज्ञार्थं वहन्ते किं पुनर्जनाः ॥ १४.७०.१६ ॥

那里没有一位因重负而受苦的国王;即使没有国王,怖军等人仍为祭祀而负重,何况其他人呢?

14.70.17

तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः ।
अलञ्चक्रुश्च माल्यौघैर्नगरं नागसाह्वयम् ॥ १४.७०.१७ ॥

听说他们已经临近,韦希尼的英雄们出城迎接,并以成堆的花环装饰了名为那伽萨呼瓦雅的城市。

14.70.18

पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि ।
वेश्मानि समलञ्चक्रुः पौराश्चापि जनेश्वरः ॥ १४.७०.१८ ॥

城中居民与人民之主也用色彩斑斓的旗幡和各式旌旗,将房屋装饰得十分齐备。

14.70.19

देवतायतनानां च पूजाः सुविविधास्तथा ।
संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया ॥ १४.७०.१९ ॥

为诸神的庙宇和各种祭祀,维杜罗便发出了命令,只为取悦般度之子。

14.70.20

राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः ।
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् ॥ १४.७०.२० ॥

那里的王道以鲜花装饰,那座城市如海潮般轰鸣,光彩夺目。

14.70.21

नर्तकैश्चापि नृत्यद्भिर्गायकानां च निःस्वनैः ।
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा ॥ १४.७०.२१ ॥

舞者翩翩起舞,歌者放声高歌,那座城市于是如同毗沙门天(俱毗罗)的居所。

14.70.22

बन्दिभिश्च नरै राजन्स्त्रीसहायैश्च सर्वशः ।
तत्रतत्र विविक्तेषु समन्तादुपशोभितम् ॥ १४.७०.२२ ॥

大王啊!到处,在僻静之处,四面八方,那座城市都以游吟者、男子和女伴装点得光彩照人。

14.70.23

पताका धूयमानाश्च समन्तान्मातरिश्वना ।
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् ॥ १४.७०.२३ ॥

四面八方被风吹动的旌旗,仿佛在向人们展示南北两方的俱卢族。

14.70.24

अघोषयंस्तदा चाप पुरुषा राजमार्गतः ।
सर्वरात्रविहारोऽद्य रत्नाभरणलक्षणः ॥ १४.७०.२४ ॥

于是人们在王道上宣告:今夜整晚将有以珠宝饰物为标志的欢庆。