Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 15.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

15.14.1

एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः ।
धृतराष्ट्रमुपेत्यैव वाक्यमाह महार्थवत् ॥ १५.१४.१ ॥

王にこう言われると、知恵において最も優れたヴィドゥラはドリタラーシュトラのもとへ行き、大いなる意味を持つ言葉を述べた。

15.14.2

उक्तो युधिष्ठिरो राजा भवद्वचनमादितः ।
स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः ॥ १५.१४.२ ॥

あなたの言葉は初めから王ユディシュティラに伝えられていた。大いなる輝きを持つ彼はそれを聞いて同意し、称賛した。

15.14.3

बीभत्सुश्च महातेजा निवेदयति ते गृहान् ।
वसु तस्य गृहे यच्च प्राणानपि च केवलान् ॥ १५.१४.३ ॥

大いなる輝きを持つビーバトゥス(アルジュナ)は、あなたに自分の家々、その家の財産、そしてただ命さえも捧げる。

15.14.4

धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च ।
अनुजानाति राजर्षे यच्चान्यदपि किञ्चन ॥ १५.१४.४ ॥

あなたの息子、法の王(ユディシュティラ)よ、王仙よ、あなたが王国、彼の命、財産、そしてその他何であれ取ることを許す。

15.14.5

भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत ।
कृच्छ्रादिव महाबाहुरनुजज्ञे विनिःश्वसन् ॥ १५.१४.५ ॥

しかし大いなる腕を持つビーマは、多くの苦しみを思い起こし、まるで苦しみの中で、深く溜め息をつきながら同意した。

15.14.6

र राजन्धर्मशीलेन राज्ञा बीभत्सुना तथा ।
अनुनीतो महाबाहुः सौहृदे स्थापितोपि च ॥ १५.१४.६ ॥

王よ、大いなる腕を持つ者(ビーマ)も、徳ある王とアルジュナによって説得され、友愛のうちに定められた。

15.14.7

न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट् ।
संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरत् ॥ १५.१४.७ ॥

「怒りを抱いてはならない」と法の王はあなたに言った。ビーマは、自分が不正に行った、かの敵意を思い出して……

15.14.8

एवंप्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप ।
शुद्धे क्षत्रियधर्मे न निरतोऽयं वृकोदरः ॥ १५.१४.८ ॥

人の王よ、クシャトリヤの法は概ねこのようなものである。このヴリコーダラは純粋なクシャトリヤの法に専念していない。

15.14.9

वृकोदरकृते चाहमर्जुनश्च पुनः पुनः ।
प्रसीद याचे नृपते भवान्प्रभुरिहास्ति यत् ॥ १५.१४.९ ॥

ヴリコーダラのために、私とアルジュナは幾度も願う。王よ、お慈悲をお与えください。ここにあるものすべての主は、あなたなのです。

15.14.10

तद्ददातु भवान्वित्तं यावदिच्छसि पार्थिवः ।
त्वमीश्वरो नो राज्यस्य प्राणानामपि भारत ॥ १५.१४.१० ॥

お望みのままに財を与えてください、王よ、バーラタよ。あなたは私たちの主であり、王国にも、命にさえも及ぶのです。

15.14.11

ब्रह्मदेयाग्रहारांश्च पुत्राणामौर्ध्वदेहिकम् ।
इतो रत्नानि गाश्चैव दासीदासमजाविकम् ॥ १५.१४.११ ॥

バラモンには布施の村々を、息子たちの葬送儀礼を施してください。そしてここから、宝石、牛、男女の使用人、山羊と羊をお与えください。

15.14.12

अर्चयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु ।
दीनान्धकृपणेभ्यश्च तत्रतत्र नृपाज्ञया ॥ १५.१४.१२ ॥

クルの最良の者よ、バラモンを敬って彼らに与えよ。また貧しき者、盲目の者、困窮する者にも、王の命によってあちこちで与えよ。

15.14.13

बह्वन्नरसपानाढ्याः सभा विदुर कारय ।
गवां निपानान्यन्यच्च विविधं पुण्यकं कुरु ॥ १५.१४.१३ ॥

ヴィドゥラよ、食物と美味な料理と飲み物に満ちた多くの集会堂を建てさせよ。牛のための水飲み場を設け、その他さまざまな功徳の行いをせよ。

15.14.14

इति मामब्रवीद्राजा पार्थश्चैव धनंजयः ।
यदत्रानन्तरं कार्यं तद्भवम्ववक्तुमर्हति ॥ १५.१४.१४ ॥

王とプリター の子ダナンジャヤはこう私に言った。「この後になすべきことを、あなたこそ語るにふさわしい」と。

15.14.15

इत्युक्ते विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तान् ।
मनश्चक्रे महादाने कार्तिक्यां जनमेजय ॥ १५.१४.१५ ॥

ヴィドゥラがこのように語ると、ドリタラーシュトラはその言葉を喜び迎え、ジャナメージャヤよ、カールティカ月に大布施を行うことを心に決めた。