Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.18.1

एवमेतन्महाबाहो यथा वदसि पाण्डवः ।
कृतमुद्धरणं पूर्वं मया वः सीदतां नृपाः ॥ १५.१८.१ ॥

噫,大臂的般度之子,如你所说。诸王啊,在你们沉沦之时,我先前已将你们救起。

15.18.2

द्यूतापहृतराज्यानां पतितानां सुखादपि ।
ज्ञातिभिः परिभूतानां कृतमुद्धरणं मया ॥ १५.१८.२ ॥

你们的王国因赌博被夺去,从幸福中跌落,又被自己的亲族所轻慢,我已将你们救起。

15.18.3

कथं पाण्डोर्न नश्येत संततिः पुरुषर्षभाः ।
यशश्च वो न नश्येत इति चोद्धरणं कृतम् ॥ १५.१८.३ ॥

为使般度的世系不致断绝,你们的名声不致消亡,诸人中的雄牛啊,我已将你们救起。

15.18.4

यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः ।
मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया ॥ १५.१८.४ ॥

你们都与因陀罗相等,勇力如同诸神。我这样做,是为了使你们不至于仰仗他人的脸色而生活。

15.18.5

कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः ।
पुनर्वने न दुःखी स्या इति चोद्धरणं कृतम् ॥ १५.१८.५ ॥

护持法者中最优秀的,如因陀罗般的国王啊,我救起你,是为了使你不再在林中忧伤。

15.18.6

नागायुतसमप्राणः ख्यातविक्रमपौरुषः ।
नायं भीमोत्ययं गच्छेदिति चोद्धरणं कृतम् ॥ १५.१८.६ ॥

为使这位生命力如同万头象、勇力与雄风闻名的怖军不致灭亡,我已将你们救起。

15.18.7

भीमसेनादवरजस्तथाऽयं वासवोपमः ।
विजयो नावसीदेत इति चोद्धरणं कृतम् ॥ १५.१८.७ ॥

比毗摩森那年幼、如同因陀罗的这位胜利者(阿周那)不应沮丧——这样提到了。

15.18.8

नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ ।
क्षुधा कथं न सीदेतामिति चोद्धरणं कृतम् ॥ १५.१८.८ ॥

那古拉与萨诃提婆,这二人服从长兄,如何能不因饥饿而受苦?——这样提到了。

15.18.9

इयं च बृहती श्यामा तथाऽत्यायतलोचना ।
वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतं ॥ १५.१८.९ ॥

这位丰满、大眼的黑肤女子在议会大厅的地面上被白白折磨——愿此事不再发生,也有人这样说。

15.18.10

अपेक्षतामेव वो भीम वेपन्तीं कदलीमिव ।
स्त्रीधर्मिणीमरिष्टाङ्गीं तथा द्यूतपराजिताम् ॥ १५.१८.१० ॥

毗摩啊,看看她吧——她像颤抖的芭蕉树,有妇道、肢体吉祥,在赌局中被输掉。

15.18.11

दुःशासनो यदा मौर्ख्याद्दासीवत्पर्यकर्षत ।
तदैव विदितं मह्यं पराभूतमिदं कुलम् ॥ १५.१८.११ ॥

当杜沙萨那出于愚蠢像婢女一样拖拽她时,我便知道这个家族已遭受羞辱。

15.18.12

निषण्णाः कुरवश्चैव तदा मे श्वशुरादयः ।
सा दैवं नाथमिच्छन्ती व्यलपत्कुररी यथा ॥ १५.१८.१२ ॥

那时,我的公公等库鲁人都坐在那里;而她渴望神明般的保护者,像库罗利鸟一样哀号。

15.18.13

केशपक्षे परामृष्टा पापेन् हतबुद्धिना ।
यदा दुःशासनेनैषा तदा मुह्याम्यहं नृपाः ॥ १५.१८.१३ ॥

诸王啊,当那恶人、心智昏乱的难降(Duḥśāsana)抓住我的头发时,我便昏迷了。

15.18.14

युष्मत्तेजोविवृद्ध्यर्तं मया ह्युद्धरणं कृतम् ।
तदानीं विदुलावाक्यैरिति तद्वित्त पुत्रकाः ॥ १५.१८.१४ ॥

孩子们,为了增长你们的光辉,我当时才拯救了家族,那是因为毗度拉的话——这你们是知道的。

15.18.15

कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम ।
पाण्डोरिति मया पुत्रस्तस्मादुद्धरणं कृतम् ॥ १५.१८.१५ ॥

若只凭我的儿子,这王族怎能不灭亡?因此我得到般度之子,从而拯救了家族。

15.18.16

न तस्य पुत्राः पौत्रा वा क्षतवंशस्य पार्थिव ।
लभ्ते सुकृताँल्लोकान्यस्माद्वंशः प्रणश्यति ॥ १५.१८.१६ ॥

国王啊,对于家族已经断绝的人,儿子和孙子都不能得到善行的世界,因为家族会消亡。

15.18.17

भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा ।
महादानानि दत्तानि पीतः सोमो यथाविधि ॥ १५.१८.१७ ॥

孩子们,我的丈夫从前享受了王国的丰厚果实,施行了大布施,并依仪轨饮用了苏摩。

15.18.18

नाहमात्मफलार्थं वै वासुदेवमचूचुदम् ।
विदुलायाः प्रलापैस्तैः पालनार्थं च तत्कृतम् ॥ १५.१८.१८ ॥

我并非为了自己的利益而促使瓦苏提婆;那是因为毗度拉的那些哀叹,也是为了保护家族而做的。

15.18.19

नाहं राज्यफलं पुत्राः कामये पुत्रनिर्जितम् ।
पतिलोकानहं पुण्यान्कामये तपसा पिभो ॥ १५.१८.१९ ॥

诸子啊,我不愿要由儿子们所赢得的王国之果。主啊,我以苦行求取我丈夫的善世界。

15.18.20

श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः ।
तपसा शोषयिष्यामि युधिष्ठिर कलेवरम् ॥ १५.१८.२० ॥

我侍奉住在林中的公婆之后,将以苦行使这身躯枯竭,啊,坚战。

15.18.21

निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह ।
धर्मे ते धीयतां बुद्धिर्मनस्तु महदस्तु च ॥ १५.१८.२१ ॥

库鲁之最啊,你与坚战之弟怖军等人一同回去吧。愿你的智慧安定于法,愿你的心也真正伟大。