摩诃婆罗多 · 章 15.22
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.22.1
नारदस्य तु तद्वाक्यं शशंसुर्द्विजसत्तमाः ।
शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत् ॥ १५.२२.१ ॥
众婆罗门中的最优者称赞了那罗陀的话;然而王仙舍多由波对那罗陀说了这些话。
15.22.2
अहो भगवता श्रद्धा कुरुराजस्य वर्धिता ।
सर्वस्य च जनस्यास्य मम चैव महाद्युते ॥ १५.२२.२ ॥
啊!尊者,您增长了库鲁王的信心,也增长了这所有人的信心,还有我的信心,光辉者啊!
15.22.3
अस्ति काचिद्विवक्षा तु तां मे निगदतः शृणु ।
धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित ॥ १५.२२.३ ॥
但我有一个心愿;请在我说的时候听:关于国王持国,天仙啊,世人所尊敬的人。
15.22.4
सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा ।
युक्तः पश्यसि विप्रर्षे गतयो विविधा नृणाम् ॥ १५.२२.४ ॥
您知晓一切事情的真相;以天眼具足,婆罗门中的仙人啊,您看见人类的种种归趣。
15.22.5
उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम् ।
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने ॥ १५.२२.५ ॥
您向诸王讲述了因陀罗的世界;但是,大仙啊,您没有讲述这位国王的诸世界。
15.22.6
स्थानमप्यस्य नृपतेः श्रोतुमिच्छाम्यहं विभो ।
त्वत्तः कीदृक्कदा चेति तन्ममाख्याहि तत्त्वतः ॥ १५.२२.६ ॥
啊,全能者,我也想听闻这位国王的居所:请如实告诉我它是怎样的,以及在何时。
15.22.7
इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम् ।
व्याजहार सभामध्ये दिव्यदर्शी महातपाः ॥ १५.२२.७ ॥
被如此询问后,具有神圣视力的大苦行者那罗陀在会场中间说出了令所有人心悦的话语。
15.22.8
यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् ।
दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम् ॥ १५.२२.८ ॥
王者仙人啊,我偶然前往舍遮之主因陀罗的集会,在那里见到了人主般度。
15.22.9
तत्रेयं धृतराष्ट्रस्य कथा समभवन्नप ।
तपसो दुष्करस्यास्य यदयं तपते नृपः ॥ १५.२२.९ ॥
国王啊,就在那里谈起了关于持国的这件事:这位国王正在修行这种艰难的苦行。
15.22.10
तत्राहमिदमश्रौषं शक्रस्य वदतः स्वयम् ।
वर्षाणि त्रीणि शिष्टानि राज्ञोस्य परमायुषः ॥ १५.२२.१० ॥
在那里我亲耳听到因陀罗自己说,这位国王的最高寿命只剩三年了。
15.22.11
ततः कुबेरभवनं गान्धारीसहितो नृपः ।
प्रयाता धृतराष्ट्रोऽयं राजराजाभिसत्कृतः ॥ १५.२२.११ ॥
然后这位国王持国与甘陀利一同前往俱毗罗的住所,受到诸王之王的礼遇。
15.22.12
कामगेन विमानेन दिव्याभरणभूषितः ।
ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः ॥ १५.२२.१२ ॥
乘着随意而行的飞车,身披天界饰物,那位仙人之子、大福之人,罪孽已被苦行焚尽。
15.22.13
सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम् ।
स्वच्छन्देनेति धर्मात्मा व्यासस्य तु तपोबलात् ॥ १५.२२.१३ ॥
正法之魂的毗耶娑凭借苦行之力,将自由地游历诸神、乾闼婆与罗刹的世界。
15.22.14
देवगुह्यमिदं प्रीत्या मया वः कथितं महत् ।
भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः ॥ १५.२२.१४ ॥
我出于慈爱将这桩伟大的天神秘密告诉你们,因为你们以所闻为财富,并以苦行烧尽了罪过。
15.22.15
इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः ।
सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः ॥ १५.२२.१५ ॥
众人听了天仙圣哲那甜美的话语,都心怀喜悦,欢欣满足;那位国王也是如此。
15.22.16
एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः ।
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः ॥ १५.२२.१६ ॥
如此以这些故事恭敬地慰问了持国王之后,那些已达成就之境的智者,便随其所愿离去了。