Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.24.1

एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः ।
स्मरन्तो मातरं वीरा बभूवुर्भशदुःखिताः ॥ १५.२४.१ ॥

如此,这些人中之虎、母之子般尊贵的般度五子,念及母亲,虽为英雄,却深感悲痛。

15.24.2

ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन् ।
ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे ॥ १५.२४.२ ॥

昔日常年处理王事者,此时在城中各处都不再办理王事。

15.24.3

प्रविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन ।
सम्भाष्यमाणा अपि ते न किञ्चित्प्रत्यपूजयन् ॥ १५.२४.३ ॥

他们仿佛沉浸于悲伤之中,对任何事都不感欢喜;即使有人与他们说话,他们也毫无回应。

15.24.4

ते स्म वीरा दुराधर्षा गांभीर्ये सागरोपमाः ।
शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन् ॥ १५.२४.४ ॥

那些英雄难以抵挡,深沉如海,但因悲痛而心智受损,仿佛失去了知觉。

15.24.5

अचिन्तयंश्च जननीं ततस्ते पाण्डुनन्दनाः ।
कथं नु वृद्धमिथुनं वहत्यतिकृशा पृथा ॥ १५.२४.५ ॥

于是般度之子们想到了母亲:'如此消瘦的普利塔,如何支撑这对年迈的夫妇呢?'

15.24.6

कथं च स महीपालो हतपुत्रो निराश्रयः ।
पत्न्या सह वसत्येको वने श्वापदसेविते ॥ १५.२४.६ ॥

那位失去了儿子、无所依靠的君王,如今与妻子在野兽出没的森林中独自如何生活呢?

15.24.7

सा च देवी महाभागा गान्धारी हतबान्धवा ।
पतिमन्धं कथं वृद्धमन्वेति विजने वने ॥ १५.२४.७ ॥

那位大福德的天后甘陀利,亲族皆已被杀,她如何跟随她那盲目年迈的丈夫走入荒僻的森林?

15.24.8

एवं तेषां कथयतामौत्सुक्यमभवत्तदा ।
गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया ॥ १५.२४.८ ॥

他们如此交谈之时,心中生出渴念,因想见持国而生起前往之意。

15.24.9

सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत् ।
अहो मे भवतो दृष्टं हृदयं गमनं प्रति। ॥ १५.२४.९ ॥

然而,偕提婆向国王顶礼后说道:“啊!我已看出您的心意倾向于前往。”

15.24.10

न हि त्वां गौरवेणाहमशकं वक्तुमञ्जसा ।
गमनं प्रति राजेन्द्र तदिदं समुपस्थितम् ॥ १५.२४.१० ॥

王中之王啊,因敬重您,我不能直接向您开口;前往之时now已经来到。

15.24.11

दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम् ।
जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् ॥ १५.२४.११ ॥

幸运的是,我将见到那位过着苦行生活的贡蒂,她头发蓬乱,是年迈的女苦行者,被吉舍与迦舍草割得伤痕累累。

15.24.12

प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम् ।
कदानुजननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् ॥ १५.२४.१२ ॥

我将见到她——她曾在宫殿楼阁中长大,享尽无上之乐,曾是诸位幼年小叔的母亲,如今却疲惫不堪,深深悲苦。

15.24.13

अनित्याः खलु मर्त्यानां गतयो भरतर्षभ ।
कुन्ती राजसुता यत्र वसत्यसुखिता वने ॥ १५.२४.१३ ॥

婆罗多族的雄牛啊,凡人的命运确实无常;国王之女俱卢在森林中忧伤地居住。

15.24.14

सहदेववचः श्रुत्वा द्रौपदी योषितां वरा ।
उवाच देवी राजानमभिपूज्याभिनन्द्य च। ॥ १५.२४.१४ ॥

德罗波蒂,女子中最优秀者,听了偕天的话,尊敬并问候了国王,然后说道。

15.24.15

कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा ।
जीवन्त्या ह्यद्य मे प्रीतिर्भविष्यति जनाधिप ॥ १५.२४.१५ ॥

如果普利塔还活着,我何时才能见到那位王后?人主啊,只要她活着,今天我便会感到喜悦。

15.24.16

एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः ।
योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि ॥ १५.२४.१६ ॥

愿你的这份心意永远存在;愿你的心在法中欢喜。人中之王啊,你今天将使我们与福祉相连。

15.24.17

अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम् ।
काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वसुरस्च च ॥ १५.२४.१७ ॥

国王啊,你应知道,站在前面的这些媳妇渴望见到俱卢、甘陀利和公公。

15.24.18

इत्युक्तः स नृपो देव्या द्रौपद्या भरतर्षभ ।
सेनाध्यक्षान्समानाय्य सर्वानिदमुवाच ह ॥ १५.२४.१८ ॥

王后德罗波蒂这样说后,婆罗多族的雄牛啊,国王召集了所有统帅,并对他们说了这些话。

15.24.19

निर्यातयत मे सेनां प्रभूतरथकुञ्जराम् ।
द्रक्ष्यामि वनसंस्थं च धृताष्ट्रं महीपतिम् ॥ १५.२४.१९ ॥

请派出我的大军,车辆与象众繁多;我将去见住在林中的君王持国。

15.24.20

स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे ।
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः ॥ १५.२४.२० ॥

国王对女官之长说:“让我的各种车辆全部备好,还有成千上万的轿子。”

15.24.21

शकटापणवेशाश्च कोशः शिल्पिन एव च ।
निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति ॥ १५.२४.२१ ॥

车辆、市肆、市民、府库与工匠;府库守卫也向库鲁之野的修道林出发。

15.24.22

यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम् ।
अनावृतः सुविहितः स च यातु सुरक्षितः ॥ १५.२४.२२ ॥

凡城中百姓欲见国王者,皆可无阻、有序且受妥善护卫而前往。

15.24.23

सूदाः पौरोगवाश्चैव सर्वं चैव महानसम् ।
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम ॥ १५.२४.२३ ॥

厨师与主厨,以及全部厨房物资;各式饮食,皆用我的车辆运载。

15.24.24

प्रयाणं घुष्यतां चैव श्वोभूत इति माचिरम् ।
क्रियतां पथि चाप्यद्य वेश्मानि विविधानि च। ॥ १५.२४.२४ ॥

宣告明日启程,不得延误;今日便在路上设置各种住所。

15.24.25

एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः ।
श्वोभूते निर्ययौ राजन्सस्त्रीवृद्धपुरःसरः ॥ १५.२४.२५ ॥

般度之子国王如此下令后,次日与诸兄弟一同出发,大王啊,妇女和长者走在前面。

15.24.26

स बहिर्दिवसानेव जनौघं परिपालयन् ।
न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति ॥ १५.२४.२६ ॥

这位国王在外只停留了五天,保护着人群,然后前往森林。