摩诃婆罗多 · 章 18.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
18.1.1
नारायणं नस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः ।
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ॥ १८.१.१ ॥
向那罗延(Nārāyaṇa)和人中至尊那罗(Nara)、女神萨罗室伐底(Sarasvatī)以及毗耶娑(Vyāsa)致敬之后,应当诵出“胜利”(Jaya)。
18.1.2
एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः ।
महर्षिणाऽभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥ १८.१.२ ॥
我想听这些。依我看,你无所不知,并且得到了行事奇特的大仙毗耶娑的允许。
18.1.3
स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः ।
युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ॥ १८.१.३ ॥
抵达天界三界(Triviṣṭapa)之后,请听你的先祖们,以及坚战等人所做之事。
18.1.4
स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः ।
दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ॥ १८.१.४ ॥
抵达天界三界之后,法王坚战看见难敌端坐于宝座之上,身披光辉。
18.1.5
भ्राजमानमिवादित्यं वीरलक्ष्म्याऽभिसंवृतम् ।
देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ॥ १८.१.५ ॥
光辉如太阳,被英雄的威仪环绕,与光明的天神及行善积德的萨底耶众神同在。
18.1.6
ततो युधिष्ठिरो राजा दुर्योधनममर्षितः ।
सहसा सन्निवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥ १८.१.६ ॥
于是国王坚战对难敌心生愤懑,见到难敌身上的那份荣耀,便猛然转身离去。
18.1.7
ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै ।
सहितः कामये लोकाँल्लब्धेनादीर्घदर्शिना ॥ १८.१.७ ॥
(坚战)高声说出那些话:我不愿与杜尔奥达那同得那些由无远见者所获的世界。
18.1.8
यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा ।
हतास्माभिः प्रसह्याजौ किल्ष्टैः पूर्वं महावने ॥ १८.१.८ ॥
为了他,整个大地、朋友和亲族都被我们在战斗中强行杀害——我们曾在大森林中饱受困苦。
18.1.9
द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी ।
पर्याकृष्टाऽनवद्याङ्गी पत्नी नो गुरुसन्निधौ ॥ १८.१.९ ॥
在议会中央,遵循法道、肢体无瑕的般遮罗公主德罗波蒂——我们的妻子——在长者面前被拖拽。
18.1.10
अस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् ।
तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ॥ १८.१.१० ॥
诸神啊,我不愿见苏尤陀那。我想去我兄弟们所在的地方。
18.1.11
नैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव ।
स्वर्गे निवासे राजेन्द्र विरुद्धं चापि नश्यति ॥ १८.१.११ ॥
那罗陀仿佛带笑地对他说:“并非如此。”大王啊,即使是敌意,在天界居所中也会消失。
18.1.12
युधिष्ठिर महाबाहो मैवं वोचः कथञ्चन ।
दुर्योधनं प्रति नृपं शृणु चेदं वचो मम ॥ १८.१.१२ ॥
大臂的坚战啊,你不可以对杜尔奥达那如此说话。大王啊,请听我这句话。
18.1.13
एष दुर्योधनो राजा पूज्यते त्रिदशैः सह ।
सद्भिश्च राजप्रवरैते इमे स्वर्गवासिनः। ॥ १८.१.१३ ॥
此王难敌与诸天、善人及最优秀的诸王一同受到尊崇;他们都是天界的居民。
18.1.14
वीरलोकगतिं प्राप्ता युद्धे हुत्वाऽऽत्मनस्तनुम् ।
यूयं सर्वे सुरसमा येन युद्धेन बाधिताः ॥ १८.१.१४ ॥
你们都在战斗中献出身躯,得以进入英雄之界,与诸神相等;正是那场使你们受难的战斗。
18.1.15
स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् ।
भये महति योऽभीतो बभूव पृथिवीपतिः ॥ १८.१.१५ ॥
正是他以刹帝利之法得到此处;在大恐惧中依然无畏的那位大地之主。
18.1.16
न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम् ।
द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि ॥ १८.१.१६ ॥
孩子,因赌博而造成的事,不应存于心中;德罗波蒂所受的苦难,你也不应去思念。
18.1.17
ये चान्येऽपि परिक्लेशा युष्माकं ज्ञातिकारिताः ।
संग्रामेष्वथवाऽन्यत्र न तान्संस्मर्तुमर्हसि ॥ १८.१.१७ ॥
还有你们因亲族所受的其他苦难,无论在战斗中还是在别处,你们也不应再去回想。
18.1.18
समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै ।
स्वर्गोऽयं नेह वैराणि भन्ति मनुजाधिप ॥ १८.१.१८ ॥
依正理与国王难敌和解吧;人主啊,此处是天界,这里不存留仇怨。
18.1.19
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः ।
भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ॥ १८.१.१९ ॥
那罗陀如此说后,俱卢王坚战(Yudhiṣṭhira)这位智者询问诸弟,说出了这些话。
18.1.20
यदि दुर्योधनस्यैते वीरलोकाः सनातनाः ।
अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः ॥ १८.१.२० ॥
若这些永恒的英雄之界属于难敌(Duryodhana)——那不识法之人、罪人、背叛大地之友的人——
18.1.21
यत्कृते पृथिवी नष्टा सहसा सनरद्विपा ।
वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः ॥ १८.१.२१ ॥
因他之故,大地连同人与象忽然毁灭,而我们想要报复仇怨,也被愤怒焚烧。
18.1.22
ये ते वीरी महात्मानो भ्रातरो मे महाव्रताः ।
सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः।
तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् ॥ १८.१.२२ ॥
我的那些英雄兄弟,伟大的灵魂,持大誓,信守誓言,世上的勇士,说真话之人——他们现在在哪些世界?我想见他们。
18.1.23
कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम् ।
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् ॥ १८.१.२३ ॥
我还想见伟大的迦尔纳(Karṇa)、昆提之子、战中守诺的人,以及德瑞什塔德尤姆纳(Dhṛṣṭadyumna)、萨提吉(Sātyaki)和德瑞什塔德尤姆纳的诸子。
18.1.24
ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः ।
क्वनु ते पार्थिवान्ब्रह्मन्नैतान्पश्यामि नारद ॥ १८.१.२४ ॥
那些依刹帝利之法死于兵器下的国王们在哪里?婆罗门啊,那罗陀啊,我在这里看不到他们。
18.1.25
विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् ।
शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः।
अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ॥ १८.१.२५ ॥
毗罗吒与德鲁帕达,以德里斯塔克图为首的诸人,湿婆坎迪与般遮罗王子,德罗帕蒂所有的儿子,以及不可战胜的阿毗摩豆——那罗陀啊,我想见到他们。