Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 2.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

2.14.1

सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि ।
जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत ॥ २.१४.१ ॥

偉大な王よ、あなたはすべての徳によって王祭(ラージャスーヤ)にふさわしい。バラタの末裔よ、あなたは全てを知っておられるが、私は少し申し上げよう。

2.14.2

जामदग्न्येन रामेण क्षत्रं यदवशेषितम् ।
तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम् ॥ २.१४.२ ॥

ジャマダグニの子ラーマが残した王族の残りから、後に世界に「クシャトラ」と呼ばれるこの階級が生じた。

2.14.3

कृतोऽयं कलुसङ्कल्पः क्षत्रियैर्वसुधाधिप ।
निदेशवाग्भिस्तत्तेह विदितं भरतर्षभ ॥ २.१४.३ ॥

大地の主よ、クシャトリヤたちはこの不浄な決意を固めた。バラタの雄牛よ、それは彼らの命令の言葉によって、ここにあなたに知られている。

2.14.4

ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते ।
राजानः श्रेणिबद्धाश्च तथाऽन्ये क्षत्रिया भुवि ॥ २.१४.४ ॥

人々はアイラ王家とイクシュヴァーク王家の出自を語る。地上の連なった諸王や、その他のクシャトリヤも同様である。

2.14.5

ऐलवंश्याश्च ये राजंस्तथैवेक्ष्वाकवो नृपाः ।
तानि चैकशतं विद्धि कुलानि भरतर्षभ ॥ २.१४.५ ॥

王よ、アイラ王家の者たち、またイクシュヴァーク王家の王たち——それら百の家系を知れ、バラタの雄牛よ。

2.14.6

ययातेस्त्वेव भोजानां विस्तरो गुणतो महान् ।
भजतेऽद्य महाराज विस्तरं सचतुर्दिशम् ॥ २.१४.६ ॥

ヤヤーティの家系においては、バージャ族の広がりは徳によって大きい。偉大な王よ、今日それは四方に及んでいる。

2.14.7

तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते ।
इदानीमेव वै राजञ्जरासन्धो महीपतिः ॥ २.१४.७ ॥

同様に、すべての戦士の王たちは彼らのその威光に仕えている。王よ、ちょうど今、大地の主ジャラーサンダもまたそのように仕えられている。

2.14.8

अभिभूय श्रियं तेषां कुलानामभिषेचितः ।
स्थितो मूर्ध्नि नरेन्द्राणामोजसाऽऽक्रम्य सर्वशः ॥ २.१४.८ ॥

彼らの一族の威光を打ち破り、灌頂を受けて、彼は諸王の頭上に立っている。己の力で彼らを完全に踏みにじって。

2.14.9

सोऽवनीं मध्यमां भुक्त्वा मिथो भेदममन्यत ।
प्रभुर्यस्तु परो राजा यस्मिन्नेकवशे जगत् ॥ २.१४.९ ॥

彼は大地の中央部を享受した後、彼らの間に分裂を生じさせようと考えた。彼こそ至高の主、世界が一つの支配の下にある王である。

2.14.10

स साम्राज्यं महाराज प्राप्तो भवति योगतः ।
तं स राजा जरासन्धं संश्रित्य किल सर्वशः ॥ २.१४.१० ॥

偉大な王よ、彼は力によって帝国の支配権を得た。その王は完全にジャラーサンダに身を寄せ、彼に服従している。

2.14.11

राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् ।
तमेव च महाराज शिष्यवत्समुपस्थितः ॥ २.१४.११ ॥

王よ、威勢あるシシュパーラは軍の将となった。偉大な王よ、彼は弟子のようにその前に控えている。

2.14.12

वक्रः करूषाधिपतिर्मायायोधी महाबलः ।
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ ॥ २.१४.१२ ॥

カルーシャの主ヴァクラは幻術の戦士で大力の者である。さらに二人の大勇猛で高潔な者も彼に身を寄せている。

2.14.13

जरासन्धं महावीर्यं तौ हिंसडिम्बिकावुभौ ।
वक्रदन्तः करूषस्य करभो मेघवाहनः।
मूर्ध्ना दिव्यं मणिं बिभ्रद्यमद्भुतमणिं विदुः ॥ २.१४.१३ ॥

大力のジャラーサンダ、その二人ヒンサとディンビカ、カルーシャのヴァクラダンタ、カラバ、メーガヴァーハナ、頭上に神聖な宝珠を戴く者たち、それは驚異の宝珠として知られる。

2.14.14

मरुं च नरकं चैव शास्ति यो यवनाधिपः ।
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा ॥ २.१४.१४ ॥

マルとナラカをも治めるヤヴァナの主、無限の力を持つ王、西方のヴァルナのごとき者。

2.14.15

भगदत्तो महाराज वृद्धस्तव पितुः सखा ।
स वाचा प्रणतस्तस्य कर्मणा च विशेषतः ॥ २.१४.१५ ॥

大王よ、老いたバガダッタは君の父の友であり、言葉と行いにおいて特に彼に恭順した。

2.14.16

स्नेहबद्धश्च मनसा पितृवद्भक्तिमांस्त्वयि ।
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः प्रति यो नृपः ॥ २.१४.१६ ॥

愛情に結ばれ、心では父のように君に帰依する者、西方で大地の南の果てに向かう王。

2.14.17

मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः ।
स ते सन्नितिमानेकः स्नेहतः शत्रुसूदनः ॥ २.१४.१७ ॥

君の母方の叔父、英雄プルジット、クンティーの血筋を増す者。彼だけが愛情から君のために良き助言をする、敵を滅ぼす者。

2.14.18

जरासन्धं गतस्त्वेव पुरा यो न मया हतः ।
पुरुषोत्तमविज्ञातो योसौ चेदिषु दुर्मतिः ॥ २.१४.१८ ॥

以前ジャラーサンダのもとへ行き、私が殺さなかった者、至高の人(私)に知られた者、チェーディー族の中の邪悪な者。

2.14.19

आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम् ।
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् ॥ २.१४.१९ ॥

この世で自らを最高の人と称し、迷いからいつも私の印を身につける者、それがそのような者である。

2.14.20

वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः ।
पौण्ड्रको वासुदेवेति योसौ लोकेऽभिविश्रुतः ॥ २.१४.२० ॥

ヴァンガ、プンドラ、キラータの中の力ある王パウンドラカ、「ヴァースデーヴァ」の名で世に名高い者、それがその人である。

2.14.21

चतुर्थभाङ्महाराज भोज इन्द्रसखो बली ।
विद्याबलाद्यो व्यजयत्स पाण्ड्यक्रथकैशिकान् ॥ २.१४.२१ ॥

大王よ、インドラの友で力あるボージャ、四分の一を受けた者が、知識の力によってパーンディヤ、クラタ、カイシカを征服した、それがその人である。

2.14.22

भ्राता तस्याकृतिः शूरो जामदग्न्यसमोऽभवत् ।
स भक्तो मागधं राजा भीष्मकः परवीरहा ॥ २.१४.२२ ॥

彼の兄弟は、英雄的な姿でジャマダグニの子に等しく、マガダ王に帰依するビーシュマカ王である——敵の英雄を殺す者。

2.14.23

प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनस्ततः ।
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः ॥ २.१४.२३ ॥

いつも私たちに親切を尽くし、謙虚に仕えてくれる親族がいるのに、彼は私たちに仕えない。彼は不愉快なことに留まっている。

2.14.24

न कुलं सबलं राजन्नभ्यजानात्तथाऽऽत्मनः ।
पश्यमानो यशो दीप्तं जरासन्धमुपस्थितः ॥ २.१४.२४ ॥

王よ、彼は自らの一族も軍勢も認識しなかった。輝く名声を見つめながら、ジャラーサンダの前に進み出た。

2.14.25

उदीच्याश्च तथा भोजाः कुलान्यष्टादश प्रभो ।
जरासन्धभयादेव प्रतीचीं दिशमास्थिताः ॥ २.१४.२५ ॥

主よ、北方のボージャ族と十八の氏族もまた、ジャラーサンダへの恐れのゆえに西方へと身を寄せたのです。

2.14.26

शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः ।
सुस्थलाश्च सुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह ॥ २.१४.२६ ॥

シューラセーナ族、バドラカーラ族、ボーダ族、シャルヴァ族、パタッチャラ族、ススタラ族、スクッタ族、クリンダ族、そしてクンティ族と共に。

2.14.27

शाल्वायनाश्च राजानः सोदर्यानुचरैः सह ।
दक्षिणा ये च पञ्चालाः पूर्वाः कुन्तिषु कोसलाः ॥ २.१४.२७ ॥

シャールヴァーヤナの王たちは兄弟と従者を伴い、南方のパンチャーラ族、そしてクンティ族の中の東方のコーサラ族。

2.14.28

तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः ।
मत्स्याः सन्न्यस्तपादाश्च दक्षिणां दिशमाश्रिताः ॥ २.१४.२८ ॥

同様に、恐怖に苛まれたマツヤ族は北方さえも捨て、南方に身を寄せました。

2.14.29

तथैव सर्वपञ्चाला जरासन्धभायर्दिताः ।
स्वराज्यं सम्परित्यज्य विद्रुताः सर्वतोदिशम् ॥ २.१४.२९ ॥

同様に、ジャラーサンダへの恐れに苦しんだパンチャーラ族はみな、自らの王国を完全に捨て、四方へと逃げ去りました。

2.14.30

अग्रतो ह्यस्य पाञ्चालास्तत्रानीके महात्मनः ।
अनिर्गते सारबले मागधेभ्यो गिरिव्रजात् ॥ २.१४.३० ॥

その偉大な人の軍勢の先頭にはパンチャーラ族がおり、マーガダ族はまだ主力を率いてギリヴラジャから出てはいなかった。

2.14.31

उग्रसेनसुतः कंसः पुरा निर्जित्य बान्धवान् ।
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः ॥ २.१४.३१ ॥

ウグラセーナの子カンサは、かつて親族を征服し、愚かな心で、ブリハドラタの息子の二人の妃のもとへ赴いた。

2.14.32

अस्तिः प्रास्तिश्च नाम्ना ते सहदेवानुजेऽबले ।
बलेन तेन स्वज्ञातीनभिभूय वृथामतिः ॥ २.१४.३२ ॥

アスティとプラスティという、サハデーヴァの二人の弟は弱かった。その力によって、愚かな心のカンサは自らの親族を圧倒した。

2.14.33

श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् ।
भोजराजन्यवृद्धैश्च पीड्यमानैर्दुरात्मना ॥ २.१४.३३ ॥

優位を得たその邪悪な魂の者は、非常に大きな不正を行い、ボージャ族の王族の長老たちも彼によって苦しめられた。

2.14.34

ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता ।
दत्वाऽऽक्रूराय सुतनुं तामाहुकसुतां तदा ॥ २.१४.३४ ॥

親族を守ることを望んだ我々は、そのとき、アーフカの娘である、ほっそりした体の女性をアクルーラに与え、そのように考えた。

2.14.35

सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् ।
हतौ कंससुनामानौ मया रामेण चाप्युत ॥ २.१४.३५ ॥

サンカルシャナを第二として、私は親族の務めを成し遂げた。私とラーマによって、カンサの名を持つ二人の息子も殺された。

2.14.36

हत्वा कंसं तथैवादौ जरासन्धस्य बिभ्यतः ।
मया रामेण चान्यत्र ज्ञातयः परिपालितः ॥ २.१४.३६ ॥

まずカンサを殺し、また怯えたジャラーサンダに関しても、私とラーマによって、ほかの所でも親族は守られた。

2.14.37

भये तु समतिक्रान्ते जरासन्धे समुद्यते ।
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः ॥ २.१४.३७ ॥

しかし恐れが過ぎ去り、ジャラーサンダが立ち上がったとき、王よ、この策は十八の小さな部族によって協議されたのである。

2.14.38

अनारमन्तो निघ्नन्तो महास्त्रैः शत्रुघातिभिः ।
न हन्यामो वयं तस्य त्रिभिर्वर्षशतैर्बलम् ॥ २.१४.३८ ॥

敵を討つ大いなる武器で打ちかかりながらも、喜びなく、三百年の間に彼の軍勢を滅ぼすことはできない。

2.14.39

तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ ।
नामभ्यां हंसडिबिकावशस्त्रनिधनावुभौ ॥ २.१४.३९ ॥

彼の二人、不死の神々に等しく、力ある者の中で最も優れ、ハンサとディンバカと名づけられ、武器では殺されぬ両者。

2.14.40

तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान् ।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥ २.१४.४० ॥

その二人の英雄と、勇猛なジャラーサンダ、三人は三界にも十分である、というのが私の考えである。

2.14.41

न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः ।
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर ॥ २.१४.४१ ॥

我々だけでなく、他の王たちもみな同じ考えであった。賢者の中で最も優れた者よ。

2.14.42

अष्टादश मया तस्य सङ्ग्रामा रोमहर्षणाः ।
दत्ता न च हतो राजञ्जरासन्धो महाबलः ॥ २.१४.४२ ॥

私は彼と身の毛もよだつ十八の戦いをしたが、王よ、大力のジャラーサンダは殺されなかった。

2.14.43

अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः ।
रामेण स हतस्तत्र सङ्ग्रामेऽष्टादशावरे ॥ २.१४.४३ ॥

そのとき、ハンサという名で知られる偉大な王がいた。十八度目かそれ以降の戦いで、彼はラーマによってそこで殺された。

2.14.44

हतो हंस इति प्रोक्तस्य केनापि भारत ।
तच्छ्रुत्वा डिबिको राजन्यमुनाम्भस्यमज्जत ॥ २.१४.४४ ॥

バーラタよ、「ハンサが殺された」と誰かが告げた。王よ、それを聞いてディビカはヤムナーの水に沈んだ。

2.14.45

विना हसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे ।
इत्येतां मतिमास्थाय डिबिको निधनं गतः ॥ २.१४.४५ ॥

「ハンサなしにこの世で生きる勇気はない」——この決意を抱いて、ディビカは死を迎えた。

2.14.46

तथा तु डिबिकं श्रुत्वा हंसः परुपुरञ्जयः ।
प्रपेदे यमुनामेव सोपि तस्यां न्यमज्जत ॥ २.१४.४६ ॥

同じようにディビカの死を聞いて、敵の城を征服するハンサもヤムナーへ赴き、そこに沈んだ。

2.14.47

तौ स राजा जराजन्धः श्रुत्वा च निधनं गतौ ।
पुरं शून्येन मनसा प्रययौ भरतर्षभ ॥ २.१४.४७ ॥

その二人の死を聞いて、王ジャラーサンダは虚しい心で都へ去っていった。バラタの牡牛よ。

2.14.48

ततो वयमित्रघ्न तस्मिन्प्रतिगते नृपे ।
पुनरान्दिनः सर्वे मधुरायां वसामहे ॥ २.१४.४८ ॥

さて、敵を滅ぼす者よ、その王が帰ったのち、我々は皆喜んで再びマトゥラーに住んだ。

2.14.49

यदा त्वभ्येत्य पितरं सा वै राजीवलोचना ।
कंसभार्या जरासन्धं दुहिता मागधं नृपम्।
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता ॥ २.१४.४९ ॥

王中の王よ、蓮華の眼をもつ、カンサの妻、マガダ王ジャラーサンダの娘は、夫の滅亡に苦しみ、父のもとへ行って彼をせき立てるのです。

2.14.50

पतिघ्नं मे जहीत्येवं पुनः पुनररिन्दम ।
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् ॥ २.१४.५० ॥

敵を征する者よ、彼女は繰り返し言います。「夫の殺害者を殺せ!」と。そこで大王よ、私たちは先に協議されていたその策を取り上げたのです。

2.14.51

संस्मरन्तो विमनसो व्यपयाता नराधिप ।
पृथक्त्वेन महाराज सङ्क्षिप्य महतीं श्रियम् ॥ २.१४.५१ ॥

人の主よ、大王よ、私たちは大いなる財を取りまとめ、意気消沈して思い起こしながら、別々に去っていったのです。

2.14.52

पलायामो भयात्तस्य ससुतज्ञातिबान्धवाः ।
इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः ॥ २.१४.५२ ॥

彼を恐れ、息子や親族、身内とともに私たちは逃げることにしたのです。そう決めて、私たちは皆、西の方角へ向かいました。

2.14.53

कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् ।
ततो निवेशं तस्यां च कृतवन्तो वयं नृप ॥ २.१४.५३ ॥

その後、王よ、私たちはレーヴァタによって飾られた麗しい都クシャスターリーに住まいを定めたのです。

2.14.54

तथैव दुर्गसंस्कारं देवैरपि दुरासदम् ।
स्त्रियोऽपि यस्यां युध्येयुः किमु वृष्णिमहारथाः ॥ २.१४.५४ ॥

同様に、神々にさえ攻め難い防壁を築きました。そこでは女性でさえ戦えるほどです。ましてやヴリシュニ族の大戦車兵は言うまでもありません。

2.14.55

तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः ।
आलोच्य गिरिमुख्यं तं मागधं तीर्णमेव च ॥ २.१४.५५ ॥

敵を滅ぼす者よ!我々はそこで、どこからも恐れることなく暮らしている。マガダ王(ジャラーサンダ)のあの主要な山を検討したうえで、我々はそれをも越えたのだ。

2.14.56

माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् ।
एवं वयं जरासन्धादभितः कृतकिल्बिषाः ॥ २.१४.५६ ॥

クルの虎よ!マーダヴァ族(ヤーダヴァ族)は最高の喜びを得た。こうして我々はジャラーサンダによって四方から罪人とされたのだ。

2.14.57

सामर्थ्यवन्तः सम्बन्धाद्गोमन्तं समुपाश्रिताः ।
त्रियोजनायतं सद्म त्रिस्कन्धं योजनावधि ॥ २.१४.५७ ॥

力があり、縁故によって、我々はゴーマンタ山に身を寄せた。その住まいは長さ三ヨージャナ、三層からなり、一ヨージャナにわたって広がっていた。

2.14.58

योजनान्ते शतद्वारं वीरविक्रमतोरणम् ।
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः ॥ २.१४.५८ ॥

一ヨージャナの果てに、百の門と英雄の武勇を示す楼門を備えた都があった。戦いへの渇望に猛り立つ十八人の若い王族戦士によって守られていた。

2.14.59

अष्टादश सहस्राणि भ्रातृणां सन्ति नः कले ।
आहुकस्य शतं पुत्रा एकैकस्त्रिदशावरः ॥ २.१४.५९ ॥

我が一族には一万八千人の兄弟がいる。アーフカには百人の息子がおり、その一人一人は神々に次ぐほどの者である。

2.14.60

चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः ।
अहं च रोहिणेयश्च साम्बः प्रद्युम्न एव च ॥ २.१४.६० ॥

兄弟とともにチャールデーシュナ、チャクラデーヴァ、次にサーティャキ、私自身、ローヒニェーヤ(バララーマ)、サーンバ、そしてプラディユムナもいる。

2.14.61

एवमेते रथाः सप्त राजन्नन्यान्निबोध मे ।
कृतवर्मा ह्यनाधृष्टिः समीकः समिर्तिजयः ॥ २.१४.६१ ॥

王よ、こうして七人の戦車の勇士がいる。では残りの者を私から聞け。クリタヴァルマン、アナドゥルシュティ、サミーカ、サミティンジャヤ。

2.14.62

कङ्कः शङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः ।
प्रद्युम्नश्चानिरुद्धश्च भानुरक्रूरसारणौ ॥ २.१४.६२ ॥

カンカ、シャンク、クンティ——この七人は大戦車の勇士である。さらにプラデュムナ、アニルッダ、バーヌ、アクルーラ、サーラナ。

2.14.63

निशठश्च गदश्चैव सप्त चैते महारथाः ।
विकमो झिल्लिबभ्रू च उद्धवोऽथ विदूरथः ॥ २.१४.६३ ॥

ニシャタとガダ——この七人は大戦車の勇士である。ヴィクラマ、ジャッリバブルー、ウッダヴァ、ヴィドゥラタ。

2.14.64

वसुदेवोग्रसेनौ च सप्तैते मन्त्रिपुङ्गवाः ।
प्रसेनजिच्च यमलो राजराजगुणान्वितः ॥ २.१४.६४ ॥

ヴァスデーヴァとウグラセーナ——この七人は最高の大臣である。プラセーナジット、そして王の王の徳を備えたヤマラ。

2.14.65

स्यमन्तको मणिर्यस्य रुक्मं निस्रुवते बहु ।
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश ॥ २.१४.६५ ॥

そこから大量の黄金が流れ出る宝珠シャマンタカ。アンダカとボージャの息子たち、老王、そしてあなたの十人。

2.14.66

वज्रसंहनना वीरी वीर्यवन्तो महाबलाः ।
स्मरन्तो मध्यमं देशं वृष्णिवीरा गतज्वराः ॥ २.१४.६६ ॥

雷霆のように堅固な体を持つ英雄、ヴリシュニ族の勇士たちは、力強く大いなる力を持ち、中部の国を思いながら、熱病から解放されている。

2.14.67

पाण्डवैश्चापि सततं नाथवन्तो वयं नृप ।
सर्वसम्पद्गुणैः सिद्धे तस्मिन्नेवं व्यवस्थिते ॥ २.१४.६७ ॥

王よ、パーンダヴァたちとともに私たちは常に庇護者を持っています。繁栄のすべての徳によってそれが成就し、このように整えられたとき、

2.14.68

क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत ।
दुर्योधनं शान्तनवं द्रोणं द्रौणायनिं कृपम् ॥ २.१४.६८ ॥

バーラタよ、クシャトリヤの中でお前は自らを皇帝とすべきだ。ドゥルヨーダナ、シャンタヌの子ビーシュマ、ドローナ、ドローナの子アシュヴァッターマン、そしてクリパも。

2.14.69

कर्णं च शिशुपालं च रुक्मिणं च धनुर्धरम् ।
एकलव्यं द्रुमं श्वेतं शैब्यं शकुनिमेव च ॥ २.१४.६९ ॥

カルナ、シシュパーラ、弓手のルクミン、エーカラヴヤ、ドルマ、シュヴェータ、シャイビャ、そしてシャクニも。

2.14.70

एतानजित्वा सङ्ग्रामे कथं शक्नोषि तं क्रतुम् ।
तथैते गौरवेणैव न योत्स्यन्ति नराधिपाः ॥ २.१४.७० ॥

彼らを戦いで征服せずして、どうしてあの祭祀を成し遂げられようか。そしてこれらの人の主らは、ただ敬意のゆえに戦うことはないだろう。

2.14.71

एकस्तत्र बलोन्मत्तः कर्णो वैकर्तनो वृषा ।
योत्स्यते स परामर्षी दिव्यास्रबलगर्वितः ॥ २.१४.७१ ॥

そこでは力に酔った一人、ヴィカルタナの子、雄牛のようなカルナが、神々の武器の力に誇り、恨みを抱いて戦うだろう。

2.14.72

न तु शक्यं जरासन्धे जीवमाने महाबल ।
राजसूयस्त्वयाऽवाप्तुमेषा राजन्मतिर्मम ॥ २.१४.७२ ॥

しかし、大力の者よ、ジャラーサンダが生きている限り、お前がラージャスーヤを得ることは不可能だ。王よ、これが私の考えだ。

2.14.73

तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे ।
कन्दरे पर्वतेन्द्रस्य सिंहेनेव महाद्विपाः ॥ २.१४.७३ ॥

彼は全ての王を征服し、ギリヴラジャに幽閉した。山王の洞窟に獅子が大象を閉じ込めるように。

2.14.74

स हि राजा जरासन्धो यियक्षुर्वसुधाधिपैः ।
अभिषिक्तः स राजन्यैः सहस्रैरुत चाष्टभिः।
महादेवं महात्मानमुमापतिमरिन्दम ॥ २.१४.७४ ॥

ジャラーサンダ王は供犠を行おうと望み、数千の王とさらに八人によって灌頂された。敵を征服する者よ、彼は偉大な魂のウマーの主マハーデーヴァを崇めた。

2.14.75

आराध्य तपसोग्रेण निर्जितास्तेन पार्थिवाः ।
प्रतिज्ञायाश्च पारं स गतः पार्थिवसत्तम ॥ २.१४.७५ ॥

彼は苛烈な苦行で神を崇め、諸王を征服した。王の中の最上の者よ、彼は誓願を成就した。

2.14.76

स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् ।
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् ॥ २.१४.७६ ॥

軍勢を率いて来た王たちを彼は何度も征服し、都に連れてきて縛り、大勢の囚人とした。

2.14.77

वयं चैव महाराज जरासन्धभयात्तदा ।
मधुरा सम्परित्यज्य गता द्वारवतीं पुरीम् ॥ २.१४.७७ ॥

偉大な王よ、ジャラーサンダへの恐れから、我々もそのときマトゥラーを捨ててドヴァーラカー市へ去った。

2.14.78

यदि त्वेनं महाराज यज्ञं प्राप्तुमभीप्ससि ।
यतस्व तेषां मोक्षाय जरासन्धवधाय च ॥ २.१४.७८ ॥

偉大な王よ、もしこの供犠を得ることを望むなら、彼らの解放のために、そしてジャラーサンダを討つために努力せよ。

2.14.79

समारम्भो न शक्योऽयमन्यथा कुरुनन्दन ।
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर ॥ २.१४.७९ ॥

クルの喜び、賢者の中の最良者よ。この始まりは、ラージャスーヤの祭儀を全うすること以外には成し得ない。

2.14.80

इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ ।
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः ॥ २.१४.८० ॥

王よ、これが私の考えです。あるいは無垢なる者よ、もしあなたが別に考えるなら、この状況においてあなた自身が理由をもって決め、私に告げなさい。