Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.31

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.31.1

ततः कुमारविषये श्रेणिमन्तमथाजयत् ।
कोसलाधिपतिं चैव बृहद्बलमरिन्दमः ॥ २.३१.१ ॥

随后,在俱摩罗地区,这位征服敌人者征服了师连曼,也征服了拘萨罗之主大力。

2.31.2

अयोध्यायां तु धर्मज्ञं दीर्घयज्ञं महाबलम् ।
अजयत्णण्डवश्रेष्ठो नातितीव्रेण कर्मणा ॥ २.३१.२ ॥

在阿逾陀,般度族中最优秀者不以过分严酷的手段,征服了通晓法义、大力的长祭。

2.31.3

ततो गोपालकक्षं च सोत्तरानपि कोसलान् ।
मल्लानामधिपं चैव पार्थिवं चाजयत्प्रभुः ॥ २.३१.३ ॥

随后,那位大力之主征服了牧牛人之地、北拘萨罗人、末罗之主以及国王。

2.31.4

ततो हिमवतः पार्श्वं समभ्येत्य जलोद्भवम् ।
सर्वमल्पेन कालेन देशं चक्रे वशं बली ॥ २.३१.४ ॥

随后,他来到喜马拉雅山侧,直抵众水之源,这位强者在短时间内便将整个国土置于掌控之下。

2.31.5

एवं बहुविधान्देशान्विजिग्ये भरतर्षभः ।
भल्लाटमभितो जिग्ये शुक्तिमन्तं च पर्वतम् ॥ २.३१.५ ॥

如此,婆罗多族的雄牛征服了多种地区;他征服了跋罗吒四周,也征服了窣刻提摩山。

2.31.6

पाण्डवः सुमहावीर्यो बलेन बलिनां वरः ।
स काशिराजं समरे सुबाहुमनिवर्तिनम् ॥ २.३१.६ ॥

这位威力极大的般度之子,力量最强者之首,在战场上战胜了不退却的迦尸王苏跋忽。

2.31.7

वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः ।
ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् ॥ २.३१.७ ॥

大臂的毗摩以可怕的勇力使他们臣服。随后,他又从四面八方降服了苏跋舍和众王之主克拉塔。

2.31.8

युध्यमानं बालत्सङ्ख्ये विजिग्ये पाण्डवर्षभः ।
ततो मत्स्यान्महातेजा मलदांश्च महाबलान् ॥ २.३१.८ ॥

般度子中最优者在战斗中击败了交战的敌人。随后,这位大光者征服了摩特耶人和强大的摩罗陀人。

2.31.9

अनघानभयांश्चैव पशुभूमिं च सर्वशः ।
निवृत्य च महाबाहुर्मदधारं महीधरम् ॥ २.३१.९ ॥

他征服了阿那伽人和阿跋耶人,以及四方的牧地。随后这位大臂者折返,前往摩陀陀罗山。

2.31.10

सोमधेयांश्च निर्जित्य प्रत्ययावुत्तरामुखः ।
वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् ॥ २.३१.१० ॥

征服了苏摩提耶人和普罗提耶人之后,面向北方,这位强大的贡蒂之子以力量征服了跋蹉之地。

2.31.11

भर्गाणामधिपं चैव निषादाधिपतिं तथा ।
विजिग्ये भूमिपालांश्च ममिमत्प्रमुखान्बहून् ॥ २.३१.११ ॥

他征服了跋尔伽之主,也征服了尼沙陀之主,以及以摩弥摩特为首的众多地方统治者。

2.31.12

ततो दक्षिणमल्लांश्च भोगवन्तं च पर्वतम् ।
तरसैवाजयद्भीमो नातितीव्रेण कर्मणा ॥ २.३१.१२ ॥

随后,毗摩迅速征服了南方的摩罗人与跋伽凡山,并非以过于酷烈的手段。

2.31.13

शर्मकान्वर्मकांश्चैव व्यजयत्सान्त्वपूर्वकम् ।
वैदेहकं च राजानं जनकं जगतीपतिम् ॥ २.३१.१३ ॥

他先以安抚征服了沙尔马卡与瓦尔马卡,也征服了毗提诃王遮那迦,大地之主。

2.31.14

विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा ।
शकांश्च बर्बराश्चैव अजयच्छद्मपूर्वकम् ॥ २.३१.१४ ॥

人中之虎不费太大力气便征服了;他先以诡计征服了塞人与蛮族。

2.31.15

वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात् ।
किरातानामधिपतीनजयत्सप्त पाण्डवः ॥ २.३१.१५ ॥

住在毗提诃的贡蒂之子般度,从因陀罗山附近征服了吉罗多的七位首领。

2.31.16

ततः सुह्यान्प्रसुह्यांश्च सपक्षानतिवीर्यवान् ।
विजित्य युधि कौन्तेयो मागधानभ्यधाद्बली ॥ २.३१.१६ ॥

随后,威力极大的贡蒂之子在战斗中征服了苏希亚人、普拉苏希亚人及其盟友,然后攻击摩揭陀人。

2.31.17

दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् ।
तैरेव सहितैः सर्वैर्गिरिव्रजमुपाद्रवत् ॥ २.३१.१७ ॥

征服了檀陀、檀陀陀罗及诸地上之王后,他与他们全体一起进攻了吉利婆罗遮。

2.31.18

जारासन्धिं सान्त्वयित्वा करे च विनिवेश्य ह ।
तैरेव सहितैः सर्वैः कर्णमब्यद्रवद्बली ॥ २.३१.१८ ॥

他安抚了迦罗散陀,握住他的手,与他们全体一起,这位强者进攻了迦尔纳。

2.31.19

स कम्पयन्निव महीं बलेन चतुङ्गिणा ।
युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना ॥ २.३१.१९ ॥

他仿佛以四军震动大地,般度诸子中最优秀者与杀敌的迦尔纳交战。

2.31.20

स कर्णं युधि निर्जित्य वशे कृत्वा च भारत ।
ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः ॥ २.३१.२० ॥

婆罗多啊,他在战斗中击败迦尔纳并使其臣服,随后这位勇猛者又征服了居于山中的国王。

2.31.21

अथ मोदागिरौ चैव राजानं बलवत्तरम् ।
पाण्डवो बाहुवीर्येण निजघान महामृधे ॥ २.३१.२१ ॥

随后在摩陀吉里,般度之子凭借臂力,在大战中杀死了那位极其强大的国王。

2.31.22

ततः पुण्ड्राधिपं वीरं वासुदेवं समाययौ ।
इदानीं वृष्णिवीरेण न योत्स्यामीति पौण्ड्रकः ॥ २.३१.२२ ॥

随后,这位英雄、普达罗之主来到婆苏提婆面前说:“我现在不与毗湿尼的英雄交战。”——这是波衍陀迦所说。

2.31.23

कृष्णस्य भुजसंत्रासात्करमाशु ददौ नृपः ।
कौशिकीकच्छनिलयं राजानं च महौजसम् ॥ २.३१.२३ ॥

因畏惧克里希那的臂力,国王立即纳贡;居于考希基沼泽的那位大力之王也同样如此。

2.31.24

उभौ बलभृतौ वीरावुमौ तीव्रपराक्रमौ ।
निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत् ॥ २.३१.२४ ॥

大王啊,那两位勇猛而威力强烈的英雄,在战斗中获胜后,便向盎迦王发动了进攻。

2.31.25

समुद्रसेन निर्जित्य चन्द्रसेनं च पार्थिवम् ।
ताम्रलिप्तं च राजानं कर्वटाधिपतिं तथा ॥ २.३१.२५ ॥

击败了三摩陀罗塞那、旃陀罗塞那王,以及多罗立底王和羯罗跋陀的统治者。

2.31.26

सुह्यानामधिपं चैव ये च सागरवासिनः ।
सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः ॥ २.३१.२६ ॥

婆罗多族的雄牛征服了苏希亚人的主君、居住在海边的人们,以及一切蛮夷部众。

2.31.27

एवं बहुविधान्देशान्विजित्य पवनात्मजः ।
सु तेभ्य उपादाय लौहित्यमगद्बली ॥ २.३१.२७ ॥

如此征服了诸多地域,风之子、大力者从他们那里收取贡品,然后前往罗希提耶河。

2.31.28

स सर्वान्म्लेच्छनृपतीन्सागरानूपवासिनः ।
करमाहारयामास रत्नानि विविधानि च ॥ २.३१.२८ ॥

他令所有蛮夷之王——海岸与沼泽的居民——进献贡赋与种种宝物。

2.31.29

चन्दनागुरुवस्त्राणि मणिमौक्तिककम्बलम् ।
काञ्चनं रजतं चैव विद्रुमं च महाधनम् ॥ २.३१.२९ ॥

檀香、沉香、衣物、宝石、珍珠与毛毯、金、银和珊瑚——皆为巨大财富。

2.31.30

ते कोटीशतसङ्ख्येन कौन्तेयं महता तदा ।
अभ्यवर्षन्महात्मानं धनवर्षेण पाण्डवम् ॥ २.३१.३० ॥

彼时,他们以数百亿(kōṭi)之多的财富如雨般倾注在贡蒂之子、大德的般度之子身上。

2.31.31

इन्द्रप्रस्थमुपागम्य भीमो भीमपराक्रमः ।
निवेदयामास तदा धर्मराजाय तद्धनम् ॥ २.३१.३१ ॥

毗摩以其可怖的勇力抵达因陀罗普拉斯塔,随即将那批财富呈报给法王。