Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.37.1

तत आमन्त्रिता राजन्राजानः सत्कृतास्तदा ।
पुरेभ्यः प्रययुस्तेभ्यो विमानेभ्य इवामराः ॥ २.३७.१ ॥

于是,大王啊,受邀并受到礼遇的诸王从城中离去,犹如天神从天车上走下。

2.37.2

ते वै दिग्भ्यः समापेतुः पार्थिवास्तत्र भारत ।
समादाय महार्हाणि रत्नानि विविधानि च ॥ २.३७.२ ॥

那些国王从四方聚集到那里,婆罗多的后裔啊,带来了珍贵而多样的宝石。

2.37.3

तच्छ्रुत्वा धर्मराजस्य यज्ञे यज्ञविदस्तदा ।
राजानः शतशस्तुष्टैर्मनोभिर्मनुर्षभ ॥ २.३७.३ ॥

听闻法王的祭祀,通晓祭祀的数百位国王满心欢喜地前来,人中之雄啊。

2.37.4

बहु वित्तं समादाय विविधं पार्थिवा ययुः ।
द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ॥ २.३७.४ ॥

带着大量财富和各种礼物,诸王出发了,渴望见到议事厅和般度之子法王。

2.37.5

स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः ।
भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रं च पाण्डवः ॥ २.३७.५ ॥

那位战胜敌人的无种(那古拉)前往象城,邀请了毗湿摩与持国。

2.37.6

प्रयतः प्राञ्जलिर्भूत्वा भारतानानयत्तदा ।
धृतराष्ट्रं च भीष्मं च विदुरं च महामतिम् ॥ २.३७.६ ॥

他恭敬地合掌,把婆罗多族人领来了——持国、毗湿摩,以及聪慧的毗杜罗。

2.37.7

दुर्योधनमुखांश्चैव भ्रातॄन्सर्वानथानयत् ॥ २.३७.७ ॥

他又带来了以难敌为首的所有兄弟。

2.37.8

सत्कृत्यामन्त्रिताः सर्वे ह्याचार्यप्रमुखास्ततः ।
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरस्सराः ॥ २.३७.८ ॥

众人受到尊敬与邀请,以师长为首,婆罗门走在前面,怀着喜悦的心前往祭祀。

2.37.9

धृतराष्ट्रश्च भीष्मश्च विदुरस्च महामतिः ।
दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते।
गान्धारराजः सुबलः शकुनिश्च महाबलः ॥ २.३७.९ ॥

持国王、毗湿摩,以及大智慧的维杜罗,还有以难敌为首的所有兄弟,犍陀罗王苏跋罗,以及大力的沙恭尼。

2.37.10

अचलो वृषकश्चैव कर्णश्च रथिनां वरः ।
तथा शल्यश्च बलवान्बाह्लिकश्च महाबलः ॥ २.३७.१० ॥

阿遮罗与跋栗沙,车战者中最优秀的迦尔纳,还有强大的沙利耶,以及大力的跋利迦。

2.37.11

सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः ।
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ॥ २.३७.११ ॥

苏摩达多,然后是俱卢族的布利,布利室罗婆、沙罗、马嘶、克利巴、德罗纳、信度王以及胜车。

2.37.12

यज्ञसेनः सपुत्रश्च साल्वश्च वसुधाधिपः ।
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महारथः ॥ २.३७.१२ ॥

与其子同行的祭祀军,大地之主沙尔瓦,以及普拉格杰迪沙国王、大车战士婆伽达多。

2.37.13

स तु सर्वैः सह म्लेच्छैः सागरानूपवासिभिः ।
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ॥ २.३७.१३ ॥

他与所有蛮族、海岸与沼泽地的居民、山地诸王,以及大力的国王勃哈德巴拉一同前来。

2.37.14

पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा ।
आकर्षाः कुन्तलाश्चैव गालवाश्चान्ध्रकास्तथा ॥ २.३७.१४ ॥

波溫德罗迦与婆苏提婆,文伽之王与羯陵伽之王;还有阿迦尔莎人、昆塔拉人、迦罗婆人和安陀罗人。

2.37.15

द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा ।
कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः ॥ २.३७.१५ ॥

德罗毗陀人与僧伽罗人,克什米尔之王亦然;大光辉的昆提婆闍,以及大地之主高罗伐诃那。

2.37.16

बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते ।
विराटः सह पुत्राभ्यां मावेल्लश्च महाबलः ॥ २.३७.१६ ॥

巴里迦人及其他勇士诸王,他们全部;毗罗吒与其二子,以及大力的摩韦拉。

2.37.17

राजानो राजपुत्राश्च नानाजनपदेश्वराः ।
शिशुपालो महावीर्यः सह पुत्रेण भारत ॥ २.३७.१७ ॥

诸王与王子,以及众多国土的主君;大勇的希舒巴罗,与其子同来,婆罗多啊。

2.37.18

आगच्छत्पाण्डवेयस्य यज्ञं समरदुर्मदः ।
रामश्चैवानिरुद्धश्च कङ्कश्च सहसारणः ॥ २.३७.१८ ॥

好战而骄傲的诸王前来参加般度之子的祭祀:罗摩、阿尼如达、羯迦与萨哈萨罗那。

2.37.19

गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ।
उल्मुको निशठश्चैव वीरश्चाङ्गावहस्तथा ॥ २.३७.१९ ॥

迦陀、普拉迪优摩那、萨姆巴、勇猛的遮茹提瑟那、乌尔穆卡、尼沙陀,以及英雄安伽婆诃也同样到来。

2.37.20

वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः ।
एते चान्ये च बहवो राजानो मध्यदेशजाः ॥ २.३७.२० ॥

所有的韦利尼族及其他大车战士都聚集而来;这些人以及许多出生于中原的国王也都来了。

2.37.21

आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् ।
ददुस्तेषामावसथान्धर्मराजस्य शासनात् ॥ २.३७.२१ ॥

他们前来参加般度之子的大王祭礼(罗阇苏耶祭),依法王之命,为他们安排了住所。

2.37.22

बहुभक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ।
तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम् ॥ २.३७.२२ ॥

大王啊,在备有许多食物、以池塘和树木装饰的住所中;同样,法之子(正法之子)也礼敬了那些大德之人。

2.37.23

सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ।
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् ॥ २.३७.२३ ॥

诸王受到礼遇,依所指定的,前往住所;那些住所如同凯拉萨山的峰顶,令人愉悦,以珍宝装饰。

2.37.24

सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ।
सुवर्णजालसंवीतान्मणिकुट्टिमभूषितान् ॥ २.३७.२४ ॥

四面环绕着高耸、精工建造的白色围墙,覆以金色的格栅,并以镶嵌宝石的石地装饰。

2.37.25

सुखारोहणसोपानान्महासनपरिच्छदान् ।
स्नग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः ॥ २.३७.२५ ॥

台阶易于登上,备有大座与帷被,覆满花鬘,散发上等沉香的芬芳。

2.37.26

हंसेन्दुवर्णसदृशानायोजनसुदर्शनान् ।
असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः ॥ २.३७.२६ ॥

颜色如天鹅与明月般洁白,一由旬之外即可望见,宽敞无拥挤,门户众多,具备上下各种优良品质。

2.37.27

बहुधातुनिबद्धाङ्गान्हिमवच्छिखरानिव ।
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् ॥ २.३७.२७ ॥

诸王在那些宛如喜马拉雅峰、以多种矿石嵌饰其构件的殿堂中休息之后,便望见了广施布施的坚战。

2.37.28

वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् ।
तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महर्षिभिः।
भ्राजते स्म तदा राजन्नाकपृष्ठं यथाऽमरैः ॥ २.३७.२८ ॥

法王坚战被众多会众所环绕;那个聚集了诸王、婆罗门与大仙的集会,大王啊,那时便如充满天神的天界一般光辉灿烂。