マハーバーラタ · 章 2.42
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.42.1
गाङ्गेयेनैवमुक्तस्तु शिशुपालश्चुकोप तम् ।
क्रुद्धं सुनीथं दृष्ट्वाऽथ सहदेवोऽब्रवीत्तदा ॥ २.४२.१ ॥
ガーンゲーヤがこう言うと、シシュパーラは彼に怒った。そのとき怒ったスニータを見て、サハデーヴァは言った。
2.42.2
मतिपूर्वमिदं सर्वं चेदिराज मया कृतम् ।
तन्मे निगदतस्तत्त्वं कारणादत्र मे शृणु ॥ २.४२.२ ॥
チェーディの王よ、これらすべては私が熟慮の上で行ったものだ。私が語る真実の理由をここで聞け。
2.42.3
स पार्थिवानां सर्वेषां गुरुः कृष्णोऽपरो न हि ।
तस्मादभ्यर्चितोऽस्माभिः सर्वे संमन्तुमर्हथ ॥ २.४२.३ ॥
クリシュナはすべての王の師であり、彼に並ぶ者は他にいない。ゆえに我らは彼を敬った。あなた方皆がそれに同意すべきである。
2.42.4
यो वा सहते कश्चिद्राज्ञां सबलवाहनः ।
क्षिप्रं युद्धाय निर्यातु तस्य मूर्ध्न्याहितं पदम् ॥ २.४२.४ ॥
もし王の中で誰かこれを耐えられない者がいれば、軍勢と乗り物を伴って速やかに戦いに出て来るがよい。その頭上に私の足を置こう。
2.42.5
एवमुक्तो मया हेतुरुत्तरं प्रब्रवीतु मे ।
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् ॥ २.४२.५ ॥
私がこう言ったのだから、その理由について私に答えさせよ。すると、これら賢明な善人たちの中で、誰一人口を開かなかった。
2.42.6
मानिनां बलिनां राज्ञां मध्ये सन्दर्शिते पदे ।
एवमुक्ते सुनीथस्य सहदेवेन केशवे ॥ २.४२.६ ॥
誇り高く力ある王たちの中で、足を置く場所が示された。スニータがこう言うと、サハデーヴァはケーシャヴァについて語った。
2.42.7
स्वभावरक्ते नयने कोपाद्रक्ततरे कृते ।
तस्य कोपं समुद्भूतं ज्ञात्वा भीष्मः प्रतापवान् ॥ २.४२.७ ॥
彼の目は生来赤く、怒りでさらに赤くなった。彼の怒りが湧き上がったのを知り、威光ある毘濕摩は
2.42.8
आचचक्षे पुनस्तस्मै कृष्णस्यैवोत्तरान्गुणान् ।
स सुनीथं समामन्त्र्य तांश्च सर्वान्महीक्षितः ॥ २.४२.८ ॥
彼はまた彼にクリシュナの優れた徳を述べ、スニータとそれら全ての王たちに呼びかけた。
2.42.9
उवाच वदतां श्रेष्ठं इदं मतिमतां वरः ।
सहदेवेन राजानो यदुक्तं केशवं प्रति।
तत्तथेति विजानीध्वं भूयश्चात्र विबोधत ॥ २.४२.९ ॥
話す者の中で最も優れ、賢者の中で第一の彼は言った。「諸王よ、サハデーヴァがケーシャヴァについて述べたことはそのとおりだと知れ。そしてこのことをさらに注意深く理解せよ。」