摩诃婆罗多 · 章 2.43
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.43.1
ततो भीष्मस्य तच्छ्रुत्वा वचः काले युधिष्ठिरः ।
ज्ञापनार्थाय सर्वेषां भीष्मं पुनरथाब्रवीत् ॥ २.४३.१ ॥
于是,尊者毗湿摩的话在适当的时候被坚战听到,为了让在场所有人知晓,他再次对毗湿摩说道。
2.43.2
विस्तरेणास्य देवस्य कर्माणीच्छामि सर्वशः ।
श्रोतुं भगवतस्तानि प्रब्रवीहि पितामह ॥ २.४३.२ ॥
祖父啊,我想完整而详尽地听闻这位神的事迹;请讲述那位尊贵之主的功业。
2.43.3
कर्मणामानुपूर्वा च प्रादुर्भावाश्च ये विभोः ।
यथा च प्रकृतिः कृष्णे तन्मे ब्रूहि पितामह ॥ २.४३.३ ॥
祖父啊,请告诉我那遍在之主的功业次第与他的显现,以及他在克里希那身上的本性是怎样的。
2.43.4
एवमुक्तस्तदा भीष्मः प्रोवाच भरतर्षभ ।
युधिष्ठिरममित्रघ्नं तस्मिन्त्राजसमागमे ॥ २.४३.४ ॥
如此被问之后,婆罗多族的雄牛毗湿摩便在那群王者的集会中,对歼灭敌人的坚战说道。
2.43.5
समक्षं वासुदेवस्य देवस्येव शतक्रतोः ।
कर्माण्यसुकराण्यन्यैराचचक्षे जनाधिप ॥ २.४३.५ ॥
在婆苏提婆面前,犹如在百祭之主因陀罗面前,毗湿摩,人主啊,讲述了那些他人难以完成的功业。
2.43.6
शृण्वतां पार्थिवानां च धर्मराजस्य चान्तिके ।
इदं मतिमतां श्रेष्ठः कृष्णं प्रति विशाम्पते ॥ २.४३.६ ॥
人主啊,在法王身旁,众王聆听之际,智者中的翘楚毗湿摩就克里希那说了这些话。
2.43.7
म्नैवामन्त्र्य राजेन्द्र चेदिराजमरिन्दमम् ।
भीमकर्मा ततो भीष्णो भूयः स इतमब्रवीत् ॥ २.४३.७ ॥
于是以行事可怖著称的毗湿摩,称呼诸王之主、降伏敌人的奇地王,又说了这番话。
2.43.8
करूणामपि राजानं युधिष्ठिरमभाषत ।
वर्तमानामतीतां च शृणु राजन्युधिष्ठिर ॥ २.४३.८ ॥
他又对卡鲁王俱卢之王坚战说道:王啊坚战,请听现在与过去之事。
2.43.9
ईश्वरस्योत्तमस्यैनां कर्मणां गहनां गतिम् ।
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः ॥ २.४३.९ ॥
毗湿摩说:这是至上主之行为深不可测的道路。这位显现于可见形相中的世尊、主宰,本是未显现的。
2.43.10
पुरा नारायणो देवः स्वयम्भूः प्रपितामहः ।
सहस्रशीर्षः पुरुषो ध्रवोऽनन्तः सनातनः ॥ २.४३.१० ॥
往昔,神那罗衍那,自生的曾祖,千头的补卢沙,恒固、无限、永恒。
2.43.11
सहस्रास्यः सहस्राश्चः सहस्रचरणो विभुः ।
सहस्रवाहुः सर्वज्ञो देवो नामसहस्रवान् ॥ २.४३.११ ॥
具千面、千目、千足的遍在之主;具千臂、全知、拥有千名的神。
2.43.12
सहस्रमुकुटो देवो विश्वरूपो महाद्युतिः ।
अनेकवर्णो देवादिरव्यक्ताद्वै परे स्थितः ॥ २.४३.१२ ॥
千冠之神,宇宙之形,大光明,多色,诸神之始;他安住于未显之上。
2.43.13
असृजत्सलिलं पूर्वं स च नारायणः प्रभुः ।
ततस्तु भगवांस्तोये ब्रह्माणमसृजत्स्वयम् ॥ २.४३.१३ ॥
那位主宰那罗延先创造了水;然后这位世尊亲自在水中创造了梵天。
2.43.14
ब्रह्मा चतुर्मुखो लोकान्सर्वांस्तानसृजत्स्वयम् ।
आदिकाले पुरा ह्येवं सर्वलोकस्य चोद्भवः।
पुरा यः प्रलये प्राप्ते नष्टे स्थावरजङ्गमे ॥ २.४३.१४ ॥
四面梵天亲自创造了所有那些世界。在原初之时,往昔,整个世界便如此起源;往昔,当劫末降临、不动与动的众生皆毁灭时,
2.43.15
ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे ।
आभूतसम्प्लवे प्राप्ते प्रलीने प्रकृतौ महान् ॥ २.४३.१५ ॥
当梵天等皆已没入,动与不动的世界已毁灭,众生之洪流来临,大觉没入原初之质时。
2.43.16
एकस्मिष्ठति सर्वात्मा स तु नारायणः प्रभुः ।
नारायणस्य चाङ्गानि सर्वदैवानि भारत ॥ २.४३.१६ ॥
在那唯一之中,万有之我主那罗延安住;婆罗多啊,那罗延的肢体永远是一切天神。
2.43.17
शिरस्तस्य दिवं राजन्नाभिः खं चरणौ मही ।
अश्विनौ कर्णयोर्देवौ चक्षुषी शशिभास्करौ ॥ २.४३.१७ ॥
大王,他的头是天界,肚脐是虚空,双足是大地;二位阿湿文是他的双耳,月亮与太阳是他的双眼。
2.43.18
इन्द्रवैश्वानरौ देवौ मुखं तस्य महात्मनः ।
अन्यानि सर्वदैवानि सर्वाङ्गानि महात्मनः ॥ २.४३.१८ ॥
因陀罗与吠舍婆那二神,是那位大我的面容;其余一切天神,都是那大我的全部肢体。
2.43.19
सर्वं चापि हरौ संस्थं सूत्रे मणिगणा इव ।
आभूतसम्प्लवान्तेऽथ दृष्ट्वा सर्वं तमोन्वितम् ॥ २.४३.१९ ॥
一切都安住于哈里之中,如珠宝串于丝线。在众生毁灭的尽头,见一切皆被黑暗所笼罩。
2.43.20
नारायणो महायोगी सर्वज्ञः परमात्मवान् ।
ब्रह्मभूतस्तदात्मानं ब्रह्मणमसृजत्स्वयम् ॥ २.४३.२० ॥
那罗延,大瑜伽士,全知,具足至上自我,成为梵,于是从自身亲自创造了梵天。
2.43.21
सोऽध्यक्षः सर्वभूतानां प्रभूतप्रभवोऽच्युतः ।
सनत्कुमारं रुद्रं च सप्तर्षीश्च तपोधनात् ॥ २.४३.२१ ॥
他是一切众生的主宰,起源丰盛,不朽者,以苦行之财创造了萨纳特昆玛拉、楼陀罗与七仙人。
2.43.22
सर्वमेवासृजद्ब्रह्मा तथा लोकांस्तथा प्रजाः ।
ते च तद्व्यसृजंस्तत्र प्राप्तकाले युधिष्ठिर ॥ २.४३.२२ ॥
梵天创造了一切,同样也创造了诸世界与众生;他们在时机到来时,便在那里将其释放,俱卢王子啊。
2.43.23
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ।
कल्पानां बहुकोट्यश्चसमतीतास्तु भारत ॥ २.४३.२३ ॥
从那些伟大的灵魂中,永恒的梵以多种方式显现;许多亿个劫已经过去了,婆罗多啊。
2.43.24
आभूतसम्प्लवाश्चैव बहुधाऽद्धाऽपचक्रमुः ।
मन्वन्तरयुगा राजन्सङ्कल्पो भूतसम्प्लवाः ॥ २.४३.२४ ॥
众生的毁灭也确已以多种方式过去;诸摩奴期与诸时代,大王啊,决意与众生的毁灭也都已过去。
2.43.25
चक्रवत्परिवर्तन्ते सर्वं विषमुखं जगत् ।
सृष्ट्वा चतुर्मुखं देवं देवो नारायणः प्रभुः ॥ २.४३.२५ ॥
如轮转动,整个世界始于毒口。创造了四面神之后,主神那罗延。
2.43.26
स लोकानां हितार्थाय क्षीरोदे वसति प्रभुः ।
ब्रह्मा च सर्वलोकानां लोकस्य च पितामहः ॥ २.४३.२६ ॥
那位主为了众世界的利益,居于乳海;梵天是一切世界与此世界的祖父。
2.43.27
ततो नारायणो देवः सर्वस्य प्रपितामहः। ॥ २.४३.२७ ॥
然后,神那罗延是一切的曾祖父。