摩诃婆罗多 · 章 2.61
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.61.1
सूदिता द्वारपालाश्च निशुम्भनरकौ हतौ ।
कृतक्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥ २.६१.१ ॥
守门者被击碎,尼舒姆跋与那罗迦被杀;通往普拉格乔迪沙城的道路再次安全了。
2.61.2
शौरिणा पृथिवीपालास्त्रासिता भरतर्षभ ।
धनुषश्च प्रणादेन पाञ्चजन्यस्वनेन च ॥ २.६१.२ ॥
婆罗多族的雄牛啊!大地的守护王们被叔利(黑天)震慑,被弓弦的响声和般遮那耶贝壳的吼声所惊骇。
2.61.3
मेघप्रख्यैरनेकैश्च दाक्षिणात्याभिसंवृतम् ।
रुक्मिणं त्रासयामास केशवो भरतर्षभ ॥ २.६१.३ ॥
被众多如云的南方战士包围的罗克明,被克沙婆(黑天)震慑了,婆罗多族的雄牛啊。
2.61.4
ततः पर्जन्यघोषेण रथेनादित्यवर्चसा ।
उवाह महिषीं भोज्यामेष चक्रगदाधरः ॥ २.६१.४ ॥
于是,他乘着如雷鸣般轰响、光辉如太阳的战车,手持轮盘与金刚杵,将正妃、博迦雅公主带走了。
2.61.5
जारूथ्य आहृतक्रोधः शिशुपालश्च निर्जितः ।
वक्रश्च स हतः सङ्ख्ये शतधन्वा च क्षत्रियः ॥ २.६१.५ ॥
遮卢提亚被激怒;希舒帕罗被击败;伐迦在战斗中被杀,刹帝利沙陀陀婉也被杀。
2.61.6
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुकः ।
हतः सौभपतिश्चैव साल्वश्च कृतधन्वना ॥ २.६१.६ ॥
因陀罗陀摩在愤怒中被杀;耶婆那与迦舍鲁迦被杀;娑婆之主与沙尔瓦也被克里塔丹婉所杀。
2.61.7
पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः ।
विभज्य पुण्डरीकाक्षो द्युमत्सेनमपोथयत् ॥ २.६१.७ ॥
莲花眼的至上人以轮宝劈开千座山峰,碾碎了德尤玛特塞那。
2.61.8
महेन्द्रशिखरे चैव निमेषान्तरचारिणौ ।
जग्राह भरतश्रेष्ठ वानरावभितश्चरौ ॥ २.६१.८ ॥
婆罗多之最啊,在摩亨德拉峰顶,他抓住了瞬息往来两侧的两只猴子。
2.61.9
इरावत्यां महाभोजो वह्निसूर्यसमो बले ।
गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना ॥ २.६१.९ ॥
在伊罗婆提河畔,与火和太阳力量相当的摩诃跋阇,以及戈帕提和塔拉刻图,被持弓者克里希纳杀死。
2.61.10
अक्षप्रपत्तने राजन्नवहेलनतत्परौ ।
उभौ तावपि कृष्णेन स्वराष्ट्रे विनिपातितौ ॥ २.६१.१० ॥
国王啊,那两人在阿克沙-普拉帕坦那好以轻慢为事,也被克里希纳在他们自己的国度中击倒。
2.61.11
दग्धा वाराणसी तात केशवेन महात्मना ।
पाण्ड्यं पौण्ड्रं च मात्स्यं च कलिङ्गं च जनार्दनः ॥ २.६१.११ ॥
孩子啊,高尚的克沙瓦焚烧了婆罗奈;加纳尔达那(击败了)般荼人、宝陀人、摩差人和羯陵伽人。
2.61.12
जघान सहितान्सर्वानङ्गराजं च माधवः ॥ २.६१.१२ ॥
摩陀婆连同他们的同伴全部杀死,也杀死了盎伽王。
2.61.13
एष चैव शतं हत्वा रथेन क्षत्रपुङ्गवान् ।
गान्धारीमवहत्कृष्णो महिषीं यादवर्षभः ॥ २.६१.१३ ॥
这位以战车杀死百名上等刎士的克里希纳,即耶达瓦族的雄牛,将甘陀利掳去作为他的正妃。
2.61.14
अथ गाण्डीवधन्वानं क्रीडार्थं मधुसूदनः ।
जिगाय भरतश्रेष्ठ कुन्त्याश्च प्रमुखे विभुः ॥ २.६१.१४ ॥
随后,大力的摩豆苏陀那为了游戏,在甘提面前战胜了持甘提婆弓的阿周那,婆罗多族的至尊啊。
2.61.15
द्रौणिं कृपं च कर्णं च भीमसेनं सुयोधनम् ।
युद्धाय सहितान्त्राजञ्जिगाय भरतर्षभ ॥ २.६१.१५ ॥
德罗纳之子、克利帕、迦尔纳、毗摩森那与苏由多那,聚集以备战斗,他尽皆战胜,婆罗多族的雄牛啊。
2.61.16
बभ्रोश्च प्रियमन्विच्छन्नेष चक्रगदाधरः ।
वेणुदारिवृतां भार्यां प्रममाथ युधिष्ठिर ॥ २.६१.१६ ॥
为了使跋卜茹得利,这位持轮持杵者,啊坚战,夺走了被吠努陀利环绕的他的妻子。
2.61.17
पर्याप्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।
वेणुदारिवशे युक्तां जिगाय मधुसूदनः ॥ २.६१.१७ ॥
整个大地,连同马匹、战车与象群,被置于吠努陀利的权势之下,摩豆苏陀那征服了它。
2.61.18
अवाप्य तपसा वीर्यं बलमोजश्च भारत ।
त्रासिताः सगणाः सर्वे बाणेन विबुधाधिपाः ॥ २.६१.१८ ॥
婆罗多的后裔啊,他以苦行获得了勇力、力量与精气,以其箭令所有天神之主连同其众都感到恐惧。
2.61.19
वज्राशनिगदाबामैस्ताडयद्भिरनेकशः ।
तस्य नासीद्रणे मृत्युर्देवैरपि सवासवैः ॥ २.६१.१९ ॥
他虽被雷霆、霹雳、铁锤与手臂多次击打,战场上却无死亡,即便是因陀罗率领的诸神也不能杀他。
2.61.20
सोऽभिभूतश्च कृष्णेन न हतश्च मगात्मना ।
छित्वा बाहुसहस्रं तु गोविन्देन महात्मना ॥ २.६१.२० ॥
他被黑天击败,却未被那具鹿性之人所杀;伟大的戈文达砍断了他的千臂。
2.61.21
एषोऽपीडन्महाबाहुः कंसं च मधुसूदनः ।
अवाप्तं तपसा वीर्यं बलमोजश्च भारत।
कैटभं चातिलोमानि निजघान जनार्दनः ॥ २.६१.२१ ॥
这位臂力强大的摩图苏陀也曾压制干素;婆罗多啊,凭借苦行所得的威力、力量与精气,生主杀死了凯塔巴和那些毛发浓密的恶魔。
2.61.22
जम्बुमैरावतं चैव विरूपं च महायशाः ।
घान भरतश्रेष्ठ शम्बरं चारिमर्दनम् ॥ २.६१.२२ ॥
这位大名声者杀死了占婆、爱拉婆多和毗卢波;婆罗多之最啊,他也杀死了摧敌的商跋罗。
2.61.23
एष भोगवतीं गत्वा वासुकिं भरतर्षभ ।
निर्जित्य पुण्डरीकाक्षो रौक्मिणेयममोचयत् ॥ २.६१.२३ ॥
婆罗多之牛啊,他前往博伽婆提,战胜了婆苏吉,这位莲花眼者救出了茹格弥尼之子。
2.61.24
एवं बहूनि कर्माणि शिशुरेव जनार्दनः ।
कृतवान्पुण्डरीकाक्षः सङ्कर्षणसहायवान् ॥ २.६१.२४ ॥
就这样,生主这位莲花眼者在幼年时,便在桑加尔沙那的辅助下,完成了许多功业。
2.61.25
एवमेषोऽसुराणां चसुराणामपि सर्वशः ।
भयामयकरः कृष्णः सर्वलोकेश्वरः प्रभुः ॥ २.६१.२५ ॥
如此,他对阿修罗与天神皆在各方面带来恐惧与苦难;黑天是诸世界的主宰,大能的君主。
2.61.26
एवमेव महाबाहुः शास्ता सर्वदुरात्मनाम् ।
कृत्वा देवार्थममितं स्वस्थानं प्राप्स्यते पुनः ॥ २.६१.२६ ॥
同样,那位大臂者,惩罚一切邪恶之徒,为诸神完成无量功业后,将再次回到他自己的居所。
2.61.27
एष भोगवतीं पुण्यां रविकान्तिं महायशाः ।
द्वारकामात्मसात्कृत्वा सागरं प्लावयिष्यति ॥ २.६१.२७ ॥
这位大名者将圣城跋伽婆提、罗维坎蒂与德瓦拉卡据为己有,并使大海淹没它们。
2.61.28
सुरासुरमनुष्येषु नाभून्न भविता क्वचित् ।
यस्तामध्यवसद्राजा नान्यत्र मधुसूदनात् ॥ २.६१.२८ ॥
在诸天、阿修罗与人类之中,从来没有、将来也不会有能够占有她的君王,除了摩图苏陀那(黑天)之外。
2.61.29
भ्राजमानास्तु वै सर्वे वृष्ण्यन्धकमहारथाः। ॥ २.६१.२९ ॥
所有伐里希尼与安陀迦的大车战士都确实光辉灿烂。
2.61.30
एवमेव दशार्हाणां विधाय विधिना विधिम् ।
विष्णुर्नारायणः साक्षात्स्वस्थानं प्राप्स्यते ध्रुवम् ॥ २.६१.३० ॥
如此,在为十之族立定制度之后,毗湿奴那罗延本人必定回到他自己的居所。
2.61.31
अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी ।
मोदते भगवान्प्रीतो वालः क्रीडानकैरिव ॥ २.६१.३१ ॥
无量者,无人能命令他,他随意而行,自我掌控,尊贵的主欢喜地享乐,如孩童玩弄玩具。
2.61.32
नैष गर्भत्वमापेदे न योन्यामावसत्प्रभुः ।
आत्मनस्तेजसा कृष्णः सर्वेषां कुरुते गतिम् ॥ २.६१.३२ ॥
此主并未入胎,也未居于任何胎中;黑天以自身的光辉,为一切众生安排归宿。
2.61.33
यथा बुद्बुद उत्थाय तत्रैव प्रविलीयते ।
चराचराणि भूतानि तथा नारायणे सदा ॥ २.६१.३३ ॥
如水泡升起,便在当处消散,一切动与不动的众生,也常常融入那罗延之中。
2.61.34
न प्रमातुं महाबाहुः शक्यो भारत केशवः ।
परं हि परतस्तस्माद्विश्वरूपान्न विद्यते ॥ २.६१.३४ ॥
婆罗多啊,大臂的羯舍婆不可衡量;超越那宇宙之形,再无更高者。
2.61.39
तेजिष्ठं प्रतिपत्स्यन्ते नाकपृष्टं गतासवः ॥ २.६१.३९ ॥
气息已断的人,将到达天堂最光辉的背面。