摩诃婆罗多 · 章 3.122
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.122.1
गयेन यजमानेन सोमेनेह पुरंदरः ।
तर्पित श्रूयते राजन्स तृप्तो मुदमभ्यगात् ॥ ३.१२२.१ ॥
据闻施祭者伽耶在此以苏摩使补兰达罗(因陀罗)满足;大王,他满足后获得了喜悦。
3.122.2
इह देवैः सहेन्द्रैश्च प्रजापतिभिरेव च ।
इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥ ३.१२२.२ ॥
此处诸天与因陀罗及生主们也以种种大祭祀、丰厚的布施而行祭。
3.122.3
आधूर्तरजसश्चेह राजा वज्रधरं प्रभुः ।
तर्पयामास सोमेन हयमेधेषु सप्तसु ॥ ३.१२२.३ ॥
此处这位洗去尘垢、威力强盛的国王,在七次马祭中以苏摩使持金刚者因陀罗满足。
3.122.4
तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्ययम् ।
वानप्रस्थं च भौमं च यद्द्रव्यं नियतं मखे ॥ ३.१२२.४ ॥
在他的七次祭祀中,一切皆为金制;仪式所规定的物品,无论林居之物还是大地所出之物,亦是如此。
3.122.5
चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः स्रुवाः ।
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः ॥ ३.१२२.५ ॥
杯座、祭柱、祭杯、炊锅、器皿、长柄勺与小勺;在这些器物中,他的祭祀里七种用法广为人知。
3.122.6
सप्तैकैकस्ययूपस्य चषालाश्चोपरिश्थिताः ।
तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान्।
स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर ॥ ३.१२२.६ ॥
每根祭柱之上置有七个杯座;在他的祭祀中,诸天与因陀罗亲自竖起了闪耀的金色祭柱。啊,坚战。
3.122.7
तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः ।
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥ ३.१२२.७ ॥
在地主迦耶那些最殊胜的祭祀中,因陀罗因苏摩而欢喜,再生族因布施而欢喜。
3.122.8
प्रसङ्ख्यानानसङ्ख्येयान्प्रत्यगृह्णन्द्विजातयः ॥ ३.१२२.८ ॥
再生族接受了被计算却又无法计算的布施。
3.122.9
सिकता वा यथा लोके यथावा दिवि तारकाः ।
यथा वा वर्षतो धारा असङ्ख्येयाः स्म केनचित् ॥ ३.१२२.९ ॥
如同世间的沙粒、天上的星辰,或降落的雨流,无人能够计数——
3.122.10
तथैव तदसङ्ख्येयं धनं यत्प्रददौ गयः ।
सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु ॥ ३.१२२.१० ॥
同样,大王,迦耶在那七次祭祀中施予诸萨达萨的财富,不可计数。
3.122.11
भवेत्सङ्ख्येयमेतद्धि यदेतत्परिकीर्तितम् ।
न तस्य शक्याः सङ्ख्यातुं दक्षिणादक्षिणावतः ॥ ३.१२२.११ ॥
此处所述或许可以计数,但富有达叉那(布施)的他的施舍无法计数。
3.122.12
हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा ।
ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् ॥ ३.१२२.१२ ॥
他以毗首羯摩所造的金牛,使从各方前来聚集的婆罗门得到满足。
3.122.13
अल्पावशेषा पृथिवी चैत्यैरासीत्समाचिता ।
गयस्य यजमानस्य तत्रतत्र विशांपते ॥ ३.१२२.१३ ॥
大地所剩无几,到处布满了施祭者伽耶的圣祠(支提)。人民之主啊。
3.122.14
स लोकान्प्राप्तवैनैन्द्रान्कर्मणा तेन भरत ।
सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् ॥ ३.१२२.१४ ॥
因那业,他得到了因陀罗的世界,婆罗多啊;在般肖尼河中漱口洗浴的人,将往他的同一世界。
3.122.15
तरस्मात्त्वमत्र राजेनद्र भ्रातृभिः सहितोच्युत ।
उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि ॥ ३.१२२.१५ ॥
因此,王中之王啊,你在此与兄弟们一同漱口洗浴,不坠者啊,护地之主啊,你将脱离罪恶。
3.122.16
स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह ।
वैदूर्यपर्वतं चैव नर्मदां च महानदीम् ॥ ३.१२२.१६ ॥
那位人中之最,与兄弟们在般肖尼河中沐浴后,前往吠琉璃山与大河那尔玛达。
3.122.17
उद्दिश्य पाण्डवश्रेष्ठः स प्रतस्थे महीपतिः ।
समागमत तेजस्वी भ्रातृभिः सहितो नघ ॥ ३.१२२.१७ ॥
那位般度族中最优秀的地上之主出发前往目的地;光辉的他与兄弟们一同抵达,无罪者啊。
3.122.18
तत्रास्य सर्वाण्याचख्यौ लोमशो भगवानृषिः ।
तीर्थानि रमणीयानि पुण्यान्यायतनानि च ॥ ३.१२२.१८ ॥
在那里,尊贵的仙人洛摩沙向他讲解了所有迷人的圣渡口和功德的圣地。
3.122.19
यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह ।
तत्रतत्राददद्वित्तं ब्राह्मणेभ्यः सहस्रशः ॥ ३.१२२.१९ ॥
他依照礼数与心意,与兄弟们一同前行,处处向婆罗门布施财物,以千计数。
3.122.20
देवानामेति कौन्तेय तथा राज्ञां सलोकताम् ।
वेदूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च ॥ ३.१२२.२० ॥
俱盾之子啊,在此可得与诸天神及诸王同处之界;见到吠度力耶山,并入narmadā河。
3.122.21
सन्धिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च ।
एनमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते ॥ ३.१२२.२१ ॥
此乃人中最上者,是特来达时代与德瓦帕拉时代之交界;俱盾之子啊,到达此处者,可脱离一切罪业。
3.122.22
एष शर्यातियज्ञस्य देशस्तात प्रकाशते ।
साक्षाद्यत्रापिबत्सोममश्विभ्यां सह वासवः ॥ ३.१२२.२२ ॥
孩子,此乃沙利耶提祭祀之处,光明显现;此处因陀罗亲与双马童共饮苏摩。
3.122.23
चुकोप भार्गवश्चापि महेन्द्रस् महातपाः ।
संस्तम्भयामास च तं वासवं च्यवनः प्रभुः ॥ ३.१२२.२३ ॥
大苦行者婆利求也对大因陀罗发怒,而有力的遮和那使那位婆薮(因陀罗)僵立不动。
3.122.24
सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान् ।
नासत्यौ च महाभाग कृतवान्सोमपीथिवौ ॥ ३.१२२.२४ ॥
他迎娶了王女苏干雅为妻;大福者啊,他又使那两位那娑帝耶(双马童)获得饮用苏摩之权。
3.122.25
कथं विष्टम्भितस्तेन भगवान्पाकशासनः ।
किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ॥ ३.१२२.२५ ॥
他如何制止了尊贵的帕卡之惩罚者因陀罗?而大苦行者婆employ为何动怒?
3.122.26
नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ ।
एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम ॥ ३.१२२.२६ ॥
婆罗门啊,他如何使那罗萨蒂亚成为饮用苏摩的人?尊者啊,请将所发生的一切如实告诉我。