摩诃婆罗多 · 章 3.128
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.128.1
कथंवीर्यः स राजाऽभूत्सोमको ददतांवरः ।
कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः ॥ ३.१२८.१ ॥
施舍者中最优秀的索摩迦,如何成为如此勇武的国王?我想如实听闻他的功业与威力。
3.128.2
युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः ।
तस्य भार्याशतं राजन्सदृशीनामभूत्तदा ॥ ३.१२८.२ ॥
优地希特啊,曾有一位名叫索摩迦的正法之王。大王,那时他有一百位身份相当的妻子。
3.128.3
स वै यत्नेन महता तासु पुत्रं महीपतिः ।
कंचिन्नासादयामास कालेन महता ह्यपि ॥ ३.१२८.३ ॥
那位君主虽然竭力努力,经过很长时间,也没有从她们中任何一人那里得到一个儿子。
3.128.4
कदाचित्तस् वृद्धस्य यतमानस्य धीमतः ।
जन्तुर्नाम सुतस्तस्य ज्येष्ठायां समजायत ॥ ३.१२८.४ ॥
有一次,那位年老而勤勉的智慧之王,在他的长妻那里生下了一个名叫占图的儿子。
3.128.5
तं जातं मातरः सर्वाः परिवार्य समासते ।
सततं पृष्ठतः कृत्वा कामभोगान्विशांपते ॥ ३.१२८.५ ॥
人主啊,所有的母亲都围坐在那新生的孩子周围,经常把欲乐抛在脑后。
3.128.6
ततः पिपीलिका जन्तुं कदाचिददशत्स्फिचि ।
स दष्टो ह्यरुदद्राजंस्तेन दुःखेन बालकः ॥ ३.१२८.६ ॥
后来有一次,一只蚂蚁咬了孩子占图的臀部。大王,被咬的孩子因那痛楚哭了起来。
3.128.7
ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः ।
प्रवार्य जनतुं सहसा स शब्दस्तुमुलोऽभवत् ॥ ३.१२८.७ ॥
于是所有母亲极度悲痛,放声哭喊;她们急忙去制止那只生物,那声音变成了巨大的喧嚷。
3.128.8
तमार्तनादं सहसा शुश्राव स महीपतिः ।
अमात्यपर्षदो मध्ये उपविष्टः सहर्त्विजा ॥ ३.१२८.८ ॥
国王与祭司们一同坐在大臣议会中间,忽然听到了那凄厉的哀号。
3.128.9
ततः प्रस्थापयामास किमेतदिति पार्थिवः ।
तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति ॥ ३.१२८.९ ॥
于是国王派人去问:“这是怎么回事?”侍臣便把关于王子所发生的一切都向他禀报了。
3.128.10
त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः ।
प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः ॥ ३.१२८.१० ॥
消灭敌人的索摩迦急忙起身,与大臣们一同进入内宫,安慰了他的儿子。
3.128.11
सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः ।
ऋत्विजा सहितो राजन्सहामात्य उपाविशत् ॥ ३.१२८.११ ॥
安慰了那个儿子之后,国王从内宫出来,王啊,与祭司和大臣们一同坐下。
3.128.12
धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् ।
नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता ॥ ३.१२८.१२ ॥
在此只有一个儿子是可耻的!没有儿子反而更好;因为众生常处于苦恼之中,只有一个儿子便只是悲伤。
3.128.13
इदं भार्याशतं ब्रह्मन्परीक्ष्यसदृशं प्रभो ।
पुत्रार्थिना मया वोढं न तासां विद्यते प्रजा ॥ ३.१२८.१३ ॥
婆罗门啊,主啊!我渴望有子,娶了这一百位妻子,她们都经过了考验;然而她们之中无一有后代。
3.128.14
एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम ।
यतमानासु सर्वासु किंनु दुःखमतः परम् ॥ ३.१२८.१४ ॥
我这唯一的儿子不知怎的才降生;她们虽都在努力,还有什么比这更大的痛苦呢?
3.128.15
वयश्च समतीतं मे सभार्यस्यं द्विजोत्तम ।
आसां प्राणाः समायत्ता मम चात्रैकपुत्रके ॥ ३.१२८.१५ ॥
最好的再生者啊,我和我的妻子们都已过了年纪;她们的性命和我的性命都系于这一个儿子。
3.128.16
स्यात्तु कर्म तथा युक्तं येन पुत्रशतं भवेत् ।
महता लघुना वाऽपि कर्मणा दुष्करेण वा ॥ ३.१२८.१६ ॥
愿有某种恰当的作为,可使百子降生,无论它是大事、小事还是难事。
3.128.17
अस्ति चैतादृशं कर्म येन पुत्रशतं भवेत् ।
यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक ॥ ३.१२८.१७ ॥
确有这样一种作为,可使百子降生。如果你能够做到,那么我就告诉你,索摩迦啊。
3.128.18
कार्यं वा यदि वाऽकार्यं येन पुत्रशतं भवेत् ।
कृतमेवेति तद्विद्धि भगवान्प्रब्रवीतु मे ॥ ३.१२८.१८ ॥
无论应当做或不应当做的事,只要能使百子降生,就请视作已经完成;愿尊者告诉我。
3.128.19
यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ ।
ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते ॥ ३.१२८.१९ ॥
国王啊,你在我主持的盛大祭祀中与那生灵一同行祭;那么不久你将生下一百个光辉的儿子。
3.128.20
वपार्या हूयमानायां धूममाघ्राय मातरः ।
ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् ॥ ३.१२८.२० ॥
当脂肪供品投入火中时,你的母亲们嗅到它的烟气,便会生下极有威力的儿子。
3.128.21
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः ।
उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ॥ ३.१२८.२१ ॥
从她那里将再次诞生你自己的儿子;之后,他的身侧将有一个金色的印记。