摩诃婆罗多 · 章 3.139
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.139.1
भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम् ।
समित्कलापमादाय प्रविवेश स्वमाश्रमम् ॥ ३.१३९.१ ॥
贡蒂之子啊,婆罗堕遂完成诵读与日常祭仪,拿起一捆祭薪,走进自己的修行所。
3.139.2
तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठिन्ति पावकाः ।
न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाऽग्नयः ॥ ३.१३९.२ ॥
从前,圣火见到他便都起身迎接;如今他的儿子已被杀,圣火便不再来侍奉他。
3.139.3
वैकृतंत्वग्निहोत्रे स लक्षयित्वा महातपाः ।
तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् ॥ ३.१३९.३ ॥
这位大苦行者发现火祭有所失误,便对坐在那里的盲人首陀罗、家中的看守人说道。
3.139.4
किंनु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम् ।
त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे ॥ ३.१३९.४ ॥
首陀罗啊,为何圣火不欢迎我的到来?你也不像从前了;这修行所里可平安吗?
3.139.5
कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः ।
एतदाचक्ष्व मे शीघ्रं न हि शुद्ध्यति मे मनः ॥ ३.१३९.५ ॥
我那愚笨的儿子不是去找罗磋婆了吗?快告诉我,我的心无法安定。
3.139.6
रैभ्यं यातो नूनमयं पुत्रस्ते मन्दचेतनः ।
तथाहि निहतः शेते राक्षसेन महात्मना ॥ ३.१३९.६ ॥
你这笨拙的儿子一定是去了罗磋婆那里,所以他被那位大德罗刹杀死,倒在地上。
3.139.7
प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा ।
अग्न्यगारं प्रतिद्वारि मया दोर्भ्यां निवारितः ॥ ३.१३९.७ ॥
那罗刹手持长矛拖拽他时,我用双臂在火室门口将他拦住。
3.139.8
ततः स विहताशोऽत्रजलकामोशुचिर्ध्रुवम् ।
निहतः सोऽतिवेगेन शूलहस्तेन रक्षसा ॥ ३.१३९.८ ॥
于是他希望破灭,在此渴求水,不洁,必然被杀;手持长矛的罗刹以极大的力量杀了他。
3.139.9
भरद्वाजस्तु तच्छ्रुत्वा शूद्रस्य विप्रियं महत् ।
गतासुं पुत्रमादाय विललाप सुदुःखितः ॥ ३.१३९.९ ॥
婆罗堕阇听到首陀罗带来的那个巨大的噩耗,抱起已死去的儿子,极度悲伤地哀哭。
3.139.10
रब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः ।
द्विजानामनधीता वै वेदाः संप्रतिभान्त्विति ॥ ३.१३९.१० ॥
你不是为了婆罗门而修苦行吗?为的是让二生者未曾诵习的吠陀得以彰显。
3.139.11
तथा कल्याणशीलस्त्वं ब्राह्मणेषुमहात्मसु ।
अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान् ॥ ३.१३९.११ ॥
同样,你品行善良,对于德高的婆罗门和一切众生并无过失,却变得残酷起来。
3.139.12
प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् ।
गतवानेव तं क्षुद्रं कालान्तकयमोपमम् ॥ ३.१३९.१२ ॥
孩子啊,我曾禁止你去看羅毗耶的居所,你却依然前往那个如同死亡与阎摩一般的卑劣之人那里。
3.139.13
यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम् ।
गतवानेव कोपस्य वशं परमदुर्मतिः ॥ ३.१३९.१३ ॥
那位大光辉者,明知这是老人唯一的儿子,却极度愚昧,屈服于愤怒之下而离去。
3.139.14
पुत्रशोकमनुप्राप्त एष रैभ्यस्य कर्मणा ।
त्यक्ष्यामि त्वामृतेपुत्र प्राणानिष्टतमान्भुवि ॥ ३.१३९.१४ ॥
因罗毗耶的行为,此人陷入丧子之痛。儿啊,没有你,我将在这世上舍弃我最珍爱的生命之气。
3.139.15
यथाऽहं पुत्रशोकेन देहं त्यक्ष्यामि किल्विषी ।
तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम् ॥ ३.१३९.१५ ॥
正如我这有罪之人因丧子之痛而舍弃身躯,愿我的长子也迅速杀死无辜的罗毗耶。
3.139.16
सुखिनो वै नरा येषां जाया पुत्रो न विद्यते ।
ये पुत्रशोकमप्राप्य विचरन्ति यथासुखम् ॥ ३.१३९.१६ ॥
确实幸福的是那些没有妻子也没有儿子的人;他们未曾遭遇丧子之痛,随心所欲地漫游。
3.139.17
ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः ।
शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः ॥ ३.१३९.१७ ॥
然而,那些因丧子之痛而心神大乱、在悲伤中咒骂亲爱朋友的人,还有谁比他们更有罪呢?
3.139.18
परासुश्च सुतो दृष्टः शप्तश्चैष्टः सखा मया ।
ईदृशीमापदं कोत्र द्वितीयोऽनुविष्यति ॥ ३.१३९.१८ ॥
我看见儿子已经没有了气息,我又诅咒了亲爱的朋友。在如此灾祸之中,还有谁会在这里紧随其后呢?
3.139.19
विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम् ।
सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् ॥ ३.१३९.१९ ॥
薄伽陀婆阇如此多方哀悼之后,焚烧了他的儿子;随后,他走入了燃烧正旺的火中。