Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.14.1

असान्निध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन ।
क्व चासीद्विप्रवासस्ते किंचाकार्षीः प्रवासतः ॥ ३.१४.१ ॥

克利须那啊,婆利什尼族的欢喜,你为何离开我们?你在外游历之地在何处?那段旅途中你做了什么?

3.14.2

साल्वस्य नगरं सौभं गतोऽहं भरतर्षभ ।
निहन्तुं कौरवश्रेष्ठ तत्र मे शृणु कारणम् ॥ ३.१४.२ ॥

婆罗多之雄啊,我前往沙尔瓦之城娑陂,为的是在那里杀死他。考拉瓦之最上者啊,听我说其中的缘由。

3.14.3

महातेजा महांवाहुर्यः स राजा महायशाः ।
दमघोषात्मजो वीरः शिशुपालो मया हतः ॥ ३.१४.३ ॥

那位光辉伟大、臂力强大、名声显赫的国王,达摩高沙之子英勇的希舒帕拉,被我杀死了。

3.14.4

यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति ।
स रोषवशमापन्नो नामृष्यत दुरात्मवान् ॥ ३.१४.४ ॥

婆罗多之最上者啊,在你的王祭大典上,当向你致敬时,那心怀恶念的人被愤怒所控,无法忍受。

3.14.5

श्रुत्वा तं निहतं साल्वस्तीव्ररोषसमन्वितः ।
उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ॥ ३.१४.५ ॥

沙尔瓦听闻他被杀,怒火中烧,趁我不在,婆罗多啊,便进攻了空无一人的德瓦拉卡。

3.14.6

स तत्र युद्धमकरोद्बालकैर्वृष्णिपुङ्गवैः ।
निवृत्तः कामगं सौभमारुह्यैव नृशंसवत् ॥ ३.१४.६ ॥

他在那里与婆利什尼族的年轻英雄们作战;随后像残忍之人那样转身,登上随意而行的娑陂飞城离去。

3.14.7

चिरजीवी नृपः सोऽपि प्रसादात्पद्मजन्मनः ।
ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा।
पुरोद्यानानि सर्वाणि भेदयामास दुर्भतिः ॥ ३.१४.७ ॥

这位国王也因莲花所生的梵天的恩惠而长寿。于是这个恶念之人杀死了许多那些旃尼族的英雄少年,并毁坏了城中所有的花园。

3.14.8

उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः ।
वासुदेवः स मन्दात्मा वसुदेवसुतो गतः ॥ ३.१४.८ ॥

他又说道:“啊,大臂者,那位旃尼族中最卑劣的、愚钝的婆苏提婆之子婆苏提婆,去了哪里?”

3.14.9

तस्य युद्धार्थिनो दर्पं युद्धेनाशयिताऽस्म्यहम् ।
आनर्ताः सत्यमाख्यात तत्र गन्ताऽस्मि यत्र सः ॥ ३.१४.९ ॥

我要在战斗中粉碎那个求战者的傲慢。啊,安纳尔塔人,我如实告诉你们,他在哪里,我就去哪里。

3.14.10

तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् ।
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे । ॥ ३.१४.१० ॥

杀死他之后,那个灭除钦萨与开希的人,我便会回来。不杀他我决不回来;我以真实起誓,手触我的兵器。

3.14.11

क्वासौ क्वासाविति पुनस्तत्रतत्र प्रधावति ।
मया सह रणे योद्धुं काङ्क्षमाणः स सौभराट् ॥ ३.१४.११ ॥

“他在哪里?他在哪里?”他这样一再呼喊,四处奔跑。那个想要与我在战场上交战的人,正是娑菩国的君主。

3.14.12

अद्यतं पापकर्माणं क्षुद्रं विश्वासघातिनम् ।
शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् ॥ ३.१४.१२ ॥

今天,因愤怒于希舒巴拉被杀,我要把那个作恶的、卑劣的背信者送往阎摩的住所。

3.14.13

मम पापस्वभावेन भ्राता येन निपातितः ।
शिशुपालो महीपालस्तं वधिष्ये महीतले ॥ ३.१४.१३ ॥

他以邪恶之性杀害了我的兄弟,我将在这大地上杀死国王湿舍波罗。

3.14.14

भ्राता बालश्च राजा च न च संग्रामकोविदः ।
प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम्। ॥ ३.१४.१४ ॥

我的兄弟年少为王,不善战斗;那位疏忽的英雄被杀。那位遮那陀那,我将杀之。

3.14.15

एकमादि महाराज विलप्यदिवमास्थितः ।
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ॥ ३.१४.१५ ॥

大王,他先哀号着升入天空;随后乘着随意飞行的娑缚,哦,俱卢之喜,他向我投掷而来。

3.14.16

तमश्रौषमहं गत्वा यथा वृत्तः स दुर्मतिः ।
मयि कौरव्य दुष्टात्मा मार्तिकावतको नृपः ॥ ३.१४.१६ ॥

哦,俱卢族人,我前去听闻那位恶意的国王如何对待我;他是心性邪恶的马提卡瓦陀王。

3.14.17

ततोऽहमपि कौरव्य रोषव्याकुललोचनः ।
निश्चित्य मनसा राजन्वधायास्य मनो दधे ॥ ३.१४.१७ ॥

哦,俱卢族人,那时我也因愤怒而双眼迷乱;大王,我在心中作出决定,将心意专注于杀他。

3.14.18

आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव ।
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ॥ ३.१४.१८ ॥

哦,俱卢族人,他在阿那多人中造成的毁灭,他对我的侮辱,以及那作恶者膨胀的傲慢。

3.14.19

ततः सौभवधायाहं प्रतस्थे पृथिवीपते ।
स मया सागरावर्ते दृष्ट आसीत्परीप्सता ॥ ३.१४.१९ ॥

于是,大地之主啊,我出发去诛杀绍婆。寻找他时,我在海洋的漩涡中看见了他。

3.14.20

ततः प्रध्माप्य जलजं पाञ्चजन्यमहे नृप ।
आहूय साल्वं समरे युद्धाय समवस्थितः ॥ ३.१४.२० ॥

于是,国王啊,我吹响了般遮遮耶海螺,向沙尔瓦挑战于战场,并准备好与之交战。

3.14.21

तन्मुहूर्तमभूद्युद्धं तत्र मे दानवैः सह ।
शवीभूताश्च मे सर्वे भूतले च निपातिताः ॥ ३.१४.२१ ॥

在那里,我与檀那婆展开了一场只持续片刻的战斗,他们全都化为尸骸,被击倒在地。

3.14.22

एतत्कार्यं महाबाहो येनाहं नागमं तदा ।
श्रुत्वैव हास्तिनपुरे द्यूतं चाविनयोत्थितम्।
द्रुतमागतवान्युष्मान्द्रष्टुकामः सुदुःखितान् ॥ ३.१४.२२ ॥

大臂者啊,正是这件事使我当时未能前来。我在象城听闻因无礼而起的赌博,又想看看你们这些极其悲痛的人,便迅速赶来了。