Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.141

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.141.1

उशीरबीजं मैनाकं गिरिं श्वेतं च भारत ।
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव ॥ ३.१४१.१ ॥

婆罗多啊,你已经越过了乌希罗比惹、摩意那迦山、白山,还有迦罗舍罗山,俱卢之子,国王啊。

3.141.2

एषा गङ्गा सप्तविधा राजते भरतर्षभ ।
स्थानं विरजसं पुण्यं यत्राग्निर्नित्यमिध्यते ॥ ३.१४१.२ ॥

婆罗多族中的雄牛啊,此恒河以七种形态闪耀;那是一处圣洁无尘之地,那里的圣火永不熄灭。

3.141.3

एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमद्भुतम् ।
समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ ॥ ३.१४१.३ ॥

此奇妙之处,凡人如今不可得见;请以无乱之心入定,你们便能看见这些圣渡口。

3.141.4

एतद्द्रक्ष्यसि देवानामाक्रीडं च रणाङ्कितम् ।
अतिक्रान्तोसि कौन्तेय कालशैलं च पर्वतम् ॥ ३.१४१.४ ॥

你将看见诸神的游乐之地,那里刻有战争的痕迹;俱卢之子啊,你已越过了迦罗舍罗山。

3.141.5

श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् ।
यत्र माणिवरो यक्षः कुबेरश्चैव यक्षराट् ॥ ३.१४१.५ ॥

我们将进入白山与曼陀罗山,那里住着夜叉摩尼婆罗与夜叉王俱毗罗。

3.141.6

अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रगामिनः ।
तथा किंपुरुषा राजन्यक्षाश्चैव चतुर्गुणाः ॥ ३.१४१.६ ॥

国王啊,有八万八千名行动迅捷的乾闼婆,同样还有紧那罗;夜叉的数目则是它们的四倍。

3.141.7

अनेकरूपसंस्थाना नानाप्रहरणाश्च ते ।
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ॥ ३.१४१.७ ॥

他们形貌各异,持各种兵器;人中之最,他们侍奉药叉之主摩尼跋陀罗。

3.141.8

तेषामृद्धिरतीवात्र गतौ वायुसमाश्च ते ।
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ॥ ३.१४१.८ ॥

他们在此的威力极大,行动之速如风;人中之最,他们侍奉药叉之主摩尼跋陀罗。

3.141.9

तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः ।
दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु ॥ ३.१४१.९ ॥

那些山岳被那些强大的罗刹守护,难以接近。亲爱的般度之子,请坚定最高的决心。

3.141.10

कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः ।
तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव ॥ ३.१४१.१० ॥

还有俱毗罗的大臣,以及其他凶猛和友善的罗刹;贡蒂之子,我们将与他们相遇。请为勇武保持警觉。

3.141.11

कैलासः पर्वतो राजन्पड्योजनशतोच्छ्रितः ।
यत्रदेवाः समायान्ति विशाला यत्र भारत ॥ ३.१४१.११ ॥

大王,凯拉萨山高六百由旬,广大的诸天在那里聚集,婆罗多之子。

3.141.12

असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिन्नराः ।
नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति ॥ ३.१४१.१२ ॥

贡蒂之子,前往俱毗罗居所的药叉、罗刹、紧那罗、那伽、金翅鸟和乾闼婆,数量不可胜计。

3.141.13

तान्विगाहस्व पार्थाद्य तपसा च दमेन च ।
रक्ष्यमाणो मया राजन्भीमसेनबलेन च ॥ ३.१४१.१३ ॥

普利塔之子啊,今日以苦行与克制投入其中吧,大王,有我与婆罗多之力的护佑。

3.141.14

स्वस्ति ते वरुणो राजा यमश्च समितिंजयः ।
गङ्गा च यमुना चैव पर्वताश्च दिशन्तु ते ॥ ३.१४१.१४ ॥

愿国王伐楼那与战场上的常胜者阎摩赐你平安;愿恒河、阎牟那河与群山也赐你吉祥。

3.141.15

मरुतश्च सहाश्विभ्यां सरितश्च सरांसि च ।
स्वस्ति देवासुरेभ्यश्च वसुभ्यश् महाद्युते ॥ ३.१४१.१५ ॥

愿摩录多与双马童、江河与湖泊赐你平安;愿来自诸天与阿修罗、以及众婆苏的吉祥降于你,光辉者啊。

3.141.16

इन्द्रस्य जाम्बूनदपर्वताद्वै ।
शृणोमि घोषं तव देवि गङ्गे।
गोपाययेमं सुभगे गिरिभ्यः ।
सर्वाजमीढापचितं नरेन्द्रम् ॥ ३.१४१.१६ ॥

我从因陀罗的赡部那达山听到你的声音,女神恒河。吉祥者啊,请从群山中守护这位被阿遮弥荼后裔所尊崇的人中之王。

3.141.17

ददस्व शर्म प्रविविक्षतोऽस्य ।
शैलानिमाञ्छैलसुते नृपस्य।
शिवप्रदा सर्वसरित्प्रधाने ।
स भ्रातृकस्येह युधिष्ठिरस्य। ॥ ३.१४१.१७ ॥

山之女啊,请庇护这位进入群山的国王;赐福者啊,诸河之首,也请在此庇护与兄弟同在的坚战。

3.141.18

अपूर्वोऽयं संभ्रमो लोमशस्य ।
कृष्णां च सर्वे रक्षत मा प्रमादः।
देशो ह्ययं दुर्गतमो मतोऽस्य ।
तस्मात्परं शौचमिहाचरध्वम् ॥ ३.१४१.१८ ॥

洛摩舍的这种惊慌是前所未有的。你们大家都要保护克利须那,不可疏忽。此地被认为最难通行,因此在此应当奉行最高的清净。

3.141.19

ततोऽब्रवीद्भीममुदारवीर्यं ।
कृष्णां यत्तः पालय भीमसेन।
शून्येऽर्जुनेऽसन्निहिते च तात ।
त्वामेव कृष्णा भजते भयेषु ॥ ३.१४१.१९ ॥

于是他对具有崇高勇力的怖军说道:「怖军啊,你要小心守护黑公主。阿周那不在身边时,亲爱的孩子,黑公主在危难中只依靠你。」

3.141.20

ततो महात्मां स यमौ समेत्य ।
मूर्धन्युपाघ्राय विमृज्यगात्रे।
उवाच तौ बाष्पकलं स राजा ।
मा बैष्टमागच्छतमप्रमत्तौ ॥ ३.१४१.२० ॥

于是那位大德之王走到双生子身边,吻了他们的头,抚摸他们的身体,并以哽咽的声音对他们说:「不要害怕;你们二人小心地回来吧。」