Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.154

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.154.1

स गत्वानलिनीं रम्यां राक्षसैरभिरक्षिताम् ।
कैलासशिरे रम्ये ददर्श शुभकानने ॥ ३.१५४.१ ॥

他来到那座被罗刹守护的美丽莲池,在吉祥林中、凯拉萨山美丽的峰顶上见到了它。

3.154.2

कुबेरभुवनाभ्याशे जातां पर्वतनिर्झरैः ।
सुरम्यां विपुलच्छायां नानाद्रुमलताकुलाम् ॥ ३.१५४.२ ॥

靠近俱毗罗的居所,由山间溪流滋养,极其美丽,树荫宽广,布满众多树木和藤蔓。

3.154.3

हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम् ।
नानापक्षिजनाकीर्णां सूपतीर्थामकर्दमाम् ॥ ३.१५४.३ ॥

被绿色莲花覆盖,神圣,有金色莲花,聚集着各种鸟类,岸边平坦,没有淤泥。

3.154.4

अतीव रम्यां सुजलां जातां पर्वतसानुषु ।
विचित्रभूतां लोकस्य शुभामद्भुतदर्शनाम् ॥ ३.१५४.४ ॥

极其美丽,水质甘美,生长在山坡上,形态奇异,对世界吉祥,观之令人惊叹。

3.154.5

तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् ।
ददर्शविमलं तोयं पिबंश्च बहु पाण्डवः ॥ ३.१५४.५ ॥

那里,昆蒂之子般度族人看见了如甘露般清凉、轻盈、吉祥、澄澈的水,并大量饮用。

3.154.6

तां तु कपुष्करिणीं रम्यां दिव्यसौगन्धिकावृताम् ।
जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः ॥ ३.१५४.६ ॥

那座美丽的莲池,周围环绕着神圣的萨乌冈迪卡花,被极其芬芳的金色莲花覆盖。

3.154.7

वैडूर्यवरनालैश्च बहुचित्रैर्मनोरमैः ।
हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः ॥ ३.१५४.७ ॥

茎杆是上好的吠琉璃宝石,色彩斑斓,令人心醉,被天鹅和迦兰陀鸭搅动,洒落纯净的花粉。

3.154.8

आक्रीडं राजराजस् कुबेरस्य महात्मनः ।
गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् ॥ ३.१५४.८ ॥

大力的王中之王俱毗罗(Kubera)的游乐之地,备受乾闼婆、阿普萨拉斯和诸天的崇奉。

3.154.9

सेवितामृषिभिर्दिव्यैर्यक्षैः किंपुरुषैस्तथा ।
राक्षसैः किंनरैश्चापि गुप्तां वैश्रवणेन च ॥ ३.१५४.९ ॥

为神圣的仙人、夜叉、紧那罗、罗刹与紧那罗所常来,并由毗沙罗门(俱毗罗)守护。

3.154.10

तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाहलः ।
बभूव परमप्रीतो दिव्यंप्रेक्ष्य सरो महत् ॥ ३.१५४.१० ॥

俱胝子(Kunti之子)大力的Bhīmasena一见此处,便极为欢喜,望见这片神奇的大湖,心中甚为喜悦。

3.154.11

तच्च क्रोवशा नाम राक्षसा राजशासनात् ।
रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः ॥ ३.१५४.११ ॥

奉国王之命,名为“愤怒者(Krodhaśā)”的罗刹守护此湖,数以十万计,配备各色兵器与铠甲。

3.154.12

ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् ।
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् ॥ ३.१५४.१२ ॥

这些罗刹一见俱胝之子——身披鹿皮、臂戴金钏、威力可怖的英雄Bhīma——便向他扑去。

3.154.13

सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम् ।
पुष्करप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः ॥ ३.१५४.१३ ॥

他们看见他带着武器、佩着剑、无所畏惧、降伏敌人地走向普什卡湖,便彼此大声呼喊起来。

3.154.14

अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः ।
यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ ॥ ३.१५४.१४ ॥

这位人中之虎,带着武器,身穿鹿皮,来到此地,想要做某事;你们应当在此询问他所为何事。

3.154.15

ततः सर्वे महाबाहुं समासाद्यवृकोदरम् ।
तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि ॥ ३.१५४.१५ ॥

于是他们都走近大臂的狼腹(Vṛkodara),问这位光彩照人的人:“你是谁?你应当说明自己的身份。”

3.154.16

मुनिवेषधरश्चैव सायुधश्चैव लक्ष्यसे ।
यदर्थमाभिसंप्राप्तस्तदाचक्ष्यमहामते ॥ ३.१५४.१६ ॥

你虽穿着苦行者的衣装,却看似带着武器。请告诉我们你来此的目的,啊,大智之人!