摩诃婆罗多 · 章 3.155
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.155.1
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः ।
विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ॥ ३.१५५.१ ॥
我是般度之子毗摩扇那,生于法王之后。与兄弟们一同来到毗舍罗棘林,诸罗刹啊。
3.155.2
अपश्यत्तत्रपाञ्चाली सौगन्धिकमनुत्तमम् ।
अनिलोढमितो नूनं सा बहूनि परीप्सति ॥ ३.१५५.२ ॥
那里,般遮罗公主看见了无上的香莲,它被风从此处吹走了;她必定还想得到许多这样的花。
3.155.3
तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् ।
पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ॥ ३.१५५.३ ॥
为了那位肢体无瑕的法妻的欢心,我来此采花;请你们知道,夜行者们。
3.155.4
आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ ।
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मणा ॥ ३.१५५.४ ॥
此乐园是俱毗罗所钟爱的,人中雄杰啊。凡人之身在此是不可能嬉游的。
3.155.5
देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर ।
आमन्त्र्य यक्षप्रवरं पिबन्ति च हरन्ति च ॥ ३.१५५.५ ॥
此处,天仙、夜叉与诸天也都先向夜叉之主请示,然后饮用并取走,狼腹啊。
3.155.6
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ।
यक्षाधिपस्यानुमते कुबेरस् महात्मनः ॥ ३.१५५.६ ॥
般度之子啊,此处也有乾闼婆与阿普萨拉斯在嬉游,得到夜叉之主、大心的俱毗罗的许可。
3.155.7
अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् ।
विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येन्न संशयः ॥ ३.१५५.७ ॥
若有人在此不义地轻慢财神,欲在此嬉游,此恶人必遭毁灭,毫无疑问。
3.155.8
तमनादृत्य पद्मानि जिहीर्षसि बलादिह ।
धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ॥ ३.१५५.८ ॥
轻视他,你想在此强行夺取莲花;你又如何自称是法王的兄弟?
3.155.9
आमन्त्र्य यक्षराजं वै ततः पिव हरस्व च ।
नातोऽन्यथा त्वया शक्यं किंचित्पुष्करमीक्षितुं ॥ ३.१५५.९ ॥
先征得夜叉王的许可,然后饮用并取走;否则,你连看一眼莲花都不可能。
3.155.10
राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके ।
दृष्ट्वाऽपिच महाराजं नाहं याचितुमुत्सहे ॥ ३.१५५.१० ॥
罗刹们啊,我在附近看不到那位财神;即便见到大王,我也不愿去乞求。
3.155.11
न हि याचन्ति राजान एष धर्मः सनातनः ।
न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन ॥ ३.१५५.११ ॥
国王不乞求,这是永恒的法。我无论如何也不愿舍弃刹帝利的本分。
3.155.12
इयं च नलिनी रम्या जाता पर्वतनिर्झरे ।
नेयं भवनमासाद्यकुबेरस्य महात्मनः ॥ ३.१५५.१२ ॥
这美丽的莲池生于山间溪流之中,并非来自伟大的俱毗罗的宫殿。
3.155.13
तुल्या हि सर्वभूतानामियं वैश्रवणस्य च ।
एवं गतेषु द्रव्येषु कः कं याचितुमर्हति ॥ ३.१५५.१३ ॥
此湖对于一切众生以及毗沙门(俱毗罗)同样平等。既然财物如此共有,谁还有资格向谁索求呢?
3.155.14
इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत ।
तां तु पुष्करिणीं वीरः प्रभिन्न इव कुञ्जरः ॥ ३.१५५.१४ ॥
毗摩先那对所有罗刹说完这番话后,这位英雄便如发情的象一般,跃入那荷花池中。
3.155.15
ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् ।
मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ॥ ३.१५५.१५ ॥
那时,罗刹们用言语阻止这位威猛的英雄——“不要这样,不要这样!”——他们怒气冲冲,从四面八方斥责他。
3.155.16
कदर्थीकृत्यतु स तान्राक्षसान्भीमविक्रमः ।
व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ॥ ३.१५५.१६ ॥
然而那位威武无比、光辉极盛的英雄,轻视那些罗刹,便跃入水中;他们都试图阻止他。
3.155.17
गृह्णीत बध्नीत विकर्ततेमं ।
पचाम खादाम च भीमसेनम्।
क्रुद्धा ब्रुवन्तोऽभिययुर्द्रतं ते ।
शस्त्राणि चोद्यम्य विवृत्तनेत्राः ॥ ३.१५५.१७ ॥
“抓住他,捆住他,撕碎他!我们要煮了吃毗摩先那!”——他们怒吼着这样说,迅速冲了上来,举起武器,瞪大了眼睛。
3.155.18
प्रगृह्यतानभ्यपतत्तरस्वी ।
ततोऽब्रवीत्तिष्ठत तिष्ठतेति
ते तं तदा तोमरपट्टसाद्यै-
र्व्याविद्धशस्त्रैः सहसा निपेतुः। ॥ ३.१५५.१८ ॥
那迅捷的英雄抓住他们并发起攻击;然后他说:“站住,站住!”——他们被长矛、短刀和挥舞的兵器击中,突然倒地。
3.155.19
जिघांसवः क्रोधवशाः सुभीमा ।
भीमं समन्तात्परिवव्रुरुग्राः।
जिघांसवः क्रोधवशाः सुभीमा ।
भीमं समन्तात्परिवब्रुरुग्राः ॥ ३.१५५.१९ ॥
他们渴望杀戮,被愤怒支配,极其可怖凶猛,从四面八方包围了毗摩。
3.155.20
वातेन कुन्त्यां बलवान्सुजातः ।
शूरस्तरस्वी द्विषतां निहन्ता।
सत्ये च धर्मे च रतः सदैव ।
पराक्रमे शत्रुभिरप्रधृष्यः ॥ ३.१५५.२० ॥
由风神婆由在俱缠身上所生,强大、出身高贵、英勇、迅捷有力,杀敌者,始终专注于真理与法,在勇武上为敌人所不可战胜。
3.155.21
तेषां स मार्गान्विविधान्महात्मा ।
निहत्य शस्त्राणि च शास्त्रवाणाम्।
यथा प्रवीरान्निजघान भीमः ।
परश्शतान्पुष्करिणीसमीपे ॥ ३.१५५.२१ ॥
这位大德的毗摩摧毁了他们的各种路径、兵器与箭矢,在莲池附近杀死了数百名上等勇士。
3.155.22
ते तस्य वीर्यं च बलं च दृष्ट्वा ।
विद्याबलंबाहुबलं तथैव।
अशक्नुवन्तः सहितं समन्ता-
द्द्रुतं प्रवीरा सहसा निवृत्ताः ॥ ३.१५५.२२ ॥
他们看到他的勇力、力量、技艺之力与臂力,无法从四面八方联合抵挡,便突然急速退回。
3.155.23
विदीर्यमाणास्तत एव तूर्ण-
माकाशमास्थाय विमूढसंज्ञाः।
कैलासशृङ्गाण्यभिदुद्रुवुस्ते ।
भीमार्दिताः क्रोधवशाः प्रभग्नाः ॥ ३.१५५.२३ ॥
被毗摩折磨、撕裂,在愤怒支配下,他们立即升入空中,心神迷乱,向凯拉萨的山峰逃去,溃败而走。
3.155.24
स शक्रवद्दानवदैत्यसङ्घान् ।
विक्रम्य जित्वा च रणेऽरिसङ्घान्।
विगाह्यतां पुष्करीणीं जितारिः ।
कामं स जग्राह ततोऽम्बुजानि ॥ ३.१५५.२४ ॥
他如同因陀罗,在战场上以勇力征服了檀那婆与提迭的军队,击溃了敌人的众阵,战胜了仇敌,便踏入莲池,随意采取了莲花。
3.155.25
ततः स पीत्वाऽमृतकल्पमम्भो ।
भूयो बभूवोत्तमवीर्यतेजाः।
उत्पाट्य जग्राह ततोऽम्बुजानि ।
सौगन्धिकान्युत्तमगन्धवन्ति ॥ ३.१५५.२५ ॥
于是他饮下如甘露般的水,再次获得至高的勇力与光辉;他拔起莲花,取得了香气极佳的萨甘地迦莲。
3.155.26
ततस्तु ते क्रोधवशाः समेत्य ।
धनेश्वरं भीमबलप्रणुन्नाः।
भीमस्य वीर्यं च बलं च संख्ये ।
यथावदाचख्युरतीव दीनाः ॥ ३.१५५.२६ ॥
于是他们被愤怒所控,被毗摩的力量驱赶,来到财神面前,极为沮丧地如实禀报了毗摩在战斗中的勇力与力量。
3.155.27
तेषां वचस्तत्तु निशाम्य देवः ।
प्रहस्य रक्षांसि ततोऽभ्युवाच।
गृह्णातु भीमो जलजानि कामं ।
कृष्णानिमित्तं विदितं ममैतत् ॥ ३.१५५.२७ ॥
天神听了他们的话,笑着对罗刹们说:“让毗摩随意取走水生的莲花吧;为了黑公主的缘故,此事我早已知晓。”
3.155.28
ततोऽभ्यनुज्ञाय धनेश्वरं ते ।
जग्मुः कुरूणां प्रवरं विरोषाः।
भीमं च तस्यां ददृशुर्नलिन्यां ।
यथोपजोषं विहरन्तमेकम् ॥ ३.१५५.२८ ॥
于是他们获得财神的允许,怀着不再愤怒的心离去,并看见俱卢族中最优秀的毗摩独自一人在那莲池中随意游戏。