Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 3.171

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.171.1

ततोऽहं स्तूयमानस्तु तत्रतत्र सुरपिभिः ।
अपश्यमुदधिं भीममपांपतिमथाव्ययम् ॥ ३.१७१.१ ॥

そのとき、神々と仙人たちにあちこちで称えられながら、私は恐ろしい、水の主である不滅の海を見た。

3.171.2

फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छिताः ।
ऊर्मयश्चात्र दृश्यन्ते चलन्तइव पर्वताः ॥ ३.१७१.२ ॥

ここでは泡立ち、散り、集まって高く盛り上がった波が、動く山々のように見える。

3.171.3

नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः ।
नभसीव विमानानि विचरन्त्यो विरेजिरे ॥ ३.१७१.३ ॥

そこでは四方に宝玉を満載した幾千もの船が、空を行く天上の車のように輝いていた。

3.171.4

तिमिङ्गिलाः कच्छपाश् तथा तिमितिभिङ्गिलाः ।
मकराश्चात्र दृश्यन्ते जले मप्रा इवाद्रयः ॥ ३.१७१.४ ॥

ここではティミンギラ、亀、ティミティミンギラ、マカラが、水中に沈んだ山のように見える。

3.171.5

शङ्खानां च महबाणि मग्रान्यप्सु ममन्ततः ।
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रमंवृताः ॥ ३.१७१.५ ॥

あちこちに水中に沈んだ大きな法螺貝が見え、夜に薄い雲に覆われた星々のようであった。

3.171.6

तथा सहस्रशस्तत्ररत्नसङ्घाः प्लवन्त्युत ।
वायुश् घृर्णते भीमस्तदद्भुतमिवाभवत् ॥ ३.१७१.६ ॥

同様にそこでは幾千もの宝の山が浮かび、恐ろしい風が渦巻いていた。その光景は驚くべきものとなった。

3.171.7

तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् ।
अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् ॥ ३.१७१.७ ॥

その大いに速く、あらゆる水の貯蔵庫の中で最も優れた大洋を越えて、ダーナヴァに満ちたダイティヤの都を近くに私は見た。

3.171.8

तत्रैव मातलिस्तृणं निपात्य पृथिवीतले ।
दानवान्रथघोपेण तन्पुरं समुपाद्रवत् ॥ ३.१७१.८ ॥

そこでマータリは戦車を地上に降ろし、戦車の轟音とともにその都のダーナヴァたちへ突進した。

3.171.9

रथघोषं तु तं श्रुत्वा स्तनयित्नोग्विम्बरे ।
मन्वाना देवराजं मामाविग्ना दानवाऽभवन् ॥ ३.१७१.९ ॥

その戦車の轟音を聞いて、空で轟く者、神々の王である私だと思い、ダーナヴァたちは怯えた。

3.171.10

सर्वे संभ्रान्तमनसः शग्चापधराः स्थिताः ।
तथाऽसिशूलपरशुगदामुसलपाणयः ॥ ३.१७१.१० ॥

皆、心を乱し、槍と弓を持って立っていた。そして剣、三叉戟、斧、棍棒、杵を手に持っていた。

3.171.11

ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः ।
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते ॥ ३.१७१.११ ॥

そこでダーナヴァたちは恐怖に心を打たれ、門を閉ざした。都の守りを手配したはずなのに、誰一人として見えなかった。

3.171.12

ततः शङ्खमुपादाय देवदत्तं महास्वनम् ।
परमां मुदमाश्रित्य प्राधमं तं शनैरहम् ॥ ३.१७१.१२ ॥

そこで大音声の神授の法螺貝を取り、無上の喜びに身を委ね、私はそれをゆっくりと吹き鳴らした。

3.171.13

स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् ।
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि ॥ ३.१७१.१३ ॥

その音は天を満たし、こだまを生んだ。大いなる生き物たちさえも震えて身を隠した。

3.171.14

ततो निवातकवचाः सर्व एव समन्ततः ।
दंशिता विविधैस्त्राणैर्विचित्रायुपाणयः ॥ ३.१७१.१४ ॥

そこでニヴァータカヴァチャたちは皆、四方から、様々な鎧で身を固め、手に色とりどりの武器を持って現れた。

3.171.15

आयसैश्र महाशूलैर्गदाभिर्मुसलैरपि ।
पट्टसैः करवालैश्च रथचक्रैश्च भारत ॥ ३.१७१.१५ ॥

そして大きな鉄の槍、棍棒、杵、刀剣、戦車の車輪を携えて、バーラタよ。

3.171.16

शतघ्नीभिर्भुशुण्डीभिः खङ्गैश्चित्रैः स्वलंकृतैः ।
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः ॥ ३.१७१.१६ ॥

ディティの息子たちは千を数えて現れ、シャタグニー、ブフシュンディーと、美しく飾られた色とりどりの剣を高く掲げていた。

3.171.17

ततो विचार्य बहुशो रथमार्गेषु तान्हयान् ।
प्राचोदयत्समे देशे मातलिर्भरतर्षभ ॥ ३.१७१.१७ ॥

そこでマータリは何度も思案し、戦車の道の上、平らな地へとその馬を前へ走らせた。バラタの牡牛よ。

3.171.18

तेन तेषां प्रणुन्नानासाशुत्वाच्छीघ्रगामिनाम् ।
नान्वपश्यत्तदा कश्रित्तन्मेऽद्भुतमिवाभवत् ॥ ३.१७१.१८ ॥

彼に駆られた速く進む者たちの速さのゆえに、そのときは誰もそれらを見ることができなかった。それは私には驚くべきことに思えた。

3.171.19

ततस्ते दानवास्तत्रयोधवातान्यनेकशः ।
विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् ॥ ३.१७१.१९ ॥

すると、そこのダーナヴァたちは、歪んだ声と姿をもつ戦いの風のすべてを、さまざまなやり方で激しく駆り立てた。

3.171.20

तेन शब्देन सहसा समुद्रे पर्वतोपमाः ।
आप्लवन्त गतैः सत्वैर्मत्स्याः शतसहस्रशः ॥ ३.१७१.२० ॥

その音に、突然、海中で山のような魚が数十万も跳ね上がった。