摩诃婆罗多 · 章 3.172
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.172.1
ततो निवातकवचाः सर्वेवेगेन भारत ।
अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे ॥ ३.१७२.१ ॥
于是,婆罗多啊,尼婆多迦婆迦们全速齐聚,举起兵器,在战场上向我猛扑过来。
3.172.2
आच्छाद्य रथपन्थानमुत्क्रोशन्तो महारथाः ।
अवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् ॥ ३.१७२.२ ॥
遮蔽了战车的道路,高声呼喊,那些大战车武士从四面八方围住我,用箭雨将我淹没。
3.172.3
ततोऽपरे महावीर्याः शूलपट्टसपाणयः ।
शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि ॥ ३.१७२.३ ॥
接着,其他威力巨大的檀那婆手持三叉戟和剑,向我投掷三叉戟和婆舒文狄。
3.172.4
सुमहत्तुमुलं वर्षं गदाशक्तिसमाकुलम् ।
अनिशं सृज्यमानं तैरपतन्मद्रथोपरि ॥ ३.१७२.४ ॥
一场巨大而喧嚣的暴雨,充满了狼牙棒和长矛,被他们不停地投射,落在我的战车上。
3.172.5
अन्ये मामभ्यधावन्त निवातकवचा सुधि ।
शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः ॥ ३.१७२.५ ॥
其他尼婆多迦婆迦手持锋利兵器,凶猛可怖,形如死神,攻击着,在混战中向我扑来。
3.172.6
तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः ।
गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे ॥ ३.१७२.६ ॥
我以从甘狄拔弓射出的各种迅疾、笔直的箭,在战场上每人以十箭将他们射倒。
3.172.7
ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः ।
ततो मातलिना तूर्णं हयास्ते संप्रयोदिताः ॥ ३.१७२.७ ॥
他们都被我以磨石磨利的箭所逼退。于是摩多利迅速驱策那些马匹。
3.172.8
अथ मार्गान्बहूस्तत्र विचेरुर्वातरंहसः ।
सुसंयता मातलिना प्रामथ्नन्त दितेःसुतान् ॥ ३.१७२.८ ॥
于是那些疾如风的马在那里奔驰于许多道路之间。在摩多利的良好驾驭下,它们碾碎了提提之子。
3.172.9
शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे ।
तदा मातलिना यथ्ता व्यचरन्नल्पका इव ॥ ३.१७२.९ ॥
那些套在大战车上的成百上千匹马,在摩多利的驾驭下,好像小小的生物一般飞驰。
3.172.10
तेषां चरणपातेन रथनेमिस्वनेन च ।
मम बाणनिपातैश्च हतास्ते शतशोऽसुराः ॥ ३.१७२.१० ॥
由于他们的践踏,车轮的轰鸣,以及我箭矢的落下,那些阿修罗被杀死了成百上千。
3.172.11
गतासवस्तथैवान्ये दानवाः पाण्डवर्षभ ।
हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः ॥ ३.१७२.११ ॥
同样,般度之牛啊,其余的檀那婆也失去了生命;他们的御者被杀,在那里被马拖拽而行。
3.172.12
ते दिशो विदिशः सर्वे प्रतिरुध्य प्रहारिणः ।
अभ्यघ्नन्विविधैः शस्त्रैस्ततो मे व्यथितं मनः ॥ ३.१७२.१२ ॥
那些攻击者封锁了所有方向与隅方,用各种兵器攻击我;于是我的心烦乱了。
3.172.13
ततोऽहं मातलेर्वीर्यमद्भुतं समदर्शयम् ।
अश्वांस्तथा वेगवतो यदयत्नादधारयत् ॥ ३.१७२.१३ ॥
于是我展示了摩多梨非凡的勇力,以及他如何毫不费力地驾驭疾驰的骏马。
3.172.14
ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे ।
चिच्छेद सायुधान्राजञ्छतशोऽथ सहस्रशः ॥ ३.१७२.१४ ॥
随后,我在战场上以轻盈奇妙的箭矢,连同他们的兵器一起斩断了那些阿修罗,大王,成百上千地。
3.172.15
एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् ।
प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः ॥ ३.१७२.१५ ॥
我在那里竭尽全力作战时,啊,灭敌者,因陀罗的御者英雄摩多梨十分欢喜。
3.172.16
वध्यमानास्ततस्तैस्तु हयैस्तेन रथेन च ।
अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथाऽपरे ॥ ३.१७२.१६ ॥
于是,被那些马和那辆战车击中,有些人走向毁灭,另一些人则转身退去。
3.172.17
स्पर्धमाना इवास्माभिर्निवातकवचा रणे ।
शरवर्षैः शरार्तं मां महद्भिः प्रत्यवारयन् ॥ ३.१७२.१७ ॥
仿佛要与我们竞争,尼婆多迦婆察在战场上以大雨般的箭矢阻挡了身受箭伤的我。
3.172.18
शरवेगैर्निहत्याहमस्त्रैः शरविघातिभिः ।
ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ॥ ३.१७२.१८ ॥
我以箭矢的力量杀死他们之后,又以能摧毁箭矢、烈焰般的、至上而迅疾的兵器,将他们千百次地射穿。
3.172.19
ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः ।
अपीडयन्मां सहिताः शक्तिशूलासिवृष्टिभिः ॥ ३.१७२.१९ ॥
于是那些被愤怒支配的大阿修罗们一同逼迫我,以矛、三叉戟和刀剑如雨般的攻击折磨我。
3.172.20
ततोऽहमस्त्रं प्रायुञ्जं गान्धर्वं नाम भारत ।
दयितं देवराजस् माधवं नाम भारत ॥ ३.१७२.२० ॥
于是,婆罗多啊,我施放了名为乾达婆的武器,它为天王所钟爱,名叫摩陀婆。
3.172.21
ततः खङ्गांस्त्रिशूलांश्च तोमरांशच् सहस्रशः ।
अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिदम् ॥ ३.१७२.२१ ॥
于是,凭借我武器的威力,我将他们成千地投来的刀剑、三叉戟和投枪斩成百段。
3.172.22
छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः ।
प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः ॥ ३.१७२.२२ ॥
斩断他们的兵器后,我愤怒地以每人十箭还击他们所有人。
3.172.23
गाण्डीवाद्धि तदा सङ्ख्ये यथा भ्रमरपङ्क्तयः ।
निष्पतन्ति महाबाणास्तन्मातलिरपूजयत् ॥ ३.१७२.२३ ॥
于是在战斗中,大箭自甘狄拔弓飞出,如蜂群成行,摩多利称赞了这一景象。
3.172.24
तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव ।
अवाकिरन्मां बलवत्तानहं व्यधमं शरैः ॥ ३.१७२.२४ ॥
他们的箭也因数量众多,如蝗虫般猛烈地落在我身上;我以自己的箭将他们击退。
3.172.25
वध्यमानास्ततस्ते तु निवातकवचाः पुनः ।
शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् ॥ ३.१७२.२५ ॥
于是那些再次受创的尼瓦塔卡瓦查们,以密集的箭雨从四面八方包围了我。
3.172.26
शरवेगान्निहत्याहमस्त्रैरस्त्रविघातिभिः ।
ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ॥ ३.१७२.२६ ॥
我先挡住了他们箭矢的势头,然后以炽热、至高、迅疾、能克制他法的神箭,将他们成千地射穿。
3.172.27
तेषां छिन्नानि गात्राणि विसृजन्तिस्म शोणितम् ।
प्रावृषीवाभिवृष्टानि शृङ्गाण्यथ धराभृताम् ॥ ३.१७२.२७ ॥
他们被斩断的肢体流出鲜血,如同雨季里被大雨浸透的山峰。
3.172.28
इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः ।
मद्वाणैर्वध्यमानास्ते समुद्विग्राः स्म दानवाः ॥ ३.१७२.२८ ॥
被我那如因陀罗霹雳般触及、迅疾而笔直的箭矢所射中,那些檀那婆大为惊慌。
3.172.29
शतधा भिन्नदेहास्ते क्षीणप्रहरणौजसः ।
ततो निवातकवचा मामयुध्यन्त मायया ॥ ३.१७२.२९ ॥
他们的身体被打成百段,兵器与力量皆已耗尽,于是尼瓦塔卡瓦查们便以幻术与我交战。