Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.222

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.222.1

काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः ।
अग्निराङ्गिरसश्चैव च्यवनस्तीव्रवर्चकः ॥ ३.२२२.१ ॥

迦叶、婆私吒、命、命之子、火神、安吉罗娑,以及光芒炽烈的遮耶那。

3.222.2

अचरत्स तपस्तीव्रं पुत्रार्थे बहुवार्षिकम् ।
पुत्रं लभेयं धर्मिष्ठं यशसा ब्रह्मणा समम् ॥ ३.२२२.२ ॥

为求一子,他苦修多年,愿得一位极为正直、在名声与梵力上与梵天相等的儿子。

3.222.3

महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ ।
जज्ञे तेजोमयार्चिष्मान्पञ्चवर्णः प्राकरः ॥ ३.२२२.३ ॥

于是,以五大语咒观想之,生出了光明炽盛、火焰环绕、五色的普罗迦罗。

3.222.4

समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा ।
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ॥ ३.२२२.४ ॥

他的头是熊熊烈火,双臂如日;皮肤与双眼金黄,婆罗多啊,小腿却是黑色的。

3.222.5

पञ्चवर्षः स तपसा कृतस्तैः पञ्चभिर्जनैः ।
पाञ्चजन्यः श्रुतो देवः पञ्चवंशकरस्तु सः ॥ ३.२२२.५ ॥

他五岁之时,由那五个存在以苦行所成;那位神被称为般遮遮若耶,为五族之创立者。

3.222.6

दशवर्षसहस्राणि तपस्तप्त्वा महातपाः ।
जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् ॥ ३.२२२.६ ॥

这位大苦行者修苦行一万年,生出了可怕的火神波伐迦,他为祖灵创造后代。

3.222.7

बृहद्रथंतरौ मूर्ध्ना वक्राच्च तपसा हरिम् ।
शिवं नाभ्यां बलादिन्द्रं प्राणाद्वायुं च भारत ॥ ३.२२२.७ ॥

他以苦行从头和口中产生了布利哈德拉塔与拉塔难多罗(娑摩颂)及哈里;从肚脐产生湿婆,从力量产生因陀罗,从气息产生风神,婆罗多之子啊。

3.222.8

बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह ।
एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् ॥ ३.२२२.८ ॥

他从双臂产生了两个阿努达陀(娑摩颂)、维舍婆提婆和众生;创造了这些之后,他又创造了祖先的五个儿子。

3.222.9

बृहद्रथस्य प्रणिधिः काश्यपश्य महत्तरः ।
भानुरङ्गिरसो धीरः पुत्रो वर्चस्य सौरभः ॥ ३.२२२.९ ॥

布利哈德拉塔的助手,迦叶波最伟大的儿子;安吉罗斯坚定的婆努;婆尔恰斯之子娑罗跋。

3.222.10

प्राणस्य चानुदात्तस्तु व्याख्याताः पञ्च वंशजाः ।
देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् ॥ ३.२२२.१० ॥

气息之阿努达陀的五个后裔已被叙述;他又创造了诸神、盗取祭祀者以及其他十五个以上的神灵。

3.222.11

सुभीममतिभीमं च भीमं भीमबलाबलम् ।
एतान्यज्ञमुषः पञ्च देवानप्यसृजत्ततः ॥ ३.२२२.११ ॥

娑步摩、阿提步摩、婆摩以及婆摩巴拉巴拉——这五位盗取祭祀的神灵,他随后创造了他们。

3.222.12

सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् ।
मित्रधर्माणमित्येतान्देवानभ्यसृजत्ततः ॥ ३.२२२.१२ ॥

苏弥多罗、弥多罗万特、弥多罗阇那、弥多罗跋陀那与弥多罗达摩那——这些神灵他随后产生了。

3.222.13

सुरप्रवीरं वीरं च सुरेशं च सुवर्चसम् ।
सुराणामपि भर्तारं पञ्चैतानसृजत्ततः ॥ ३.२२२.१३ ॥

诸神中的上首英雄、英雄、苏雷莎、苏跋察斯,以及诸神的护持者——这五者,他随后创造了。

3.222.14

त्रिविधं संस्थिता ह्येते पञ्चपञ्च पृथक्पृथक् ।
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतान्यज्ञयाजिनः ॥ ३.२२२.१४ ॥

他们分为三类,每五人一组,各自独立而住;停留于此的这些人,窃取那些行祭而升天者的福报。

3.222.15

तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्धविः ।
स्पर्धयाहव्यवाहानां निघ्नन्त्येते हरन्ति च ॥ ३.२२२.१५ ॥

他们夺取这些人所愿望的祭福,击碎大祭品;出于嫉妒,他们打击供奉火神者的随从并夺取之。

3.222.16

बहिर्वेद्यां तदादानं कुशलैः संप्रवर्तितम् ।
तत्रैते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् ॥ ३.२२२.१६ ॥

在祭坛之外,那种取得祭品的方式由有学识的祭司确立;这些人不靠近火神安住之处。

3.222.17

चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते ।
मन्त्रै प्रशमिताह्येते नेष्टं मुष्णन्ति यज्ञियम् ॥ ३.२२२.१७ ॥

堆砌的火举起祭祀,以双翼驱赶他们;被咒语安抚后,他们不再窃取属于祭祀的所愿之福。

3.222.18

तपस्ये बृदुक्थस्य पुत्रो भूमिमुपाश्रितः ।
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरीड्यते ॥ ३.२२२.१८ ॥

Bṛhaduktha之子在苦行中托身于大地;当阿耆尼好特拉的供祭进行之时,在大地上,善人们赞颂他。

3.222.19

रथन्तरश्चतपसः पुत्रोऽग्निः परिपठ्यते ।
मित्रविन्दा तथा भार्या हविरध्वर्यवो विदुः ॥ ३.२२२.१९ ॥

据说,罗陀安塔罗与苦行之子为阿耆尼;其妻为弥陀罗文陀。祭司们称他为祭品。

3.222.20

एतैः सह महाभाग तपस्तेजस्विभिर्नृप ।
मुमुदे परमप्रीतः सह पुत्रैर्महायशाः ॥ ३.२२२.२० ॥

大福之王啊,与这些以苦行之光辉耀的人一起,大名的他极其欢喜,与众子一同快乐。