Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.242

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.242.1

ततस्ते सहिताः सर्वे दुर्याधनमुपागमन् ।
अब्रुवंश्च महाराज यदूचुः कौरवं प्रति ॥ ३.२४२.१ ॥

于是他们一同走到难敌面前,大王啊,向俱卢之子说出了他们所要说的话。

3.242.2

गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् ।
अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत ॥ ३.२४२.२ ॥

军队被乾达婆阻拦时,威武的持国之子满怀愤怒,对众军说道,婆罗多啊。

3.242.3

शासतैनानधर्मज्ञान्मम विप्रियकारिणः ।
यदि प्रक्रीडते सर्वैर्देवैः सह शचीपतिः।
वयमत्र यथा प्रीता क्रीडिष्यामो निरङ्कुशं ॥ ३.२४२.३ ॥

惩罚这些不知法度、令我不快之人。若因陀罗(舍琪之主)与众神嬉戏,我们也当在此欢喜地、毫无拘束地嬉戏。

3.242.4

दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः ।
सर्व एवाभिसन्नद्धा योधाश्चापि सहस्रशः ॥ ३.२४२.४ ॥

听了难敌的话,持国的强大诸子全都完全备战,还有成千上万的武士也都如此。

3.242.5

ततः प्रमथ्य सर्वांस्तांस्तद्वनं विविशुर्बलात् ।
सिंहनादेन महता पूरयन्तो दिशो दश ॥ ३.२४२.५ ॥

于是他们将所有人击溃,强行闯入那片森林,以雄狮般的巨吼充满十方。

3.242.6

ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः ।
साम्नैव रतत्र विक्रान्ता मा साहसमिति प्रभो ॥ ३.२४२.६ ॥

于是其他乾达婆以安抚之言阻止了俱卢的士兵,说:“勇士们,不要鲁莽行事。”主啊。

3.242.7

ते वार्यमाणा गन्धर्वैः साम्नैव वसुधायिप ।
ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ॥ ३.२४२.७ ॥

大地之主啊,虽然乾闥婆以和言阻拦,他们却不理睬那些乾闥婆,进入了那片大森林。

3.242.8

यदि वाता न तिष्ठन्ति धार्तराष्ट्राः सराजकाः ।
ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् ॥ ३.२४२.८ ॥

若持国之子与其国王不停止,那些在空中游行的乾闥婆便全部向旃陀罗sena报告。

3.242.9

गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति ।
अनार्याञ्शासतेत्येतांश्चित्रसेनोऽत्यमर्षणः ॥ ३.२४२.९ ॥

乾闥婆王对他们所有人谈及俱卢族说:“惩罚这些不义之人。”极度愤怒的旃陀罗sena如此说道。

3.242.10

अनुज्ञाताश्च गन्धर्वाश्चित्रसेनेन भारत ।
प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ॥ ३.२४२.१० ॥

婆罗多啊,得到旃陀罗sena的许可后,所有乾闥婆手持武器,向持国之子猛扑过去。

3.242.11

तान्दृष्ट्वाऽऽपततः शीघ्रान्गन्धर्वानुद्यतायुधान् ।
प्राद्रवंस्ते दिशः सर्वे धार्तराष्ट्रस्य पश्यतः ॥ ३.२४२.११ ॥

看见那些手持高举兵器、迅猛扑来的乾闥婆,他们全部向四面八方逃散,持国之子眼睁睁地看着。

3.242.12

तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।
राधेयस्तु तदा वीरो नासीत्तत्रपराङ्मुखः ॥ ३.२४२.१२ ॥

看见持国之子全都逃走、背转身去,英雄罗陀之子(迦尔纳)却在那里没有背过身去。

3.242.13

आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम् ।
महता शरवर्षेण राधेयः प्रत्यवारयत् ॥ ३.२४२.१३ ॥

罗陀之子(迦尔纳)见乾闼婆的大军冲来,便以密集的箭雨将其阻挡。

3.242.14

क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथाऽऽयसैः ।
गन्धर्वाञ्शतशोऽभिघ्नँल्लघुत्वात्सूतनन्दनः ॥ ३.२४२.१४ ॥

以剃刀头箭、毗希卡箭、薄刃箭、牛犊齿箭及铁箭,御者之子(迦尔纳)凭借敏捷,接连射倒数百名乾闼婆。

3.242.15

पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः ।
क्षणएन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् ॥ ३.२४२.१५ ॥

这位大战车勇士(迦尔纳)斩落乾闼婆的头颅,转瞬间便将毗睹羅斯那(Citrasena)的全军冲散。

3.242.16

ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता ।
भूय एवाभ्यवर्तन्त शततशोऽथ सहस्रशः ॥ ३.२४२.१६ ॥

纵然被这位聪慧的御者之子所杀,那些乾闼婆仍成百上千地再度转身冲来。

3.242.17

गन्धर्वभूता पृथिवी क्षणेन समपद्यत ।
आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः ॥ ३.२४२.१७ ॥

毗睹羅斯那的迅猛士兵猛扑而来,大地转瞬间便布满了乾闼婆。

3.242.18

अथ दुर्योधनो राजा शकुनिश्चापि सौबलः ।
दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः।
न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिःखनैः ॥ ३.२४२.१८ ॥

于是国王难敌、苏跋罗之子沙恭尼、難降、毗迦尔纳以及持国的其他诸子,以如迦楼罗鸣叫般轰响的战车,击打那支军队。

3.242.19

सैन्यमायोधितं दृष्ट्वाकर्णो राजन्न मृष्यत ॥ ३.२४२.१९ ॥

国王啊,卡尔纳看到军队遭受攻击,无法忍受。

3.242.20

महता रथसङ्घेन रथचारेण चाप्युत ।
वैकर्तनं परीप्सन्तो गन्धर्वाः प्रत्यवारयन्।
ततः संन्यपतन्सर्वे गन्धर्वाः कौरवं प्रति ॥ ३.२४२.२० ॥

以大批战车及其运动,想要保护卡尔纳的干闼婆们反过来阻挡了他。于是所有干闼婆一齐冲向俱卢军。

3.242.21

तदा सुतुमुलं युद्धमभवद्रोमहर्षणम् ।
ततस्ते मृदवोऽभूवनगन्धर्वाः शरपीडिताः ॥ ३.२४२.२१ ॥

于是发生了极为混乱、令人毛骨悚然的激战,干闼婆们被箭所伤,变得软弱了。

3.242.22

उच्चुक्रुशुश्च कौरव्यागन्धर्वान्प्रेक्ष्य पीडितान् ॥ ३.२४२.२२ ॥

看到干闼婆们受苦,俱卢人高声呼喊起来。

3.242.23

गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनो ह्यमर्षणः ।
उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः ॥ ३.२४२.२३ ॥

见干闼婆们惊恐,不能忍受的citrasena愤怒地从座位上跃起,决心杀灭他们。

3.242.24

ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित् ।
वियत्संछादयामास न ववौ तत्र मारुतः ॥ ३.२४२.२४ ॥

于是,cāraīstra(citrasena)借助幻术之箭作战,他这位熟知奇异道路的人遮蔽了天空,那里风也不吹了。

3.242.25

हस्त्यारोहा हताः पेतुर्हस्तिभिः सह भारत ।
हयारोहाः सह हयै रथैश्च रथिनस्तदा ॥ ३.२४२.२५ ॥

婆罗多之裔啊!骑象者与其象一同被杀倒地;骑马者与其马一同倒下,乘车者与其车一同倒下。

3.242.26

पत्तयश्च तथापेतुर्विशस्ताः शरवृष्टिभिः ।
तयाऽमुह्यन्त कौरव्याश्चित्रसेनस्य मायया ॥ ३.२४२.२६ ॥

步兵也同样被箭雨击倒;考陵族人被奇武的幻术所迷惑。

3.242.27

एकैको हि तदा योधो धार्तारष्ट्रस्य भारत ।
पर्यवार्यत गन्धर्वैर्दशभिर्दशभिर्युधि ॥ ३.२४२.२७ ॥

婆罗多之裔啊!那时,持国之子的每一位战士都在战场上被十个又十个乾达婆包围。

3.242.28

ततः संपीड्यमानास्ते बलेन महता तदा ।
प्राद्रवन्त रणे भीता यत्रराजा युधिष्ठिरः ॥ ३.२४२.२८ ॥

那时,他们被庞大的军队紧紧逼迫,在战场上惊恐地逃向国王坚战所在之处。

3.242.29

भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः ।
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः ॥ ३.२४२.२९ ॥

国王啊,持国之子的军队四面溃散之时,毗迦尔坦之子迦尔纳却如不动的山峰一般屹立不动。

3.242.30

दुर्योधनश्च तेजस्वी शकुनिश्चापि सौबलः ।
गन्धर्वान्योधयामासुः समरे भृशविक्षताः ॥ ३.२४२.३० ॥

光辉的难敌与苏跋罗之子沙恭尼也身受重伤,仍在战场上与乾达婆作战。

3.242.31

सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः ।
जिघांसमानाः संरब्धाः कर्णमभ्यद्रवत्रणे ॥ ३.२४२.३१ ॥

所有乾闼婆,成百上千,愤怒而欲杀之,在战场上扑向迦尔纳。

3.242.32

असिभिः पट्टसैः शूलैर्गदाभिश्च महाबलाः ।
सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् ॥ ३.२४२.३२ ॥

力大的乾闼婆们想要杀死御者之子,用刀剑、铁棒、长矛和战锤从四面将他包围。

3.242.33

अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन् ।
ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् ॥ ३.२४२.३३ ॥

有人砍断他的轭,有人打倒他的旗帜;有人击落车辕,有人击倒马匹,有人击倒御者。

3.242.34

अन्ये च्छत्रं वरूथं च बन्धुरं च तथा परे ।
अन्ये संचूर्णयामासुश्छत्रे चाक्षौ तथा परे ॥ ३.२४२.३४ ॥

有人毁坏了伞盖和护甲,有人毁坏了华美的座位;还有人毁坏了伞盖和车轴。

3.242.35

गन्धर्वा बहुसाहस्रास्तिलशो व्यधमन्रथम् ।
ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत्। ॥ ३.२४२.३५ ॥

成千上万的乾闼婆将战车打碎成如芝麻般细小的碎片。于是御者之子从车上跳下,手持刀剑和盾牌。

3.242.36

अंसावलम्बितधनुर्धावमानो महाबलः ।
विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् ॥ ३.२४२.३६ ॥

这位大力者肩上挂着弓,奔跑着登上了毗迦尔纳的战车,催促马匹以求逃脱。