Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.249

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.249.1

अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः ।
जानासि त्वं जिताञ्शत्रून्गन्धर्वां स्तेजसा मया ॥ ३.२४९.१ ॥

罗陀之子啊,你因无知而说的话,我并不介意。你知道,我以自己的威力战胜了乾闼婆这些敌人。

3.249.2

आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम ।
मया सह महाबाहो कृतश्चोभयतः क्षयः ॥ ३.२४९.२ ॥

乾闼婆与我的兄弟们长久交战。啊,大臂者,我与他们一同参战,双方都遭受了毁灭。

3.249.3

मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः ।
तदा नो न समं युद्धमभवत्खेचरैः सह ॥ ३.२४९.३ ॥

然而那些精通幻术的勇士升入天空之时,我们与空中之人的战斗便不再对等。

3.249.4

पराजयं च प्राप्ताः स्मो रणे बन्धनमेव च ।
सभृत्यामात्यपुत्राश्च सदारबलवाहनाः।
उच्चैराकाशमार्गेण ह्रियमाणाः सुदुःखिताः ॥ ३.२४९.४ ॥

我们在战斗中战败被擒,连同仆从、大臣、儿子、妻子、军队与车骑,被高高地经由天空之路带走,我们极其痛苦。

3.249.5

अथ नः सैनिकाः केचिदमात्याश्च महारथाः ।
उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् ॥ ३.२४९.५ ॥

于是我们的一些士兵、大臣与大战车武士,满怀悲苦,走近了给予庇护的般度五子,向他们说道。

3.249.6

एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः ।
सामात्यदारो ह्रियते गन्धर्वैर्दिवमाश्रितैः ॥ ३.२४९.६ ॥

看哪,国王难敌,持国之子,正与他的弟弟们、大臣和妻子一同被那些遁入天空的乾闼婆带走。

3.249.7

तं मोक्षयत भद्रं वः सहदारं नराधिपम् ।
परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः।
इत्यब्रुवन्रणआन्मुक्ता धर्मराजमुपागताः ॥ ३.२४९.७ ॥

“请释放那位国王及其妻子,愿你们平安。不得以任何方式侵犯俱卢族的妇人。”如此说罢,他们脱离战斗,来到法王面前。

3.249.8

एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा ।
प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे ॥ ३.२४९.८ ॥

如此说罢,正直的般度长子安抚了所有兄弟,随即下令释放。

3.249.9

अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः ।
सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः ॥ ३.२४९.९ ॥

于是,般度五子——人中雄牛、大车将——来到那地方,虽有能力,却先以和解之言向他们请求。

3.249.10

यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि ।
आकाशचारिणो वीरा नदन्तो जलदा इव ॥ ३.२४९.१० ॥

当乾闼婆即使被安抚,仍不释放我们时——那些行于空中的勇士,如云般咆哮——

3.249.11

ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ ।
मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः ॥ ३.२४९.११ ॥

于是阿周那与怖军,以及力大无穷的双生子,屡次向乾闼婆射下箭雨。

3.249.12

अथ सर्वे रणं मुक्त्वा प्रयाताः खेचरा दिवम् ।
अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः ॥ ३.२४९.१२ ॥

于是所有行于空中者放弃战斗,升往天界,怀着欢喜的心,将我们这些可怜人拉向他们那边。

3.249.13

ततः समन्तात्पश्यामः शरजालेन वेष्टितम् ।
अमानुषाणि चास्त्राणि प्रयुञ्जानं घनंजयम् ॥ ३.२४९.१३ ॥

随后我们看见他四面被箭网所围,达那mí阇耶正施展非人之兵器。

3.249.14

समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः ।
धनंजयसखाऽऽत्मानं दर्शयामास वै तदा ॥ ३.२४९.१४ ॥

见四方被般度之子的利箭遮蔽,达那阇耶之友于是现身。

3.249.15

चित्रसेनः पाण्डवेन समाश्लिष्य परस्परम् ।
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् ॥ ३.२४९.१५ ॥

旃陀罗谢那与般度之子相拥,问候其安好;他们也问候了他的健康。

3.249.16

ते समेत्य तथाऽन्योन्यं सन्नाहान्विप्रमुच्य च ।
एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः ॥ ३.२४९.१६ ॥

如此相遇之后,众人卸下铠甲,英勇的干闼婆便与般度诸子合为一体。

3.249.17

परस्परं समागम्य प्रीत्या परमया युतौ ।
अपूजयेतामन्योन्यं चित्रसेनधनंजयौ ॥ ३.२४९.१७ ॥

二人相见,怀着至高的情谊相会,旃陀罗谢那与达那阇耶彼此致敬。