摩诃婆罗多 · 章 3.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.26.1
वसत्सु वै द्वैतवने पाण्डवेषु महात्मसु ।
अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ॥ ३.२६.१ ॥
当伟大的般度五子居于二元森林时,那座大森林充满了婆罗门。
3.26.2
ईर्यमाणेन सततं ब्रह्मघोषेण सर्वशः ।
ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ॥ ३.२६.२ ॥
神圣诵读之声不断回荡四方,二元森林及其湖泊变得圣洁,堪比梵天之界。
3.26.3
यजुषामृचां साम्नां च गद्यानां चैव सर्वशः ।
आसीदुच्चार्यमाणानां निःस्वनो हृदयंगमः ॥ ३.२६.३ ॥
夜柔、梨俱、娑摩以及散文咒语到处被高声诵出,其声音深深打动人心。
3.26.4
ज्याघोषश्चैव पार्थानां ब्रह्मघोषश्च धीमताम् ।
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ॥ ३.२६.४ ॥
般度子的弓弦之声与智者婆罗门的梵咒之声交织,刹帝利的光辉再度闪耀。
3.26.5
अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् ।
सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम् ॥ ३.२६.५ ॥
于是达尔跋之子婆伽对法王坚战说话;这位昆蒂之子正在黄昏时分被诸仙环绕而坐。
3.26.6
पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् ।
होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम् ॥ ३.२६.६ ॥
般度之子啊,请看二元森林中苦行婆罗门的献火时刻,库鲁之最,火焰熊熊燃烧。
3.26.7
चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः ।
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ॥ ३.२६.७ ॥
在这神圣之地,受你庇护的、持守坚定誓愿的婆利古、安吉罗娑与婆悉吒,与迦叶波一同修行法道。
3.26.8
आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः ।
सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया ॥ ३.२६.८ ॥
大福的阿伽斯提亚与持最上誓愿的阿特丽亚,世间最优秀的婆罗门,已与你聚集于此。
3.26.9
इदं तु वचनं पार्थ शृण्वेकाग्रमना मम ।
भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ॥ ३.२६.९ ॥
普利塔之子、俱卢啊,请与你的兄弟们一同专心聆听我将要对你说的这番话。
3.26.10
ब्राह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह ।
उदीर्णे दहतः शत्रून्वनानीवाग्निमारुतौ ॥ ३.२६.१० ॥
婆罗门之力与刹帝利之力相结合,刹帝利之力与婆罗门之力相结合时,它们奋然升起,焚烧敌人,如同火与风焚烧森林。
3.26.11
नाब्राह्मणस्तात चिरं बुभूषे-
दिच्छन्नमं लोकममुं च जेतुम्।
विनीतधर्मार्थमपेतमोहं ।
लब्ध्वा द्विजं हन्ति नृपः सपत्नान् ॥ ३.२६.११ ॥
亲爱的,非婆罗门者不能长久兴盛。欲征服今世与来世的国王,唯有得到一位在法与财上谦逊、离于迷妄的再生族,方能杀灭敌人。
3.26.12
चरन्नैश्रेयसं धर्मं प्रजापालनकारितम् ।
नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ॥ ३.२६.१२ ॥
虽然波利修行了导向至善、为护持臣民所定之法,他在世间却未找到除再生族之外的其他渡口(归依之所)。
3.26.13
अनूनमासीदसुरस्य कामै-
वैरोचनेः श्रीरपि चाक्षयाऽऽसीत्।
लब्ध्वा महीं ब्राह्मणसंप्रयोगा-
त्तेष्वाचरन्दुष्टमयथो व्यनश्यत् ॥ ३.२६.१३ ॥
阿修罗毗卢遮那的欲望并未减少,他的财富也永不衰竭。他借助婆罗门的结交得到了大地,却对婆罗门行为邪恶而不当,于是灭亡了。
3.26.14
नाब्राह्मणं भूमिरियं सभूति-
र्वर्णं द्वितीयं भजते चिराय।
समुद्रनेमिर्नमते तु तस्मै ।
यं ब्राह्मणः शास्ति नयैर्विनीतम् ॥ ३.२६.१४ ॥
没有婆罗门,这片大地及其繁荣不会长久侍奉第二种姓。被大海环绕的大地,只向那个由婆罗门以正确的policy使其谦恭、加以教导的人俯首。
3.26.15
कुञ्चरस्येव संग्रामे परिगृह्याङ्कुशग्रहम् ।
ब्राह्माणैर्विप्रहीनस्य क्षत्रस्य क्षीयते बलम् ॥ ३.२६.१५ ॥
如同战场上的大象由握住象钩的人驾驭,失去婆罗门的刹帝利之力量便会衰减。
3.26.16
ब्राह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् ।
तौ यदा चरतः सार्धं तदा लोकः प्रसीदती ॥ ३.२६.१६ ॥
当婆罗门无与伦比的洞见与刹帝利无可匹敌的力量并肩同行时,世界便会欢喜。
3.26.17
यथा हि सुमहानग्निः कक्षं दहति सानिलः ।
तथा दहति राजन्यो ब्राह्मणेन समं रिपुम् ॥ ३.२६.१७ ॥
如同大火伴随风势烧尽干草,国王与婆罗门同心合力便能焚灭敌人。
3.26.18
ब्राह्मणेष्वेव मेधावी बुद्धिपर्येषणं चरेत् ।
अलब्धस्य च लाभाय लब्धस्य परिवृद्धये ॥ ३.२६.१८ ॥
智者应当只在婆罗门之中寻求智慧——为了获得尚未获得之物,为了增长已经获得之物。
3.26.19
अलब्धलाभाय च लब्धवृद्धये ।
यथार्हतीर्थप्रतिपादनाय।
यशस्विनं वेदविदं विपश्चितं ।
बहुश्रुं ब्राह्मणमेव वासयेत् ॥ ३.२६.१९ ॥
为获取未得之物、增益已得之物,并施予合适的受者,应当只延请一位有声望、通晓吠陀、博学多闻的婆罗门。
3.26.20
ब्राह्मणेषूत्तमा भक्तिस्तव नित्यं युधिष्ठिर ।
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ॥ ३.२६.२० ॥
般度之子啊,你对婆罗门始终怀有至高的虔敬;因此你广传的声名在一切世界中光辉闪耀。
3.26.21
ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमंपूजयन् ।
युधिष्ठिरं स्तूयमाने भूयः सुमनसोऽभवन् ॥ ३.२६.२१ ॥
于是所有婆罗门都尊敬达勒普亚·巴卡;当赞美般度之子时,他们再次心生欢喜。
3.26.22
द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः ।
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ॥ ३.२६.२२ ॥
毗耶娑、那罗陀、耶摩达格尼之子、普里图室罗婆、因陀罗众光、跋陆基、迦哩多崔达斯及千足者。
3.26.23
कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः ।
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ॥ ३.२६.२३ ॥
迦纳史罗婆、文阇、盐马、迦叶波、呵利多、柱耳、火生,然后是憍那迦。
3.26.24
कृतवाक्च सुवाश्चैव बृहदश्चो विभावसुः ।
ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ॥ ३.२६.२४ ॥
作誓、苏婆、大马、毗婆娑、上精、牛友、善祭、祭乘。
3.26.25
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः ।
अजातशत्रुमानर्चुः पुरंदरमिवर्षयः ॥ ३.२६.२५ ॥
这些人以及其他许多恪守誓愿的婆罗门,尊敬阿阇多设睦(坚战),正如仙人们尊敬因陀罗(补兰陀罗)一样。