マハーバーラタ · 章 3.281
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.281.1
मार्कण्डेय उवाच ।
ततोऽविदूरे नलिनीं रप्रभूतकमलोत्पलाम्।
सीताहरणदुःखार्तः पम्पां रामः समासदत् ॥ ३.२८१.१ ॥
マールカンデーヤが言った。そのとき、シーターの誘拐に苦しめられたラーマは、蓮と睡蓮の多い池ナリニーのほど近く、パンパーに到着した。
3.281.2
मारुतेन सुशीतेन सुखेनामृतगन्धिना ।
सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् ॥ ३.२८१.२ ॥
その森で、非常に涼しく心地よい、甘露のような香りの風に吹かれながら、ラーマは心の中で愛する妻のもとへ行った。
3.281.3
विललाप सराजेन्द्रस्तत्रकान्तानुस्मरन् ।
कामबाणाभिसंतप्तं सौमित्रिस्तमथाब्रवीत् ॥ ३.२८१.३ ॥
そこで王者の王ラーマは愛する妻を思い出して嘆いた。愛欲の矢に苦しめられた彼に、スミトラーの子(ラクシュマナ)が語りかけた。
3.281.4
न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद ।
आत्मवन्तमिव व्याधिः पुरुषंवृद्धसेविनम् ॥ ३.२८१.४ ॥
尊敬を与える方よ、あなたのような人にこのような感情が触れるべきではない。長老に仕える自制心のある人を病が襲わないように。
3.281.5
प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च ।
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय ॥ ३.२८१.५ ॥
ヴァイデーヒー(シーター)とラーヴァナについての知らせはあなたの手に入りました。それを男らしい努力と知恵によって成し遂げなさい。
3.281.6
अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम् ।
मयि शिष्ये च भृत्ये च सहाये च समाश्वस ॥ ३.२८१.६ ॥
山に住む猿の中の最良者スグリーヴァのもとへ行こう。私、弟子、従者、そして味方を頼りに、心を慰めなさい。
3.281.7
एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः ।
उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् ॥ ३.२८१.७ ॥
ラクシュマナに様々な言葉でこう諭されて、ラーガヴァは本来の落ち着きを取り戻し、すぐに務めに向かった。
3.281.8
निषेव्य वारि पम्पायास्तर्पयित्वा पितृनपि ।
प्रतस्थतुरभौ वीरौ भ्रातरौ रामलक्ष्मणौ ॥ ३.२८१.८ ॥
パンパー湖の水を飲み、祖霊にも供物を捧げて、勇猛な兄弟ラーマとラクシュマナは出発した。
3.281.9
तावृश्यमूकमभ्येत्य बहुमूलफलद्रुमम् ।
गिर्यग्रे वानरान्पञ्वीरौ ददृशतुस्तदा ॥ ३.२८१.९ ॥
二人は根や果実の多い木々に覆われたリシュヤムーカ山に着き、そのとき英雄たちは山頂に五匹の猿を見た。
3.281.10
सुग्रीवः प्रेषयामास सचिवं वानरं तयोः ।
बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् ॥ ३.२८१.१० ॥
スグリーヴァは二人のもとに猿の大臣を遣わした。賢明なハヌマーンで、ヒマラヤのように堂々と立っていた。
3.281.11
तेन संभाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः ।
रसख्यं वानरराजेन चक्रे रामस्तदा नृप ॥ ३.२८१.११ ॥
まず彼と言葉を交わしてから二人はスグリーヴァのもとへ行った。王よ、そのときラーマは猿の王と友好を結んだ。
3.281.12
ततः सीतां हृतां श्रुत्वा सुग्रीवो वालिना कृतम् ।
दुःखमाख्यातवान्सर्वं रामायामिततेजसे ॥ ३.२८१.१२ ॥
そのときスグリーヴァは、シーターが奪われたことと、ヴァーリンがしたことを聞き、無限の輝きを持つラーマに自らの苦しみをすべて語った。
3.281.13
तद्वासो दर्शयामास तस् कार्ये निवेदिते ।
वानराणां तु यत्सीता ह्रियमाणा व्यपासृजत् ॥ ३.२८१.१३ ॥
事情が告げられると、彼は、シーターが連れ去られる途中で猿たちの間に落とした衣を示した。
3.281.14
तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् ।
पृथिव्यां वानरैश्वर्ये स्वयंरामोऽभ्यषेचयत् ॥ ३.२८१.१४ ॥
その確かな証しを得て、ラーマ自らが猿の王スグリーヴァを地上の猿族の統治者として灌頂した。
3.281.15
प्रतिजज्ञे चकाकुत्स्थः समरे वालिनो वधम् ।
सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप ॥ ३.२८१.१५ ॥
カクツトゥハのラーマは戦いでヴァーリンを殺すと誓った。王よ、スグリーヴァもまたヴァイデーヒーを取り戻すと誓った。
3.281.16
इत्येवं समयं कृत्वाविश्वास्य च परस्परम् ।
अभ्येत्य सर्वकिष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः ॥ ३.२८१.१६ ॥
このように約束を交わし、互いに信頼を築いて、彼らは皆キシュキンダーに至り、戦いを望んでそこに立った。
3.281.17
सुग्रीवः प्राप्यकिष्किन्धां ननादौघनिभस्वनः ।
नसाय् तन्ममृषे वाली तारा तं प्रत्यषेधयत् ॥ ३.२८१.१७ ॥
スグリーヴァはキシュキンダーに着き、洪水のような音で吠えた。ヴァーリンはそれを耐えられず、ターラーが彼を制止した。
3.281.18
यथानदतिसुग्रीवो बलवानेष वानरः ।
मन्ये चाश्रयवान्प्राप्तो न त्वं निष्क्रान्तुमर्हसि ॥ ३.२८१.१८ ॥
この猿スグリーヴァの吠え方を見ると、彼は強い。後ろ盾を得たのだと思う。おまえは出て行くべきではない。
3.281.19
हेममाली ततो वाली तारां ताराधिपाननाम् ।
प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः ॥ ३.२८१.१९ ॥
金の花環を身につけた、弁舌さわやかな猿の王にして夫であるヴァーリンは、月の王のような顔の妻ターラーに、このように言った。
3.281.20
सर्वभूतरुतज्ञा शृणु सर्वं कपीश्वर ।
केन चाश्रयवान्प्राप्तो ममैप भ्रातृगन्धिकः ॥ ३.२८१.२० ॥
あらゆる生き物の言葉を知る猿の女王よ、すべてを聞け。兄弟の匂いをまとうこの者は、誰の庇護を得て私のもとに来たのか。
3.281.21
चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा ।
पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर ॥ ३.२८१.२१ ॥
しばし考えて、月の輝きをもつ賢いターラーは夫に言った。猿の王よ、すべてを聞いてください。
3.281.22
हृतदारो महासत्वोरामो दशरथात्मजः ।
रतुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः ॥ ३.२८१.२२ ॥
妻を奪われた大勇者、ダシャラタの子、弓使いのラーマは、スグリーヴァと宝のような友誼を結んだ。
3.281.23
भ्राता चास्य महाबाहुः सौमित्रिरपराजितः ।
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये ॥ ३.२८१.२३ ॥
その兄、強大な腕を持つ無敵のサウミトリ、ラクシュマナという賢者が、目的を果たすために控えている。
3.281.24
मैन्दश्च द्विविदश्चापि हनूमांश्चानिलात्मजः ।
जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः ॥ ३.२८१.२४ ॥
マインダとドヴィヴィダ、風の子ハヌマーン、熊の王ジャーンバヴァーン──スグリーヴァの大臣たちがそこに立っている。
3.281.25
सर्व एते महात्मानो बुद्धिमन्तो महाबलाः ।
अलं तव विनाशाय रामवीर्यव्यपाश्रयाः ॥ ३.२८१.२५ ॥
この偉大な心を持ち、賢く、強大な力を持つ者たちは、ラーマの武勇に頼っており、おまえの滅びに十分である。
3.281.26
तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः ।
पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् ॥ ३.२८१.२६ ॥
そのとき猴王は、彼女の有益な言葉を退け、嫉妬に満ちて、心をスグリーヴァに向けている彼女を疑った。
3.281.27
तारां परुषमुक्त्वा तु निर्जगाम गुहामुखात् ।
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोभ्यभाषत ॥ ३.२८१.२७ ॥
ターラーに荒々しい言葉を投げかけてから、彼は洞窟の入口から出て、マーリヤヴァトの近くに立つスグリーヴァに語りかけた。
3.281.28
असकृत्त्वं मया क्लीव निर्जितो जीवितप्रियः ।
मुक्तो गच्छसि दुर्बुद्धे कथंकारं रणे पुनः ॥ ३.२८१.२८ ॥
臆病者よ!私は何度もおまえを打ち負かした。命が惜しいおまえは解放されて去っていく。愚かな者よ、またどうして戦いに来るのか。
3.281.29
इत्युक्तः प्राहसुग्रीवो भ्रातरं हेतुमद्वचः ।
प्राप्तकालममित्रघ्नं रामं सम्बोधयन्निव ॥ ३.२८१.२९ ॥
こう言われて、スグリーヴァは兄に理にかなった言葉を語った。まるで敵を討つラーマを、ふさわしい時に呼び覚ますかのように。
3.281.30
हृतराज्यस्य मे राजन्हृतदारस्य च त्वया ।
किं मे जीवितसामर्थ्यमिति विद्धि समागतम् ॥ ३.२८१.३० ॥
王よ、おまえは私の王国と妻を奪った。ならば私に残る生きる力がどれほどのものか、知るがよい。
3.281.31
एवमुक्त्वाबहुविधं ततस्तौ सन्निपेततुः ।
समरे वालिसुग्रीवौ सालतालशिलायुधौ ॥ ३.२८१.३१ ॥
このように様々に語った後、二人は戦いで相まみえた。ヴァーリとスグリーヴァ、武器は沙羅樹と多羅樹と岩であった。
3.281.32
उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः ।
उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः ॥ ३.२८१.३२ ॥
二人は互いに打ち合い、二人とも地に倒れた。二人は驚くべき跳躍をし、拳で互いを打った。
3.281.33
उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ ।
शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ ॥ ३.२८१.३३ ॥
血にまみれ、爪と歯の傷に覆われた二人の英雄は、そのとき花咲くキンシュカの木のように輝いた。
3.281.34
न विशेषस्तयोर्युद्धे यदा कश्चन दृश्यते ।
सुग्रीवस् तदा मालां हनुमान्कण्ठ आसजत् ॥ ३.२८१.३४ ॥
戦いの中で二人の間に何の違いも見えなかったとき、ハヌマーンはスグリーヴァの首に花輪をかけた。
3.281.35
स मालया तदा वीरः शुशुभे कण्ठसक्तया ।
श्रीमानिव महाशैलो मलयो मेघमालया ॥ ३.२८१.३५ ॥
首に掛かったその花輪とともに、英雄はそのとき雲の連なりに包まれた輝かしい大山マラヤのように輝いた。
3.281.36
कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः ।
विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्षयन् ॥ ३.२८१.३६ ॥
印をつけられたスグリーヴァを見て、大弓の名手ラーマは、ヴァーリを狙って最上の弓を引き絞り、狙いを定めた。
3.281.37
विष्फारस्तस् धनुषो यन्त्रस्येव तदा बभौ ।
वितत्रास तदा वाली शरेणाभिहतो हृदि ॥ ३.२८१.३७ ॥
その弓の弦の音は機械のように響き渡り、矢に胸を射抜かれたヴァーリンは怯えた。
3.281.38
स भिन्नहृदयो वाली वक्राच्छोणितमुद्वमन् ।
ददर्शावस्थितं रामं ततः सौमित्रिणा सह ॥ ३.२८१.३८ ॥
心臓を貫かれたヴァーリンは口から血を吐きながら、そのときサウミトリとともに立つラーマを見た。
3.281.39
गर्हयित्वास काकुत्स्थं पपात भुवि मूर्च्छितः ।
तारा ददर्श तं भूमौ तारापतिमिव च्युतम् ॥ ३.२८१.३९ ॥
カクトゥスタの末裔ラーマを非難した後、彼は気を失って地に倒れた。ターラーは、落ちた月のように地に横たわる彼を見た。
3.281.40
हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत ।
तां तारापतिमुखीं तारां निपतितेश्वराम् ॥ ३.२८१.४० ॥
ヴァーリンが殺されると、スグリーヴァはキシュキンダーに戻り、夫が倒れた月の顔のターラーを迎えた。
3.281.41
रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे ।
निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः ॥ ३.२८१.४१ ॥
しかし賢明なラーマは、スグリーヴァに仕えられながら、マーリャヴァット山の吉兆の斜面で四か月間住んだ。
3.281.42
रावणोऽपिपुरीं गत्वालङ्कां कामबलात्कृतः ।
सीतां निवेशयामास भवने नन्दनोपमे ॥ ३.२८१.४२ ॥
ラーヴァナもラーンカー城へ行き、欲望の力に駆られて、ナンダナの園のような館にシーターを住まわせた。
3.281.43
अशोकवनिकाभ्यासे तापसास्रमसन्निभे ।
भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी ॥ ३.२८१.४३ ॥
アショーカの林の近く、苦行者の庵のような所で、夫を思い続けるほっそりした体のシーターは、女苦行者の装いをしていた。
3.281.44
उपवासतपःशीला ततः सा पृथुलेक्षणा ।
उवास दुःखवसतिं फलमूलकृताशना ॥ ३.२८१.४४ ॥
断食と苦行に励む広い目のシーターは、憂いの住処に留まり、果実と根を食べて暮らしていた。
3.281.45
दिदेश राक्षसीस्तत्ररक्षणे राक्षसाधिपः ।
प्रासासिशूलपरशुमुद्गरालातधारिणीः ॥ ३.२८१.४५ ॥
羅刹の王は、槍・剣・三叉戟・斧・棍棒・燃える松明を持つ羅刹女たちを、そこでの見張りに任じた。
3.281.46
द्व्यक्षीं त्र्यक्षीं ललाटक्षीं दीर्घजिह्वामजिह्विकाम् ।
त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् ॥ ३.२८१.४६ ॥
二つ目、三つ目、額に目のある者、長い舌の者、舌のない者、三つの乳房の者、一本足の者、三つ編みの者、一つ目の者。
3.281.47
एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः ।
परिवार्यासते सीतां दिवारात्रमतन्द्रिताः ॥ ३.२८१.४७ ॥
これらや他の者たちは、燃える目を持ち、ラクダの瘤のように高く逆立つ髪をして、昼も夜も倦むことなくシーターを取り囲んで座っていた。
3.281.48
तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वराः ।
तर्जयन्ति सदा रौद्राः परुषव्यञ्जनस्वराः ॥ ३.२८१.४८ ॥
恐ろしい声の鬼女たちは、いつも長い目のシーターを脅し、荒々しい言葉で責め立てた。
3.281.49
खादाम पाटयामैनां तिलशः प्रविभज्यताम् ।
येयं भर्तारमस्माकमवमत्येह जीवति ॥ ३.२८१.४९ ॥
この女を食べ、引き裂き、ゴマ粒ほどの細かさに分けよう。我らの主君を侮辱して、ここに生きているこの女を。
3.281.50
इत्येवं परिभर्त्सन्तीस्त्रासयानाः पुनः पुनः ।
भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः ॥ ३.२८१.५० ॥
こうして彼女たちが繰り返し脅し怯えさせると、夫を思う悲しみに満ちた彼女は深く嘆息して、彼女らにこう言った。
3.281.51
आर्याः खादत मां शीघ्रं न मे लोभोस्ति जीविते ।
विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् ॥ ३.२८१.५१ ॥
気高き女たちよ、早く私を食べなさい。蓮の目と黒く巻いた髪の彼なしに生きる望みは、私にはない。
3.281.52
अद्यैवाहं निराहारा जीवितप्रियवर्जिता ।
शोषयिष्यामि गात्राणि बल्ली तलगता यथा ॥ ३.२८१.५२ ॥
今日のうちに私は食を断ち、命の愛しい人を失って、地に伏した蔓のように我が身を干からびさせよう。
3.281.53
न त्वन्यमभिगच्छेयं पुमांसं राघवादृते ।
इति जानीत सत्यं मेक्रियतां यदनन्तरम् ॥ ३.२८१.५३ ॥
ラーガヴァ以外のどの男にも私は近づかない。これが私の真実だと知りなさい。さあ、この後なすべきことをするがよい。
3.281.54
तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः ।
आख्यातुं राक्षसेन्द्राय जन्मुस्तत्सर्वमादितः ॥ ३.२८१.५४ ॥
彼女の言葉を聞いて、あの荒々しい声の羅刹女たちは、初めから一部始終を羅刹王に告げに行った。
3.281.55
गतासु तासु सर्वासु त्रिजटा नाम राक्षसी ।
सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी ॥ ३.२८१.५५ ॥
彼女らが皆去った後、ダルマを知り、優しい言葉を話すトリジャター(Trijaṭā)というラークシャシーが、ヴァイデーヒーを慰めた。
3.281.56
सीते वक्ष्यामि ते किंचिद्विश्वासं करु मे सखि ।
भयं त्वं त्यज वामोरु शृणु चेदं वचो मम ॥ ३.२८१.५६ ॥
シーター、あなたに少し話しましょう。友よ、私を信じなさい。美しい腿の女よ、恐れを捨て、私のこの言葉を聞きなさい。
3.281.57
अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः ।
स रामस्य हितान्वेषी त्वदर्थे मामचूचुदत् ॥ ३.२८१.५७ ॥
ラーマの利益を求める、賢く老いた羅刹の最上者アヴィンディヤが、あなたのために私を促した。
3.281.58
सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च ।
भर्ता तेकुशली रामोलक्ष्मणानुगतो बली ॥ ३.२८१.५८ ॥
私の言葉として、シーターを慰め落ち着かせて伝えよ。あなたの夫、力強きラーマはラクシュマナを伴い無事である。
3.281.59
सख्यं वानरराजेन शक्रप्रतिमतेजसा ।
कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः ॥ ३.२८१.५९ ॥
栄光あるラーガヴァは、インドラに等しい輝きの猿王と友好を結び、あなたのために奮起している。
3.281.60
मा च ते भूद्भयं भीरु रावणाल्लोकगर्हितात् ।
नलकूबरशापेन रक्षिता ह्यसि नन्दिनि ॥ ३.२८१.६० ॥
臆病な人よ、世に非難されるラーヴァナを恐れるな。娘よ、あなたはナラクーバラの呪いによって守られている。
3.281.61
शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन् ।
न शक्रोत्यवशां नारीमुपैतुमजितेन्द्रियः ॥ ३.२८१.६१ ॥
この罪人は昔、嫁のランバーに触れようとしたため呪われた。感覚を制御できない彼は、望まない女性に近づくことができない。
3.281.62
क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः ।
सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति ॥ ३.२८१.६२ ॥
スグリーヴァに守られたあなたの夫は、すぐにやって来るでしょう。賢明なサウミトリ(ラクシュマナ)と共に、あなたの心を解放するでしょう。
3.281.63
स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः ।
विनाशायास्य दुर्बुद्धेः पौलस्त्यस्य कुलस्य च ॥ ३.२८१.६३ ॥
私は非常に恐ろしい夢を見た。不吉を示すその夢は、この邪悪な心のパウラスティヤ(ラーヴァナ)とその一族の滅びを告げている。
3.281.64
दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः ।
स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः ॥ ३.२८१.६४ ॥
この夜の徘徊者は残酷で、心は邪悪、行いは卑しい。生まれつきの性質と品行の欠陥によって、彼は皆の恐怖を増大させる。
3.281.65
स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः ।
मया विनासलिङ्गानि स्वप्ने दृष्टानि तस्य वै ॥ ३.२८१.६५ ॥
すべての神々と張り合い、時によって心を打ち砕かれた者——その破滅の兆しを、私は夢の中で見た。
3.281.66
तैलाभिषिक्तो विकचो मज्जनप्के दशाननः ।
असकृत्स्वरयुक्ते तु रथे नृत्यन्निव स्थितः ॥ ३.२८१.६६ ॥
油を塗られ、髪を振り乱した十面のラーヴァナが沐浴の場にいる。ロバに繋がれた戦車の上で、何度も踊っているかのように立っている。
3.281.67
कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः ।
गच्छन्ति दक्षिणामाशां रक्तमाल्यानुलेपनाः ॥ ३.२८१.६७ ॥
クンバカルナらは皆裸で、髪を乱し、赤い花輪と赤い香油を身につけ、南の方角へ向かっている。
3.281.68
श्वेतातपत्रः सोष्णीषः शुक्लमाल्यानुलेपनः ।
श्वेतपर्वतमारूढ एक एव विभीषणः ॥ ३.२८१.६८ ॥
白い傘と頭巾をつけ、白い花輪と白い香油を身につけたヴィビーシャナが、ただ一人白い山に登っている。
3.281.69
सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः ।
श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् ॥ ३.२८१.६९ ॥
彼の四人の大臣もまた白い花輪と白い香油を身につけ、白い山に登っている。彼らはこの大いなる危難から解放されるだろう。
3.281.70
रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा ।
यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः ॥ ३.२८१.७० ॥
ラーマの武器によって海を伴う大地は取り囲まれた。あなたの夫は、その名声で全大地を満たすだろう。
3.281.71
हस्तिसक्थिसमारूढो भुञ्जानो मधुपायसम् ।
लक्ष्मणश्च मया दृष्टो दिधक्षुः सर्वतो दिशम् ॥ ३.२८१.७१ ॥
また私はラクシュマナを見た。象の背にまたがり、蜂蜜と乳粥を食べ、あらゆる方角を焼き尽くそうとしていた。
3.281.72
रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता ।
असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् ॥ ३.२८१.७२ ॥
血に濡れた体で泣きながら、虎に守られたあなたが北の方角へ向かうのを、私は幾度も見た。
3.281.73
हर्षमेष्यसि वैदेहि क्षिप्रं भर्त्रा समन्विता ।
राघवेण सहभ्रात्रा सीते त्वमचिरादिव ॥ ३.२८१.७३ ॥
ヴァイデーヒーよ、夫と結ばれて、やがてあなたは喜びを得るでしょう。シーターよ、ラーghavaとその弟と共に、あなたは間もなく、まるで今のように、再び会うでしょう。
3.281.74
इत्येतन्मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः ।
बभूवाशावती बाला पुनर्भर्तृसमागमे ॥ ३.२८१.७४ ॥
トリジャターのこの言葉を聞いて、子鹿のような目の若い女性は、夫との再会への希望に満ちた。
3.281.75
तावदभ्यागता रौद्र्यः पिशाच्यस्ताःसुदारुणाः ।
ददृशुस्तां त्रिजटया सहासीनां यथापुरम् ॥ ३.२८१.७५ ॥
そのとき近づいてきた凶暴で極めて恐ろしい女のピシャーチャたちは、彼女がトリジャターと共に以前のように座っているのを見た。