Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.299

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.299.1

एतस्मिन्नेव काले तु द्युमत्सेनो महाबलः ।
लब्धचक्षुः प्रसन्नायां दृष्ट्यां सर्वं ददर्श ह ॥ ३.२९९.१ ॥

就在此时,大力的达尤摩特塞那恢复了视力,以清澈的目光看见了一切。

3.299.2

स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया ।
पुत्रहेतोः परामार्तिं जगाम भरतर्षभ ॥ ३.२९९.२ ॥

他与妻子舍婆耶走遍所有的修行处,为儿子陷入极大的痛苦,婆罗多中的雄牛啊。

3.299.3

तावाश्रमान्नदीश्चैववनानि च सरांसि च ।
तस्यां निशि विचिन्वन्तौ दम्पती परिजग्मतुः ॥ ३.२९९.३ ॥

那一夜,这对夫妇在修行处、河流、森林和湖泊中四处寻找。

3.299.4

श्रुत्वा शब्दं तु यं कंचिदुन्मुखौ सुतशङ्कया ।
सावित्रीसहितोऽभ्येति सत्यवानित्यभाषताम् ॥ ३.२९९.४ ॥

听到任何声音,他们因担忧儿子而转过脸去,说:“萨维特丽陪着萨提耶万来了。”

3.299.5

भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः ।
कुशकणअटकविद्धाङ्गावुनमत्ताविव धावतः ॥ ३.२९९.५ ॥

双脚撕裂粗糙带伤,沾满鲜血,身体被吉祥草和荆棘刺穿,他们像疯子一样奔跑。

3.299.6

ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः ।
परिवार्य समाश्वास्य तावानीतौ स्वमाश्रमम् ॥ ३.२९९.६ ॥

于是住在修行处的所有婆罗门走近,围绕着他们,安慰他们,并把这两人带回了自己的修行处。

3.299.7

तत्रभार्यासहायः स वृतो वृद्धैस्तपोधनैः ।
आश्वासितोपि चित्रार्थैः पूर्वराजकथाश्रयैः ॥ ३.२९९.७ ॥

他与妻子在一起,被以苦行为财富的年长苦行者环绕,尽管他们以基于古代帝王故事的、含义多样的话语安慰他,

3.299.8

ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया ।
बाल्यवृत्तानि पुत्रस्य सावित्र्या दर्शनानि च।
शोकं जग्मतुरन्योन्यं स्मरन्तौ भृशदुःखितौ ॥ ३.२९९.८ ॥

那二位老人再次得到安慰,却因渴望见到儿子,追忆儿子童年的事迹和萨维特丽的容貌,彼此陷入悲伤,极度痛苦。

3.299.9

हापुत्र हासाध्वि वधु क्वासिक्वासीत्यरोदताम् ।
ब्राह्मणः सत्यवाक्येषामुवाचेदं तयोर्वचः ॥ ३.२९९.९ ॥

“哎呀,儿啊!哎呀,贤惠的媳妇啊!你在哪里?你在哪里?”他们这样哭泣。那位诚实的婆罗门便对他们二人说了这番话。

3.299.10

यथास्य भार्या सावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥ ३.२९९.१० ॥

正如他的妻子萨维特丽具备苦行、克己与良好的品行,萨提耶瓦特也还活着。

3.299.11

वेदाः साङ्गा मयाऽधीतास्तपो मे संचितं महत् ।
कौमारब्रह्मचर्यं च गुरवोऽग्निश्च तोषिताः ॥ ३.२९९.११ ॥

我研习了带支分的吠陀,积累了巨大的苦行,自幼守持梵行,并使师长与火神都感到欢喜。

3.299.12

समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे ।
वायुभक्षोपवासश्च कृतोमे विधिवत्सदा ॥ ३.२९९.१२ ॥

我以专注的心完成了所有誓愿;风餐与断食,我也始终依仪轨而行。

3.299.13

अनेन तपसा वेद्मि सर्वं परचीकीर्षितम् ।
सत्यमेतन्निबोधध्वं ध्रियते सत्यवानिति ॥ ३.२९९.१३ ॥

凭此苦行,我知晓他人所愿的一切。此为真实,你们应当明白:萨提亚哇那正被维持着。

3.299.14

उपाध्यायस्य मे वक्राद्यथा वाक्यं विनिःसृतम् ।
नैव जातु भवेन्मिथ्या तथा जीवति सत्यवान् ॥ ३.२९९.१४ ॥

正如我师口中所出之言绝不会虚假,萨提亚哇那也确实活着。

3.299.15

यथाऽस्य भार्या सावित्री सर्वैरेव सुलक्षणैः ।
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ॥ ३.२९९.१५ ॥

正如他的妻子萨维特丽具备一切使人免于守寡的吉祥之相,萨提亚哇那也活着。

3.299.16

यथाऽस्य भार्या सावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥ ३.२९९.१६ ॥

正如他的妻子萨维特丽具备苦行、克制与良好的行为,萨提亚哇那也活着。

3.299.17

यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् ।
गताऽऽहारमकृत्वैव तथा जीवति सत्यवान् ॥ ३.२९९.१७ ॥

正如你的目光所向,正如萨维特丽不食而行其誓,萨提亚哇那也活着。

3.299.18

यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः ।
पार्थिवीं चैववृद्धिं ते तथा जीवति सत्यवान् ॥ ३.२९९.१८ ॥

正如在寂静之方,走兽与飞禽鸣叫,你的尘世福运增长,萨提亚哇那也活着。

3.299.19

सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः ।
दीर्घायुर्लक्षणोपेतस्तथा जीवति स्यवान् ॥ ३.२९९.१९ ॥

你的儿子具备一切美德,为民所爱;同样,长寿且具吉祥征相的萨蒂亚万还活着。

3.299.20

एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः ।
तांस्तान्विगणयन्सर्वांस्ततः स्थिर इवाभवत् ॥ ३.२९९.२० ॥

他被那些说真话的苦行者如此安慰,逐一思量他们的每一句话,之后便仿佛变得坚定了。

3.299.21

ततो मुहूर्तात्सावित्री भर्त्रा सत्वता सह ।
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ॥ ३.२९९.२१ ॥

片刻之后,萨维特丽与丈夫萨特瓦塔在夜间来到修道院,欢喜地走了进去。

3.299.22

दृष्ट्वा चोत्पतिताः सर्वेहर्षं जग्मुश्च ते द्विजाः ।
कण्ठं माता पिता चास्य समालिङ्ग्याभ्यरोदतां ॥ ३.२९९.२२ ॥

众婆罗门见到他,都纷纷起身欢喜;他的父母拥抱他的脖颈,痛哭起来。

3.299.23

पुत्रेण संगतं त्वां तु चक्षुष्मन्तं निरीक्ष्य च ।
सर्वे वयं वै पृच्छामो वृद्धिं वै पृथिवीपते ॥ ३.२९९.२३ ॥

看到你与儿子团聚、重见光明,地上之主啊,我们都来询问你的安好。

3.299.24

समागमेन पुत्रस्य सावित्र्या दर्शनेन च ।
चक्षुषश्चात्मनो लाभात्रिभिर्दिष्ठ्या विवर्धसे ॥ ३.२९९.२४ ॥

借着与儿子团聚、见到萨维特丽以及自己重见光明这三件事,你因福运而兴旺起来。

3.299.25

सर्वैरस्माभिरुक्तं यत्तथा तन्नात्रसंशयः ।
भूयोभूयः समृद्धिस्ते क्षिप्रमेव भविष्यति ॥ ३.२९९.२५ ॥

我们所说的都是如此,毫无疑问。你的繁荣将一再增长,并且很快就会到来。

3.299.26

ततोऽग्निं तत्र संज्वाल्य द्विजास्ते सर्व एव हि ।
उपासांचक्रिरे पार्थ द्युमत्सेनं महीपतिम् ॥ ३.२९९.२६ ॥

随后,他们在那里点燃火,所有婆罗门(再生者)啊,阿周那,都供奉了国王德尤玛特森。

3.299.27

शैव्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः ।
सर्वैस्तैरभ्यनुज्ञाता विशोका समुपाविशन् ॥ ३.२९९.२७ ॥

Śaibyā、Satyavān与Sāvitrī一同站立;在他们所有人的许可下,无忧无虑地坐了下来。

3.299.28

ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः ।
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ॥ ३.२९९.२८ ॥

于是,与国王同坐的那些林居者们满怀好奇,阿周那啊,向国王之子发问。

3.299.29

प्रागेव नागतं कस्मात्सभार्येण त्वया विभो ।
विरात्रे चागतं कस्मात्कोनु बन्धस्तवाभवत् ॥ ३.२९९.२९ ॥

威严者啊,你为何不先与妻子一同前来?为何在夜将尽时才来?你有何阻碍?

3.299.30

संतापितः पिता माता वयं चैव नृपात्मज ।
कस्मादिति न जानीमस्तत्सर्वं वक्तुमर्हिसि ॥ ३.२९९.३० ॥

王子啊,父亲、母亲和我们都很忧虑。为何如此,我们不知道;你应当把一切都告诉我们。

3.299.31

पित्राऽहमभ्यनुज्ञातः सावित्रीसहितो गतः ।
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥ ३.२९९.३१ ॥

得到父亲的允许,我与萨维特丽同行。随后,我在林中砍柴时,头部感到剧痛。

3.299.32

सुप्तश्चाहं वेदनया चिरमित्युपलक्षये ।
तावत्कालं न च मया सुप्तपूर्वं कदाचन ॥ ३.२९९.३२ ॥

我感觉自己因疼痛沉睡了很久;从前我从未睡过这么长时间。

3.299.33

सर्वेषामेव भवतां संतापो मा भवेदिति ।
अतो विरात्रागमनं नान्यदस्तीह कारणम् ॥ ३.२९९.३३ ॥

为了不让你们任何人忧虑,我深夜晚归并无别的原因。

3.299.34

अकस्माच्चक्षुः प्राप्तिर्द्युमत्सेनस्य ते पितुः ।
नास्य त्वं कारणं वेत्सि सावित्री वक्तुमर्हति ॥ ३.२९९.३४ ॥

萨维特丽,你的父亲德尤马特塞纳忽然恢复了视力。你不知道其中的原因吗?请说出来吧。

3.299.35

श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् ।
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ॥ ३.२९९.३५ ॥

萨维特丽,我想听听,因为你通晓高下万物。萨维特丽,凭你的光辉,我认出你正如萨维特丽本人。

3.299.36

त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् ।
रहस्यं यदि ते नास्ति किंचिदत्र वदस्व नः ॥ ३.२९९.३६ ॥

此中原因你是知道的,所以请说实话。若此事你并无秘密,就请告诉我们。

3.299.37

एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः ।
न हि किंचिद्रहस्यं मे श्रूयतां तथ्यमेव यत् ॥ ३.२९९.३७ ॥

如您所知,事情正是如此;您的决意并无他意。我没有任何秘密;请听真实之言。

3.299.38

मृत्युर्मे पत्युराख्यातो नारदेन महात्मना ।
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ॥ ३.२९९.३८ ॥

我丈夫的死亡是伟大的那罗陀所告知的。那一天今天已经到来;因此我不会舍弃他。

3.299.39

सुप्तं चैनं साक्षादुपागच्छत्सकिंकरः ।
स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ॥ ३.२९९.३९ ॥

他正睡着时,亲自带着随从来到他面前;将他捆绑,带往祖先所居的方向。

3.299.40

अस्तौषं तमहं देवं सत्येन वचसा विभुम् ।
पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ॥ ३.२९९.४० ॥

我以真实的言辞赞颂那位大神,他赐予我五个恩惠;请从我这里听取。

3.299.41

चक्षुषी च स्वराज्यंच द्वौ वरौ श्वशुरस्य मे ।
लब्धं पितुः पुत्रशतं पुत्राणां चात्मनः शतम् ॥ ३.२९९.४१ ॥

视力与他自己的王国——这是给我公公的两个恩惠;我父亲得到了一百个儿子,我自己也得到了一百个儿子。

3.299.42

चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् ।
भर्तुर्हि जीवितार्थं तु मया चीर्णं त्विदं व्रतम्। ॥ ३.२९९.४२ ॥

我的丈夫萨提亚瓦特获得了四百年的寿命;我之所以行此誓愿,正是为了丈夫的生命。

3.299.43

एतत्सर्वं मयाऽऽख्यातं कारणं विस्तरण वः ।
यथावृत्तं सुखोदर्कमिदं दुःखं महन्मम ॥ ३.२९९.४३ ॥

这一切我已向你们详细讲述了其原因。事情经过如此;其结果是幸福的,但我的这份悲痛却很深重。

3.299.44

निमज्ज्मानं व्यसनैरभिद्रुतं ।
कुलं नरन्द्रस्य तमोमये ह्रदे।
त्वया सुशीलव्रतपुण्यया कुलं ।
रसमुद्धृतं साध्वि पुनः कुलीनया ॥ ३.२९९.४४ ॥

贤淑的女子啊!国王的家族被灾难所困,正沉没于黑暗的深潭之中;而你,以良好的品行与誓愿而纯洁,高贵的女子啊,已使它的精华重新被举起。

3.299.45

तथा प्रशस्य ह्यभिपूज्य चैव ।
वरस्त्रियं तामृषयः समागताः।
नरेन्द्रमामन्त्र्य सपुत्रभञ्जसा ।
शिवेन रजग्मुर्मुदिताः स्वमालयम् ॥ ३.२९९.४५ ॥

如此,众仙人赞美并敬拜了那位杰出的女子,然后向国王告别,与子孙一道,怀着祝福欢喜地回到各自的住处。