摩诃婆罗多 · 章 3.300
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.300.1
तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले ।
कृतपौर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः ॥ ३.३००.१ ॥
那夜过去,太阳升起之时,所有苦修者完成晨间仪式后聚集在一起。
3.300.2
तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः ।
द्युम्सेनाय नातृप्यन्कथयन्तः पुनः पुनः ॥ ३.३००.२ ॥
诸位大仙一遍又一遍地讲述萨维特丽那无上的福分,然而憍摩特塞那仍不满足。
3.300.3
ततः प्रकृतयः सर्वाः साल्वेभ्योऽभ्यागा नृपम् ।
आचख्युर्निहतं चैव स्वेनामात्येन तं द्विषम् ॥ ३.३००.३ ॥
随后,所有臣民从萨尔瓦国来到国王面前,报告说他的敌人已被他自己的大臣杀死。
3.300.4
तं मन्त्रिणा हतं प्रोच्य ससहायं सबान्धवम् ।
न्यवेदयन्यथावृत्तं विद्रुतं च द्विषद्बलम् ॥ ३.३००.४ ॥
他们说他已被大臣连同其助手和亲族杀死,并如实禀报事情经过,还报告敌军已经溃逃。
3.300.5
ऐकमत्यं च सर्वस्य जनस्य स्वं नृपं प्रति ।
सचक्षुर्वाऽप्यचक्षुर्वा स नो राजा भवत्विति ॥ ३.३००.५ ॥
所有百姓对于自己的国王意见一致:无论他有眼还是无眼,愿他作我们的国王。
3.300.6
अनेन निश्चयेनेह वयं प्रस्थापिता नृप ।
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् ॥ ३.३००.६ ॥
大王,依此决定我们被派遣到此;这些战车已经到达,您的四军也已到来。
3.300.7
प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः ।
अध्यास्स्व चिररात्राय पितृपैतामहं पदम् ॥ ३.३००.७ ॥
国王啊,愿你吉祥,启程吧。你的胜利已在城中宣告。请长久地登上你父祖的王位。
3.300.8
चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषाऽन्वितम् ।
मूर्ध्ना निपतिताः सर्वेविस्मयोत्फुल्ललोचनाः ॥ ३.३००.८ ॥
众人见那位重获眼目、身体完好的国王,个个惊叹得睁大眼睛,以头触地俯伏在地。
3.300.9
तोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः ।
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति ॥ ३.३००.९ ॥
他恭敬地向住在修行处的那些年长婆罗门致敬,并受到他们所有人的尊敬,便向城市出发了。
3.300.10
शैव्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा ।
नरयुक्तेन यानेन प्रययौ सेनया वृता ॥ ३.३००.१० ॥
与西芙雅和萨维特丽同行,乘坐铺设精美、光彩照人、由人力拉动的车辆,被军队簇拥着,她启程了。
3.300.11
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः ।
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् ॥ ३.३००.११ ॥
于是祭司们欢喜地为迪尤玛特塞纳灌顶,并为他那伟大心胸的儿子举行仪式,立为太子。
3.300.12
ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् ।
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् ॥ ३.३००.१२ ॥
此后经过很长时间,萨维特丽生下了一百个儿子,他们都是从不退缩的英雄,增添了她的荣耀。
3.300.13
भ्रातृणां सोदराणां च तथैवास्याभवच्छतम् ।
मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम् ॥ ३.३००.१३ ॥
同样,摩德罗王阿湿婆波蒂的兄弟与同母兄弟之中也有一百人;而他从摩罗婆雅那里得到了一百个非常强大的儿子。
3.300.14
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च ।
भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतं ॥ ३.३००.१४ ॥
如此,萨维特丽将自己、父亲、母亲、婆婆、公公以及丈夫的全族,都从苦难中救了出来。
3.300.15
तथैवैषा हि कल्याणी द्रौपदी शीलसंमता ।
तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना ॥ ३.३००.१५ ॥
同样,这位吉祥的德劳帕蒂,因品德而受尊敬,是如萨维特丽一般的贤妻,她将救度你们所有人。
3.300.16
एवं स पाण्डवस्तेन अनुनीतो महात्मना ।
विशोको विज्वरो राजन्काम्यके न्यवसत्तदा ॥ ३.३००.१६ ॥
大王啊,那位班度之子经这位大德如此劝慰,便脱离了忧愁与焦虑,于是住在了迦密耶迦林中。
3.300.17
यश्चेदं शृणुयाद्भक्त्या सावित्र्याख्यानमुत्तमम् ।
स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान्नरः ॥ ३.३००.१७ ॥
若有人以虔敬之心聆听这篇至上的萨维特丽故事,他便会快乐,所有的愿望都得以成就,也不会遭遇悲苦。