摩诃婆罗多 · 章 3.305
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.305.1
ब्राह्मणं यन्त्रिता राजन्नुपस्थास्यामि पूजया ।
यथाप्रतिज्ञं राजेन्द्रन च मिथ्या ब्रवीम्यहम् ॥ ३.३०५.१ ॥
大王啊,我将以克制与敬意侍奉婆罗门,正如我所许诺的,王中之王啊;我不说谎。
3.305.2
एष चैव स्वभावो मे पूजयेयं द्विजानिति ।
तव चैव प्रियं कार्यं श्रेयश्च परमं मम ॥ ३.३०५.२ ॥
尊敬再生者是我的天性。你所喜爱的事也必须去做,这便是我最高的善果。
3.305.3
यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि ।
यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति ॥ ३.३०५.३ ॥
无论尊者傍晚来、清晨来、夜里来,还是半夜来,他都不会对我发怒。
3.305.4
लाभो ममैष राजेन्द्र यद्वैपूजयितुं द्विजान् ।
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम ॥ ३.३०५.४ ॥
王中之王啊,尊敬再生者对我是一种收获。人中之最啊,遵从你的命令,我将做有益之事。
3.305.5
विस्रब्धो भवराजेन्द्र न व्यलीकं द्विजोत्तमः ।
वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते ॥ ३.३०५.५ ॥
王中之王啊,请放心;最优秀的再生者不会遭受任何冒犯。他将在你的家中居住——这是我真诚地告诉你的。
3.305.6
यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ ।
यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः ॥ ३.३०५.६ ॥
无瑕的人啊,凡是这位婆罗门所喜爱、所受益的,也是你所需要的,我都将为此努力。大王啊,愿你心中的焦灼消散。
3.305.7
ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते ।
तारणाय समर्थाः स्युर्विपरीते वधाय च ॥ ३.३०५.७ ॥
噢,大地之主!当受尊敬的大福德婆罗门被敬重时,他们能够拯救;被轻慢时,他们也能够毁灭。
3.305.8
रसाऽहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम् ।
न मत्कृतेव्यथां राजन्प्राप्स्यसि द्विजसत्तमात् ॥ ३.३०५.८ ॥
我明白此事,我将使那位最优秀的再生者欢喜。大王啊,因我之故,你不会从那位最优秀的再生者那里遭受苦恼。
3.305.9
अपराधेऽपि राजेन्द्र राज्ञामश्रेयसे द्विजाः ।
भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा ॥ ३.३०५.९ ॥
众王之主啊,即使受到冒犯,再生者也会对国王造成祸害,正如往昔因苏甘雅之故的车耶那。
3.305.10
नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम् ।
यथा त्वया नरेन्द्रेदं भापितं ब्राह्मणं प्रति ॥ ३.३०५.१० ॥
人主啊,正如你对那位婆罗门所说,我将以最严格的自律侍奉那位最优秀的再生者。
3.305.11
एवं ब्रुवन्तीं बहुशः परिष्वज्य समर्थ्य च ।
इतिचेति च क्रतव्यं राजा सर्वमथादिशत् ॥ ३.३०५.११ ॥
国王多次拥抱并鼓励她,她一再这样说,于是国王一一吩咐她:此事应当这样做,彼事也应当做。
3.305.12
एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया ।
मद्धितार्थं तथाऽऽत्मार्थंकुलार्थं चाप्यनिन्दिते ॥ ३.३०५.१२ ॥
善良的女子啊,你应当毫无疑虑地去做这件事——为了我的福祉,为了你自己的福祉,也为了家族的福祉,无可指摘的人啊。
3.305.13
एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः ।
पृथां परिददौ तस्मै द्विजाय द्विजवत्सलः ॥ ३.३०५.१३ ॥
如此说罢,大名鼎鼎、爱护婆罗门的昆提跋阇将少女普利塔许配给那位再生者。
3.305.14
इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता ।
अपराध्येत यत्किंचिन्न कार्यं हृदि तत्त्वया ॥ ३.३०५.१४ ॥
婆罗门啊,这是我的女儿,年幼,在安乐中长大。如果她有什么过失,您不可记在心上。
3.305.15
द्विजातयो महाभागा वृद्धबालतपस्विषु ।
भवन्त्यक्रोधनाः प्रायो ह्यपराद्धेषु नित्यदा ॥ ३.३०५.१५ ॥
身福殊胜的再生者通常对老人、幼童和苦行者不生怒意,对冒犯者也始终如此。
3.305.16
सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः ।
यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम ॥ ३.३०५.१६ ॥
最优秀的婆罗门啊,即便面对极大的过失,再生者也应当宽容;按其力量与热忱所献的供养,应当接受。
3.305.17
तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः ।
हंसचन्द्रांशुसंकाशं गृहमस्मै न्यवेदयत् ॥ ३.३०५.१७ ॥
婆罗门说:“就这样吧。”那位国王心中欢喜,便将一座如天鹅与月光般明亮的住所交给了他。
3.305.18
तत्राग्निशरणे क्लृप्तमासनं तस्य भानुमत् ।
आहारादि च सर्वं तत्तथैव प्रत्यवेदयत् ॥ ३.३०५.१८ ॥
在那火房之中为他安设了一个光亮的座位,饮食等一切,他也都同样地向其报告。
3.305.19
निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च ।
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने ॥ ३.३०५.१९ ॥
公主抛开疲倦与傲慢,竭尽全力使婆罗门欢喜。
3.305.20
तत्रसा ब्राह्मणं गत्वा पृथा शौचपरा सती ।
विधिवत्परिचारार्हं देववत्पर्यतोषयत् ॥ ३.३०५.२० ॥
贤德的普利塔专心于洁净,前往婆罗门处,依礼如敬神一般,使他充分满意,他值得侍奉。