摩诃婆罗多 · 章 3.306
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.306.1
सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् ।
तोषयामास शुद्धेन मनसा संशितव्रता ॥ ३.३०६.१ ॥
大王啊,那位持守严格誓愿的少女,以清净之心使持守严格誓愿的婆罗门欢喜。
3.306.2
प्रातरेष्याम्यथेत्युक्त्वा कदाचिद्द्विजसत्तमः ।
तत आयाति राजेन्द्र सायं रात्रावथो पुनः ॥ ३.३०६.२ ॥
诸王之王啊,那位最优秀的再生者说了“明早我会来”,有时却在傍晚,又在夜里再度前来。
3.306.3
तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः ।
पूजयामास सा कन्या वर्धमानैस्तु सर्वदा ॥ ३.३०६.३ ॥
无论何时,她都以食物、餐饭和住处供养他,并且始终怀着日益增长的虔敬。
3.306.4
अन्नादिसमुदाचारः शय्यासनकृतस्तथा ।
दिवसेदिवसे तस्य वर्धते न तु हीयते ॥ ३.३०६.४ ॥
对他的饮食等款待,以及床铺与座位的安排,日复一日地增加,并未减少。
3.306.5
निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा ।
ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा ॥ ३.३०६.५ ॥
大王啊,即使以斥责、诽谤和同样不悦耳的言语相待,普利塔当时也没有对那位婆罗门做任何不悦之事。
3.306.6
स्वप्नकाले पुनश्चैति न चैति बहुशो द्विजः ।
सुदुर्लभमपि ह्यन्नं दीयतामिति सोऽब्रवीत् ॥ ३.३०६.६ ॥
到了入睡时分,那位婆罗门又会回来,也常常不来。他说:“即使是极难得的食物,也要给他。”
3.306.7
कृतमेव च तत्सर्वं यथा तस्मै न्यवेदयत् ।
शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता ॥ ३.३०६.७ ॥
她按照他所吩咐的一切去做,像弟子一样,像儿子一样,也像姐妹一样,克制谨慎地侍奉他。
3.306.8
यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा ।
प्रीतिमुत्पादयामास कन्यारत्नमनिन्दिता ॥ ३.३०६.८ ॥
哦,王中之王,这位无可指摘的少女中的珍宝,依照这位最优秀的再生者的喜好行事,赢得了他的欢心。
3.306.9
तस्यास्तु शीलवृत्तेन तुतोप द्विजसत्तमः ।
अवधानेन भूयोऽस्याः परं यत्नमथाकरोत् ॥ ३.३०६.९ ॥
这位最优秀的再生者因她的品德与操行而感到满意,随后更加用心地为她付出了极大的努力。
3.306.10
तां प्रभाते च सायं च पिता पप्रच्छ भारत ।
अपितुष्यतिते पुत्रि ब्राह्मणः परिचर्यया ॥ ३.३०६.१० ॥
婆罗多的后裔啊,清晨和傍晚,父亲都问她:“女儿啊,婆罗门对你的侍奉满意吗?”
3.306.11
तं सा परममित्येवप्रत्युवाच यशस्विनी ।
ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः ॥ ३.३०६.११ ॥
这位荣耀的女子回答说:“很好。”于是心胸宽广的昆提菩阇获得了无上的喜悦。
3.306.12
ततः संवत्सरे पूर्णे यदाऽसौ जपतांवरः ।
नापश्यद्दुष्कृतंकिंचित्पृथायाः सौहृदे रतः ॥ ३.३०६.१२ ॥
此后整整一年过去,那位最擅长念诵的人,沉浸于普利塔的友情中,没有看到她有任何不当的行为。
3.306.13
ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत् ।
प्रीतोस्मि परमं भद्रे परिचारेण ते शुभे ॥ ३.३०६.१३ ॥
于是婆罗门心怀欢喜,对她说:“善良的女子啊,吉祥的女子啊,我因你的侍奉而非常欢喜。”
3.306.14
वरान्वृणीष्व क्रल्याणि दूरापान्मानुपैरिह ।
यैस्त्वं सीमन्तिनीः सर्वायशसाऽभिमविष्यसि ॥ ३.३०६.१४ ॥
善良的女子啊,请选择凡人难得的恩赐吧,借此你将超越所有女子的名声。
3.306.15
कृतानि मम सर्वाणि सस्या मे वेदवित्तम ।
त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम ॥ ३.३०६.१५ ॥
精通吠陀的最优者啊,我的所有职责都已完成。您已满意,如同我的父亲;婆罗门啊,凭您的恩赐,我的一切都已成就。
3.306.16
यदि नेच्छसि मत्तस्त्वं वरं भद्रे शुचिस्मिते ।
इमं मन्त्रं गृहाण त्वमाह्रानाय दिवौकसाम् ॥ ३.३०६.१६ ॥
善良的女子啊,明净微笑的女子啊,如果你不愿从我这里求得恩赐,那就接受这个咒语,用来召唤天界的居民。
3.306.17
यंयं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
तेनतेन वशे भद्रे स्थातव्यं ते भविष्यति ॥ ३.३०६.१७ ॥
善良的女子啊,你用此咒语所召唤的任何一位神,都将处于你的掌控之中;而你也必须服从于他。
3.306.18
अकामो वा सकामो वा स समेष्यति ते वशे ।
विबुधो मन्त्रसंभ्रान्तो वाक्यैर्भृत्य इवानतः ॥ ३.३०६.१८ ॥
无论他愿意与否,那位神都会在咒语的迷惑下来到你的掌控之中,如同被言语折服的仆人。
3.306.19
न शशक द्वितीयं सा प्रत्याख्यातुमनिन्दिता ।
तं वै द्विजातिप्रवरं तदा शापभयान्नृप ॥ ३.३०६.१९ ॥
无可指摘的她,因惧怕诅咒,不敢第二次拒绝那位最优秀的再生者,啊,国王。
3.306.20
ततस्तामनवद्याङ्गीं ग्राहयामास स द्विजः ।
मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् ॥ ३.३०६.२० ॥
于是那位婆罗门使那位肢体无瑕的女子接受了在阿闼婆·什罗中所闻的咒语集,啊,国王。
3.306.21
तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह ।
उपितोस्मि सुखं राजन्कन्यया परितोपितः ॥ ३.३०६.२१ ॥
将她交付之后,啊,诸王之主,他对建帝婆荐说:'啊,国王,我在此安乐居住,因少女而心满意足。'
3.306.22
तवगेहे सुविहितः सदा सुप्रतिपूजितः ।
साधयिष्यामहे तावदित्युक्त्वाऽन्तरधीयत ॥ ३.३०६.२२ ॥
在你家中,我一直被妥善款待、备受尊敬;现在我们就来完成我们的事务。'说完这些,他便消失了。
3.306.23
स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा ।
बभूव विस्मयाविष्टः पृथां च समपूजयत् ॥ ३.३०६.२३ ॥
国王看见那位婆罗门就在那里消失,便充满了惊异,并很好地尊敬了普利塔。