Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.37.1

कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः ।
संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ॥ ३.३७.१ ॥

过了一段时间,法王坚战回想起仙人的嘱咐,说出了这些话。

3.37.2

विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभ ।
सान्त्वपूर्वं स्मितं कृत्वापाणिना परिसंस्पृशन् ॥ ३.३७.२ ॥

人中雄牛啊,在僻静处,对智慧众所周知的阿周那,先以温和的话语和微笑,用手轻抚他。

3.37.3

स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः ।
धनंजयंधर्मराजो रहसीदमुवाच ह ॥ ३.३७.३ ॥

那位降伏敌人的法王沉思片刻,便私下向阿周那谈及森林流放之事,说道。

3.37.4

भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत ।
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ॥ ३.३७.४ ॥

婆罗多啊,在毗湿摩、德罗纳、克利巴、迦尔纳和德罗纳之子身上,四支的弓箭之学今日得以确立。

3.37.5

दैवं ब्राह्मं चासुरं च सप्रयोगचिकित्सितम् ।
सर्वास्त्राणां प्रयोगं च अभिजानन्ति कृत्स्नशः ॥ ३.३७.५ ॥

他们完全通晓天神的、梵天的和阿修罗的兵器,以及其运用与对治之法,还有一切兵器的运用。

3.37.6

ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः ।
संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते।
सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा ॥ ३.३७.६ ॥

他们都已被德拉陀罗咏陀罗之子妥善安抚;他们已分得应得之份,心满意足;他对他们以师长之礼相待,对一切勇士始终怀有无与伦比的深情。

3.37.7

आचार्या मानितास्तुष्टाः शान्तिं व्यवहरन्न्युत ।
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ॥ ३.३७.७ ॥

诸师受到尊敬而满足,以平和之道行事;在适当的时候得到恭敬供养,他们不会削弱自己的力量。

3.37.8

अद्य चेयं मही कृत्स्ना दुर्याधनवशानुगा ।
सग्रामनगरा पार्थ ससागरवनाकरा ॥ ३.३७.८ ॥

如今这整个大地,连同其村镇城邑、海洋、森林与矿藏,都服从于难敌的意志,啊,普利塔之子。

3.37.9

भवानेव प्रियोऽस्माकं त्वयि भारः समाहितः ॥ ३.३७.९ ॥

唯有您是我们所爱的;重担已经托付于您。

3.37.10

अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम ।
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया ॥ ३.३७.१० ॥

此时我看到一项合乎时宜的职责,啊,敌人的征服者。亲爱的儿子,我从黑岛仙人克里希那处领受了这部奥义。

3.37.11

गृहीतया तया सम्यग्जगत्सर्वं प्रकाशते ।
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ॥ ३.३७.११ ॥

若能正确领会,它便照亮整个世界。因此,亲爱的儿子,你应与那梵相契合,并保持专注安定。

3.37.12

देवतानां यथाकालं प्रसादं प्रतिपालय ।
तपसा योजयात्मानमुग्रेण भरतर्षभ ॥ ३.३७.१२ ॥

适时地保持诸神的恩惠。啊,婆罗多族的雄牛,以严酷的苦行使自己与神明相契。

3.37.13

धनुष्मान्कवची खङ्गी मुनिः साधुव्रते स्थितः ।
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ॥ ३.३७.१३ ॥

持弓、披甲、佩剑,作为坚守善德誓愿的苦行者,不让路于任何人,亲爱的孩子,向北方前行。

3.37.14

इनद्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय ।
वृत्राद्भीतैर्बलं देवैस्तदा शक्रे समर्पितम् ॥ ३.३७.१४ ॥

达那贾耶啊,因陀罗身上拥有所有神圣武器。当时,被弗栗多吓坏的诸神将力量托付给了帝释天(沙克拉)。

3.37.15

तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे ।
अनेन ब्रह्मणा तात सर्वं संप्रतिपद्यते ॥ ३.३७.१५ ॥

它们全都聚集在一处,那时你便能得到它们。亲爱的孩子,凭借这梵(咒语),一切都能获得。

3.37.16

शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति ।
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् ॥ ३.३७.१६ ॥

投靠帝释天(沙克拉)本人,他会赐给你武器。今天便受戒,前去拜见神祇补罗陀罗(Purandara)。

3.37.17

एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः ॥ ३.३७.१७ ॥

如此说完,全能的法王让他学习(咒语)。

3.37.18

दीक्षितं विधिना तेन यतवाक्कायमानसम् ।
अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः ॥ ३.३७.१८ ॥

这位英雄按照仪轨受戒,言语、身体、意念都已克制,于是他的兄长允许他出发。

3.37.19

निदेशाद्धर्मराजस्य द्रष्टुकामः पुरंदरम् ।
धनुर्गाण्डीवमादाय तथाऽक्षय्ये महेषुधी ॥ ३.३७.१९ ॥

奉法王之命,渴望见到因陀罗(布兰达罗),他拿起甘提拔弓和两个取之不尽的大箭袋。

3.37.20

कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् ।
हत्वाऽग्निं ब्राह्मणान्निष्कैः स्वस्तिवाच्य मह्यभुज ॥ ३.३७.२० ॥

穿着铠甲,系着皮革护具和蜥蜴皮指套,向火供奉,把金币施予婆罗门,听完吉祥祝福之后,那位大臂者。

3.37.21

प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः ।
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदैक्षत ॥ ३.३७.२१ ॥

大臂者手持弓箭出发,要杀戮持国之子;他叹了口气,向上望去。

3.37.22

तं दृष्ट्वा तत्रकौन्तेयं प्रगृहीतशरासनम् ।
अब्रुवन्ब्रह्मणाः सिद्धा भूतान्यन्तर्हितानि च ॥ ३.३७.२२ ॥

他们看见贡蒂之子手持弓箭站在那里,婆罗门、成就者和隐形的众生便说话了。

3.37.23

क्षिप्रमाप्नुहि कौन्तेय मनसा यद्यदिच्छसि ।
संसाधयस्व कौन्तेय ध्रुवोस्तु विजयस्तव ॥ ३.३७.२३ ॥

贡蒂之子啊,你心中所愿,速速得到吧。贡蒂之子啊,去成就它;愿你的胜利必定实现。

3.37.24

अब्रुवन्ब्राह्मणाः पार्थमिति कृत्वा जयाशिषः ।
सिद्धचारणसङ्घाश्च गन्धर्वाश्च तमब्रुवन् ॥ ३.३७.२४ ॥

婆罗门献上胜利的祝福,对般度之子这样说;成就者与持国天众的群体,以及乾闼婆,也对他说了话。

3.37.25

स्वस्तिव्रतमुपाधत्स्व सङ्कल्पस्तव सिद्ध्यताम् ।
मनोरथाश्च ते सर्वे समृद्ध्यन्तां महारथ ॥ ३.३७.२५ ॥

受持吉祥誓愿吧,愿你的决心得以成就。哦,大战车武士,愿你所有的愿望都得以圆满。

3.37.26

एवमुक्तोऽभिवाद्यैतान्बद्धाञ्जलिपुटस्तथा ।
तपोयोगमनाः पार्थः पुरोहितमवन्दत ॥ ३.३७.२६ ॥

如此被告知后,般度之子以合掌礼向他们致敬,心志专注于苦行与瑜伽,并向家族祭司顶礼。

3.37.27

ततः प्रीतमना जिष्णुस्तावुभावभ्यवन्दत ।
सहोदरावतिरथौ युधिष्ठिरवृकोदरौ ॥ ३.३७.२७ ॥

于是,心中欢喜的遮那尼优,向那二人——坚战与狼腹,他的同胞兄长,两位大战车武士——顶礼。

3.37.28

तं क्लान्तमनसौ पूर्णमभिगम्य महारथौ ।
यमौ गाण्डीवधन्वानमभ्यवादयतामुभौ ॥ ३.३७.२८ ॥

于是这对心神疲惫的孪生大战车武士,走近那位圆满的甘狄拔弓手,二人一同向他致敬。

3.37.29

अभिवाद्य तु तौ वीरावूचतुः पाकशासनिम् ।
अवाप्तव्यानि सर्वाणि दिव्यान्यस्त्राणि वासवात्।
अस्त्राण्याप्नुहि कौन्तेय मनसा यद्यदिच्छसि ॥ ३.३७.२९ ॥

二人向他致敬后,对般遮那(阿周那)说:一切天界神兵都应从婆薮处获得。哦,贡蒂之子,凡你心中所欲,便去获得这些神兵吧。

3.37.30

गिरो ह्यशिथिलाः सर्वा निर्दोषाः संमताः सताम् ।
त्वमेकः पाण्डवेष्वद्य संप्राप्तोसि धनञ्जय ॥ ३.३७.३० ॥

所有这些为善人所认可的言语,都坚定而无过失。哦,财主(阿周那),今日般度诸子中唯独你获得了它。

3.37.31

न चाधर्मविदं देवा नासिद्धं नातपस्विनम् ।
द्रष्टुमिच्छन्ति कौन्तेय चलचित्तं शठं न च ॥ ३.३७.३१ ॥

俱盧之子啊,诸神不愿见到知晓非法者、未成就者、无苦行者、心意不定者或欺诈者。

3.37.32

रोरूयमाणः कटुकमीर्ष्यकः कटुकाक्षरः ।
शठकः श्लाघकः क्षेप्ता हन्ता च विचिकित्सिता ॥ ३.३७.३२ ॥

哭号者、出言苛刻者、嫉妒者、说粗暴之语者、欺诈者、自夸者、诽谤者、杀人者、多疑者。

3.37.33

विश्वस् हन्ता मायावी क्रोधनोऽनृतभाषिता ।
अत्याशी नास्तिकोऽदाता मित्रध्रुक्सर्वशङ्कितः ॥ ३.३७.३३ ॥

不可信者、杀人者、幻术欺诈者、易怒者、妄语者、贪食者、无神论者、吝啬不施者、背叛朋友者、疑忌一切者。

3.37.34

आक्रोष्टा चातिमानी च रौद्रो लुब्धोऽथ लोलुपः ।
स्तेनश्च मद्यपश्चैव भ्रूणहा गुरुतल्पगः ॥ ३.३७.३४ ॥

辱骂者、极度傲慢者、残暴者、贪婪者、贪欲者、窃贼、饮酒者、堕胎杀生者、玷污师尊之妻者。

3.37.35

संभावितात्मा चात्यर्थं नृशंसः पुरुषश्च यः ।
नैते लोकानाप्नुवन्ति निर्लोकास्ते धनञ्जय ॥ ३.३७.३५ ॥

极度自负而残忍的人不能得到这些世界;达那阇耶啊,他们是无世界者。

3.37.36

आनृशंस्यमनुक्रोशः सत्यं करुणवेदिता ।
दमः स्थितिर्धृतिर्धर्मः क्षमा कृत्यमनुत्तमम् ॥ ३.३७.३६ ॥

不残忍、慈悲、真实、体察怜悯、克制、安定、坚韧、法与宽恕——这便是至上之责。

3.37.37

दया शमश्च धर्मश्च गुरुपूजा कृतज्ञता ।
मैत्रता द्विजभक्तिश्च वसन्ति त्वयि फल्गुन।
व्यपेक्षा सर्वभूतेषु कृपा दानं मतिः स्मृतिः ॥ ३.३७.३७ ॥

慈悲、寂静、法、尊敬师长、感恩、友善与敬奉再生者,皆居于你身中,唯法尔古那。对一切众生的顾念、怜悯、布施、明辨与记忆亦然。

3.37.38

तस्मात्कौरव्य शक्रेण समेष्यसि धनञ्जय ।
त्वादृशेन हि देवानां श्लाघनीयः समागमः ॥ ३.३७.३८ ॥

因此,库鲁之裔,财胜啊,你将与帝释(因陀罗)相会。与像你这样的人相会,诸天确实值得赞美。

3.37.39

सुहृदां सोदराणां च सर्वेषां भरतर्षभ ।
त्वं गतिः परमा तात वृत्रहा मरुतामिव ॥ ३.३७.३९ ॥

婆罗多之牛啊,对朋友、兄弟及一切人而言,你是至高的依靠,亲爱的,正如灭除弗栗多者之于摩录多诸神。

3.37.40

तस्मिंस्त्रयोदशे वर्षे भ्रातरः सुहृदश्च ते ।
सर्वे हिसंश्रयिष्यन्ति बाहुवीर्यं महाबल ॥ ३.३७.४० ॥

在那第十三年,你的兄弟与所有朋友都将依靠你臂膀的勇力,大力者啊。

3.37.41

स पार्थ पितरं गच्छ सहस्राक्षमरिन्दम ।
मुष्टिग्रहणमादत्स्व सर्वाण्यस्त्राणि वासवात् ॥ ३.३७.४१ ॥

因此,普利塔之子啊,征服敌人者,去见你的父亲千眼者,依握拳之礼从婆薮(因陀罗)处获取一切兵器。

3.37.42

शतशृङ्गे महाबाहो मघवानिदमब्रवीत् ।
शृण्वतां सर्वभूतानां त्वामुपाघ्राय मूर्धनि ॥ ३.३७.४२ ॥

大臂者啊,在百峰山上,摩伽梵(因陀罗)说了这话,一切众生都在聆听,并吻着你的头顶。

3.37.43

विदितः सर्वभूतानां दिवं तात गमिष्यसि ।
प्राप्य पुण्यकृतां लोकान्रंस्यसे जयतांवर ॥ ३.३७.४३ ॥

亲爱的孩子,你为一切众生所知,将升往天界。得到行善者的世界,胜利者中最优秀的人啊,你将喜乐。

3.37.44

मानितस्त्रिदशैः पार्थ विहृत्य सुसुखं दिवि ।
अवाप्यपरमास्त्राणि पृथिवीं पुनरेष्यसि ॥ ३.३७.४४ ॥

普利塔之子啊,受诸神尊敬,在天界极其快乐地居住,获得最高的武器后,你将重返大地。

3.37.45

गुणांस्ते वासवस्तात खाण्डवं दहति त्वयि ।
शृण्वतां सर्वभूतानां पुनः पुनरभाषत ॥ ३.३७.४५ ॥

亲爱的孩子,因陀罗在一切众生聆听之时,一再谈论你的美德,以及你焚烧katava森林之事。

3.37.46

तां प्रतिज्ञां नरश्रेष्ठ कर्तुमर्हसि वासवीम् ।
कंचिद्देशमितः प्राप्य तपोयोगमना भव ॥ ३.३७.४६ ॥

人中之最啊,你应当履行婆薮之王(因陀罗)的那个誓言。从此处前往某个地方,将心专注于苦行与瑜伽。

3.37.47

कर्तुमर्हसि कौरव्य मघवद्वचनं हितम् ।
दीक्षित्वाऽद्यैव गच्छ त्वं द्रष्टाऽसि त्वं पुरन्दरम् ॥ ३.३७.४७ ॥

俱卢后裔啊,你应当遵从摩伽婆(因陀罗)的有益之言。今日即受灌顶之礼而去吧;你将见到补兰陀罗(因陀罗)。

3.37.48

तौ परिष्वज्य बीभत्सुः कृष्णामामन्त्र्य चाप्युभौ ।
मनांस्यादाय सर्वेषां प्रयातः पुरुषर्षभः ॥ ३.३७.४८ ॥

Bībhatsu(阿周那)拥抱了他们二人,向Kṛṣṇā(德劳帕蒂)及二人告别,夺去了所有人的心,这位人中之牛便启程了。

3.37.49

तं तथा प्रस्थितं वीरं सिंहस्कन्धोरसं तदा ।
प्राञ्जलिः पाण्डवंकृष्णा देवानां कुर्वती नमः।
वाग्भिः परमशुद्धाभिर्मङ्गलाभिरभाषत् ॥ ३.३७.४९ ॥

当这位肩如狮子、胸膛宽阔的英雄即将启程时,黑天女合掌礼敬诸神,以最纯净吉祥的言辞对般度之子说道。

3.37.50

नमो धात्रे विधात्रे च स्वस्ति गच्छ वनाद्वनम् ।
धर्मस्त्वां जुषतां पार्थ भास्करश्च विभावसुः।
ब्रह्मा त्वां ब्राह्मणाश्चैव पालयन्तु धनञ्जय ॥ ३.३७.५० ॥

敬礼创造者与安立者。愿你从林至林,一路吉祥,阿周那。愿法、太阳与毗婆娑(火)护佑你;愿梵天与婆罗门守护你,财富征服者。

3.37.51

ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनमास्थितः ।
प्रपद्येथा वसूव्रुद्रानादित्यान्समरुद्गणान्।
विश्वेदेवांस्तथा साध्याञ्शान्त्यर्थं भरतर्षभ ॥ ३.३७.५१ ॥

婆罗多族之最,敬重长者,遵从兄长之言,为求平安,当皈依诸婆苏、楼陀罗、阿迭多、摩录多众、诸遍神与萨地耶。

3.37.52

स्वस्ति तेस्त्वान्तरिक्षेभ्यो दिव्येभ्यो भरतर्षभ ।
पार्थिवेभ्यश्च सर्वेभ्यो ये केचित्परिपन्थिनः ॥ ३.३७.५२ ॥

婆罗多族之最,愿你从天空、从天界、从大地上的一切众生处获得吉祥;愿路上凡是与你为敌者,也不能伤害你。

3.37.53

अवरोधाद्वने वासात्सर्वस्वहरणादपि ।
इदं दुःखतरं मन्ये पुत्रेभ्यश्च विवासनात् ॥ ३.३७.५३ ॥

被困于后宫,住在林中,甚至失去一切财富——我以为,这些都不及被放逐、与儿子们分离来得痛苦。

3.37.54

मास्माकं क्षत्रियकुले जातुचित्पुनरुद्भवः ।
ब्राह्मणेभ्यो नमस्यामि येषां नायुधजीविका ॥ ३.३७.५४ ॥

愿我们刹帝利族永不再兴起。我向那些不以兵器为生的婆罗门致敬。

3.37.55

इदं मे परमं दुःखं यः स पापः सुयोधनः ।
दृष्ट्वा मां गौरिति प्राह प्रहसन्राजसंसदि ॥ ३.३७.५५ ॥

我最大的痛苦是:那罪人苏由达那看见我,在王庭大会上大笑着说:“牛!”

3.37.56

तस्माद्दुःखादिदं दुःखं गरीय इतिमे मतिः ।
यत्तत्परिषदो मध्ये बह्वयुक्तमभाषत ॥ ३.३७.५६ ॥

因此我认为这痛苦比那痛苦更大,因为他在会众之中说了许多不当的话。

3.37.57

ध्वंसितः स्वगृहेभ्यश्च राष्ट्राच्च भरतर्षभ ।
वने प्रतिष्ठितो भूत्वा सौहार्दादवतिष्ठसे ॥ ३.३७.५७ ॥

婆罗多族的雄牛啊,你已被逐出自己的家园与王国;住在林中,你因情义而留在这里。

3.37.58

जेता यः सर्वशत्रूणां यः पावकमतर्पयः ।
जनस्त्वां पश्यतीदानीं गच्छन्तं भरतर्षभ ॥ ३.३७.५८ ॥

你是战胜一切敌人、使火神满足的人;婆罗多族的雄牛啊,如今百姓看见你正在离去。

3.37.59

अस्मिन्नूनं महारण्ये भ्रातरः सुहृदश्च ते ।
त्वत्कथाः कथयिष्यन्ति चारणा ऋषयस्तथा ॥ ३.३७.५९ ॥

在这大森林中,你的兄弟与朋友,以及吟游者和仙人,必定会讲述你的事迹。

3.37.60

यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय ।
तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ॥ ३.३७.६० ॥

大臂的达南遮耶啊,昆提在你出生时为你所求的一切,昆提之子啊,愿都归于你,也愿你自己所愿的一切归于你。

3.37.61

वसुदेवस्वसा देवी त्वामार्या पुनरागतम् ।
पश्यतु त्वां पृथा पार्थ सहस्राक्षमिवादितिः ॥ ३.३७.६१ ॥

愿瓦苏提瓦之妹、尊贵的女神普利陀见你归来,帕尔塔啊,如阿底提望见千眼者。

3.37.62

नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे ।
रंस्यन्ते तव कर्माणि कीरत्यन्तः पुनः पुनः ॥ ३.३७.६२ ॥

你的诸兄在不眠之夜,必定会因讲述你的故事而欢喜,一遍又一遍地传颂你的功业。

3.37.63

न च नः पार्थ भोगेषु न धने नोत जीविते ।
तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ॥ ३.३७.६३ ॥

帕尔塔啊,你长久流亡在外,我们对于享乐、财富乃至生命,都不会有满足,心志也不会安定。

3.37.64

त्वयि नः पार्थ सर्वेषां सुखदुःखे प्रतिष्ठते ।
जीवितं मरणं चैव राज्यमैश्वर्यमेव च ॥ ३.३७.६४ ॥

帕尔塔啊,我们所有人的苦乐都系于你身;生死、王国与权势,也都依托于你。

3.37.65

आपृष्टो नोसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव ।
कृतास्त्रं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ॥ ३.३७.६५ ॥

昆提之子啊,我还未向你道别;潘度之子啊,愿你获得吉祥。精通武艺、吉祥安康地归来,我将再次见到你。

3.37.66

बलवद्भिर्विरुद्धं न कार्यमेतत्त्वयाऽनघ ।
प्रयाह्यविघ्नेयैवाशु विजयाय महाबल ॥ ३.३७.६६ ॥

无罪者啊,你不可与强者为敌。大力者啊,为了胜利,快快毫无阻碍地出发吧。

3.37.67

ह्रीः श्रीः कीर्तिर्धृतिः पुष्टिरुमा लक्ष्मीः सरस्वती ।
इमा वै तव पान्थस् पालयन्तु धनञ्जय ॥ ३.३७.६७ ॥

愿羞耻、吉祥、名声、坚定、滋养、乌玛、吉祥天女与萨拉斯瓦蒂,——愿她们一切守护你这旅人,财富征服者啊。

3.37.68

एवमुक्त्वाऽऽशिषः कृष्णा विरराम यशस्विनी। ॥ ३.३७.६८ ॥

说完这些祝福,荣耀的黑公主(德罗波蒂)便沉默了。

3.37.69

ततःप्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः ।
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ॥ ३.३७.६९ ॥

随后,他右绕诸兄与达乌米亚,手持华美的弓,那位大臂的般度之子便出发了。

3.37.70

शनैरिव दिशं वीर उदीचीं भरतर्षभ ।
संहरंस्तरसा वृक्षाँल्लता वल्लीश्च भारत।
असज्जमानो वृक्षेषु जगाम सुमहाबलः ॥ ३.३७.७० ॥

婆罗多族之牛啊,英雄缓缓地向北方行去,以力量拨开树木与藤蔓,不被树木所缠,那大力者继续前行。

3.37.71

तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः ।
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ॥ ३.३७.७१ ॥

他前行时,一切生灵都从他的路上避开;他是英勇而强大的人,具备因陀罗的神通之力。

3.37.72

सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान् ।
दिव्यं हैमवतं पुण्यं देवजुष्टं परंतपः ॥ ३.३७.७२ ॥

亲爱的,他前往那些苦行者所居的山峦——神圣、属于喜马拉雅、为诸神所爱、能炙烤敌人的地方。

3.37.73

अगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः ।
मनोजवगतिर्भूत्वा योगयुक्तो यथाऽनिलः ॥ ३.३७.७३ ॥

这位大心者在一日之内便到达那座神圣的山,以思念之速前行,与瑜伽相合,如风一般。

3.37.74

हिमवन्तमतिक्रम्य गन्धमादनमेव च ।
अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ॥ ३.३७.७४ ॥

越过喜马拉雅与乾陀摩陀那山,他昼夜不倦地穿过险峻之地。

3.37.75

इन्द्रिकीलं समासाद्य ततोऽतिष्ठद्धनंजयः ।
गत्वा स षडहोरात्रान्सप्तमेऽहनि पाण्डवः ॥ ३.३७.७५ ॥

到达因陀罗峰后,财富征服者便在那里站立。走了六昼夜,第七日,这位般度之子停下。

3.37.76

प्रस्थेन्द्रकीलस्य शुभे तपोयोगपरोऽभवत् ।
ऊर्ध्वबाहुर्न चाङ्गानि प्रास्पन्दयत किंचन ॥ ३.३७.७६ ॥

在因陀罗峰吉祥的山坡上,他专注于苦行瑜伽;双臂高举,身体任何部位都纹丝不动。

3.37.77

समाहितात्मा नियतः सहस्राक्षसुतोऽच्युतः ।
अन्तरिक्षे स शुश्राव तिष्ठेति स वचस्तदा ॥ ३.३७.७७ ॥

他心神专注、克己自持,是千眼神之子、不动者,此时在空中听到了那句话:「站住。」

3.37.78

तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास रपाण्डवः ।
अथापश्यत्सव्यसाची वृक्षमूले तपस्विनम् ॥ ३.३७.७८ ॥

阿周那·般度之子听后环顾四方。随后左手能射的萨维亚萨钦看见树根下有一位苦行者。

3.37.79

ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् ।
सोऽब्रवीदर्जुनं तत्रस्थितं दृष्ट्वा महातपाः ॥ ३.३७.७९ ॥

这位大苦行者闪耀着婆罗门的光辉,面色黄褐,发髻蓬乱,身形消瘦,他看见站在那里的阿周那,便对他说道。

3.37.80

कस्त्वं तातेह संप्राप्तो धनुष्मान्कवची शरी ।
निबद्धाऽसितलत्राणः क्षत्रधर्ममनुव्रतः ॥ ३.३७.८० ॥

孩子啊,你是谁?你带着弓、甲胄和箭来到这里,腰佩剑与皮盾,遵循刹帝利的本分?

3.37.81

नेह शस्त्रेण कर्तव्यं शान्तानामेष आलयः ।
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ॥ ३.३७.८१ ॥

此处不可用兵器。这里是寂静者的居所,是那些克制了愤怒与喜悦的婆罗门与苦行者的住处。

3.37.82

नेहास्ति धनुषा कार्यं न संग्रामोऽत्र कर्हिचित् ।
निक्षिपैतद्धनुस्तात प्राप्तोसि परमां गतिम् ॥ ३.३७.८२ ॥

这里不需要弓,这里也从不发生战斗。孩子,放下这把弓吧;你已经到达了至高的归宿。

3.37.83

इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् ।
तथा हसन्निवाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत्।
न चैनं चालयामास धैर्यात्सुधृतनिश्चयम् ॥ ३.३७.८३ ॥

这样,婆罗门对无限勇力的英雄阿周那反复说话,仿佛对待一个普通人,并且笑着;然而他无法以自己的定力动摇那位决心坚定的人。

3.37.84

तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव ।
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ॥ ३.३७.८४ ॥

于是那位婆罗门心中欢喜,仿佛笑着对他说:请选择一个恩惠吧,愿你吉祥。灭敌者啊,我乃帝释天(因陀罗)。

3.37.85

एवमुक्तः सहस्राक्षं प्रत्युवाच धनंजयः ।
प्राञ्जलिः प्रणतो भूत्वा सूरः कुरुकुलोद्वहः ॥ ३.३७.८५ ॥

如此被问之后,财富之胜者(阿周那)回答千眼者;他合掌深深顶礼,这位英雄,乃库鲁族的支柱。

3.37.86

ईप्सितो ह्येष वै कामो वरं चैनं प्रयच्छ मे ।
त्वत्तोऽद्य भगवन्नस्त्रंकृत्स्नमिच्छामि वेदितम् ॥ ३.३७.८६ ॥

这正是我所愿求的;请赐予我此恩惠。尊贵的主啊,今天我想从您这里学会全部的兵器之术。

3.37.87

प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव ।
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनंजय ॥ ३.३७.८७ ॥

摩献陀罗(因陀罗)心中欢喜,仿佛笑着回答他:财富之胜者啊,你既已来到此处,还需要兵器做什么呢?

3.37.88

कामान्वृणीष्व लोकांस्त्वं प्राप्तोसि परमां गतिम् ।
एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः ॥ ३.३७.८८ ॥

你可以选择愿望,选择诸天之界;你已达到至高的归宿。如此被问之后,财富之胜者(阿周那)回答千眼者。

3.37.89

न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम् ।
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप ॥ ३.३७.८९ ॥

我不为贪欲,也不再为欲望;不为神性,也不再为快乐;我也不求诸天不死者的统治权,三十神之主啊。

3.37.90

भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च ।
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ॥ ३.३७.९० ॥

若抛弃那些兄弟于林中,且未报仇而归,我将在一切世界中永久蒙受恶名。

3.37.91

एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् ।
सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ॥ ३.३७.९१ ॥

如此说毕,为一切世界所敬礼的杀弗栗多者因陀罗,以温和的言辞安慰般度之子并回答道。

3.37.92

यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् ।
तदा दाताऽस्मि ते तात दिव्यान्यस्त्राणि सर्वशः ॥ ३.३७.९२ ॥

当你见到众生之主、三眼、持三叉戟的吉祥湿婆时,孩子,我便将一切神圣武器都交给你。

3.37.93

क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः ।
दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ॥ ३.३७.९३ ॥

努力去见诸神的至尊主;贡蒂之子啊,见到他之后,你将圆满成就,升往天界。

3.37.94

इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं पुनः ।
अर्जुनोप्यथ तत्रैव तस्थौ योगसमन्वितः ॥ ३.३७.९४ ॥

说完这些,帝释天再次从半耶那面前消失;阿周那也在那里保持瑜伽之态站立着。