Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.44

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.44.1

कदाचित्स हि देवेन्द्रश्चित्रसेनं रहोऽब्रवीत् ।
पार्थस्य चक्षुरुर्वश्यां सक्तं विज्ञाय वासवः ॥ ३.४४.१ ॥

有一次,天主因陀罗察觉到般度之子阿周那的目光落在乌尔瓦希身上,便私下对citrasena说道。

3.44.2

गन्धर्वराज गच्छाद्य प्रहितोऽप्सरसांवराम् ।
उर्वशीं पुरुषव्याघ्रं सोपातिष्ठतु फल्गुनम् ॥ ३.४४.२ ॥

乘天今日便去吧,甘达尔瓦之王。派遣了天女中最优秀的乌尔瓦希,让她去侍奉人中之虎补尔古那。

3.44.3

यथा न तामभिसृतां विद्यादस्मन्नियोगतः ।
तथा त्वया विधातव्यं स्त्रीसंसर्गविशारद ॥ ३.४४.३ ॥

为了使人不知她是奉我们之命去找他的,你应当这样行事,你是精通与女子交往的人。

3.44.4

एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञां प्राप्य वासवात् ।
गन्धर्वराजोऽप्सरसमभ्यगादुर्वशीं वराम् ॥ ३.४४.४ ॥

受此吩咐,他说“就这样吧”,从因陀罗那里得到许可,甘达尔瓦之王便去见天女中最优秀的乌尔瓦希。

3.44.5

तां दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस्तया ।
सुखासीनः सुखासीनां स्मितपूर्वं वचोऽब्रवीत् ॥ ३.४४.५ ॥

他看见她,被认出,欣喜,受到她的热情接待,安然坐下,便对同样安坐的她面带微笑地说道。

3.44.6

विदितं तेऽस्तु सुश्रोणि प्रेषितोऽहमिहागतः ।
त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना ॥ ३.४४.६ ॥

美腰的女子啊,你应当知道:我是受三界唯一之王差遣而来的,他正因你的恩宠而欢喜。

3.44.7

यः स देवमनुष्येषु प्रख्यातः सहजैर्गुणैः ।
श्रिया शीलेन रूपेण श्रुतेन च बलेन च।
प्रख्यातः शौर्यवीर्याभ्यां प्रपन्नः प्रतिभानवान् ॥ ३.४४.७ ॥

他在天神与凡人之中,以天赋的德性而闻名——以威仪、品行、容貌、学识与力量;以勇武与豪气而显扬,兼具敏捷的才智。

3.44.8

तेजस्वी सौम्यीलश्च क्षमावाञ्जितमत्सरः ।
साङ्गोपनिषदान्वेदांश्चतुराख्यानपञ्चमान् ॥ ३.४४.८ ॥

光辉照人,性情温和,宽容忍耐,已戒除妒忌;通晓吠陀及其支分与奥义书,以及四部与第五部传说。

3.44.9

योऽधीते गुरुशुश्रूषां मेधां चाष्टगुणाश्रयाम् ।
ब्रह्मचर्येण दाक्ष्येण प्रसवैर्वयसाऽपि च ॥ ३.४४.९ ॥

以侍奉师长与建立在八种德性之上的记忆力而学习者;亦兼具梵行、熟练、子嗣与年寿。

3.44.10

एको वै रक्षिता चैव त्रिदिवं मघवानिव ।
अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः ॥ ३.४४.१० ॥

他独自守护,如因陀罗(摩伽梵)守护三界;不自夸,尊重他人,志向宏远,言语和蔼。

3.44.11

सुहृदश्चान्नपानेन विविधेनाभिवर्षति ।
सत्यवागूर्जितो वक्ता रूपवाननहंकृतः ॥ ३.४४.११ ॥

以各种饮食厚待朋友;诚实,言辞有力,容貌俊美,没有傲慢。

3.44.12

भक्तानुकम्पी कान्तश्च प्रियश्च स्थिरसंगरः ।
प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः ॥ ३.४४.१२ ॥

怜悯信徒,可爱可亲,誓言坚定;以众多令人向往的德性,堪比摩亨陀罗与伐楼那。

3.44.13

विदितस्तेऽर्जुनो वीरः स स्वर्गफलमाप्तवान् ।
तव शक्राभ्यनुज्ञातः पादावद्यप्रपद्यताम्। ॥ ३.४४.१३ ॥

你知道英雄阿周那已获得天界之果;经因陀罗允许,今日他当投奔你的足下。

3.44.14

एवमुक्ता स्मितं कृत्वा स्वात्मानं बहुमान्य च ।
प्रत्युवाचोर्वशी प्रीता चित्रसेनमनिन्दिता ॥ ३.४४.१४ ॥

乌尔瓦希闻言,面带微笑,自重自尊,欢喜地回答了持国之子般的紫色(毗舍)乾闼婆。

3.44.15

यत्त्वस्य कथितः सत्यो गुणोद्देशस्त्वयाऽनघ ।
तं श्रुत्वाऽन्यं प्रियं नारी वृणुयात्किमतोऽर्जुनं ॥ ३.४४.१५ ॥

无罪者啊,你所讲述的他那真实的德性,闻之之后,哪个女子会选择阿周那以外的其他爱人呢?

3.44.16

तस्य चाहं गुणौघेन फल्गुने जातमन्मथा ।
गच्छत्वं हि याथाकाममागमिष्याम्यहं सुखम् ॥ ३.४४.१६ ॥

因他德性的洪流,我心中对法尔古那生起了爱欲。你可随意前去;我将欢欣地前来。

3.44.17

ततो विसृज्यगन्धर्वं कृतकृत्या शुचिस्मिता ।
उर्वशी चाकरोत्स्नानं पार्थप्रार्थनलालसा ॥ ३.४४.१७ ॥

随后,送走乾闼婆,目的已达的乌尔瓦希面带纯净的微笑,渴望阿周那的邀请,便去沐浴。

3.44.18

स्नानालङ्कारनेपथ्यैर्गन्धमाल्यैश्च शौभनैः ।
धनंजयस्य रूपेण शरैर्मन्मथचोदितैः ॥ ३.४४.१८ ॥

以沐浴、装饰、衣饰、香料与美丽花环,以及财富征服者(阿周那)的容貌和爱神所发之箭,她得以装扮。

3.44.19

अतिविद्धेन मनसा मन्मथेन प्रदीपिता ।
दिव्यास्तरणसंस्तीर्णे विस्तीर्णे शयनोत्तमे ॥ ३.४४.१९ ॥

心被爱神深深刺中,被爱神点燃,躺在铺着天界锦褥的宽大上好床榻之上。

3.44.20

चित्तसंकल्पभावेन सुचित्ताऽनन्यमानसा ।
मनोरथेन संप्राप्तं रमयन्तीव फल्गुनम् ॥ ३.४४.२० ॥

以心志与情意,善心而心无旁骛,仿佛以心愿所得的法尔古那使之欢悦。

3.44.21

निशाम्य चन्द्रोदयनं विगाढे रजनीमुखे ।
प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं महत् ॥ ३.४४.२१ ॥

她看见月亮升起,夜色刚刚深沉,这位宽臀的女子便动身前往般度之子的大宅。

3.44.22

मृदुकुञ्चितदीर्घेण कुसुमोत्तमधारिणा ।
केशपाशेन ललना गच्छमाना व्यराजत ॥ ३.४४.२२ ॥

她那柔软、卷曲、修长、插着上好鲜花的发髻,使这位女子行走时光彩照人。

3.44.23

भ्रूक्षेपालापमाधुर्यैः कान्त्या सौम्यतयाऽपि च ।
शशिनं वक्रचन्द्रेण साऽऽह्वयन्तीव गच्छती ॥ ३.४४.२३ ॥

以眉目的顾盼与言语的甜美,以光彩与温和,她行走着,仿佛以月亮般的面容向月亮挑战。

3.44.24

दिव्याङ्गरागौ सुमुखौ दिव्यचन्दनरूषितौ ।
गच्छन्त्या हाररुचिरौ स्तनौ तस्या ववल्गतुः ॥ ३.४४.२४ ॥

她那涂抹天界香膏、面容姣好、涂着天界檀香的双乳,因项链而更加动人,随着行走而摇曳。

3.44.25

स्तनोद्वहनसंक्षोभात्ताम्यमाना पदेपदे ।
त्रिवलीदामचित्रेण मध्येनातीव शेभिना ॥ ३.४४.२५ ॥

她每走一步都因承载双乳的颤动而疲倦,腰间三道褶纹的彩色饰带使她格外光彩照人。

3.44.26

रथकूबरविस्तीर्णं नितम्बोन्नतपीवरम् ।
मन्मथायतनं शुभ्रं रशनादामभूषितम् ॥ ३.४४.२६ ॥

宽阔如战车的辕轴,臀部高耸丰满,是爱神的居所,洁白,以腰带之绳装饰。

3.44.27

ऋषीणामपि दिव्यानां मनोव्याघातकारणम् ।
सूक्ष्मवस्त्रधरं भाति जघनं निरवद्यवत् ॥ ३.४४.२७ ॥

即使对神圣的仙人也是扰乱心神的原因,她身着细软衣裳的臀部,光彩无瑕。

3.44.28

गूडगुल्फधरौ पादौ ताम्रायततलाङ्गुली ।
कूर्मपृष्ठोन्तौ चास्याः शोभेते किङ्किणीकिणौ ॥ ३.४४.२८ ॥

她的双足踝骨隐而不露,脚掌与脚趾长而呈铜色,足背隆起如龟背,脚上的铃铛叮当作响,光彩照人。

3.44.29

शीधुपानेन चाल्पेन तुष्टा च मदनेन च ।
विलासितैश्च विविधैः प्रेक्षणीयतराऽभवत् ॥ ३.४४.२९ ॥

因饮少许美酒、沉醉于爱欲,又以种种媚态而心悦,她变得更加令人赏心悦目。

3.44.30

सिद्धचारणगन्धर्वैः साध्यैर्याति विलासिनी ।
बब्वाश्चर्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः ॥ ३.४४.३० ॥

这位风情女子行走于悉陀、遮罗那、乾达婆与萨陀耶之间;即便在天界,她也以令人惊叹的、最为动人的容貌而令人瞩目。

3.44.31

सुमूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता ।
तन्वभ्रप्रावृता व्योम्नि चन्द्रलेखेन गच्छति ॥ ३.४४.३१ ॥

她穿着极其精细、云彩颜色、闪耀的上衣,被薄云笼罩,在天空中如新月之线般前行。

3.44.32

ततः प्राप्तातिदुष्प्रापा मनसाऽपि विकर्मभिः ।
भवनं पाण्डुपुत्रस्य फल्गुनस्य शुचिस्मिता ॥ ३.४४.३२ ॥

于是,连恶行之人以心也难以企及的她,抵达了般度之子法尔古那(阿周那)的居所,她带着纯净的微笑。

3.44.33

तत्र द्वारमनुप्राप्ता द्वारस्थैश्च निवेदिता ।
अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना ॥ ३.४४.३३ ॥

她到达门口,经守门人通报,美目的优婆尸(乌尔瓦希)来到阿周那面前,啊,人中之最。

3.44.34

उपातिष्ठत तद्वेश्म निर्मलं सुमनोहरम् ।
स शङ्कितमना राजन्प्रत्यगच्छत तां निशि ॥ ३.४४.३४ ॥

那座纯净而极其迷人的殿堂来到她身边;啊,国王,他心怀惶惑,夜里迎上前去见她。

3.44.35

दृष्ट्वैव चोर्वशीं पार्थो लज्जासंवृलोचनः ।
तदाऽभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान् ॥ ३.४४.३५ ॥

阿周那一见优婆尸,羞怯地垂下眼帘,便行礼致敬,以对待师长的敬意相待。

3.44.36

अभिवादये त्वां शिरसा प्रवराप्सरसांवरे ।
किं चागमनकृत्यं ते ब्रूहि सर्वं यथातथम्।
किमाज्ञापयसे देवि प्रेष्यस्तेऽहमुपस्थितः ॥ ३.४४.३६ ॥

最优秀的天女啊,我低首向你致敬。请如实告诉我你来此的全部目的。女神,你有何吩咐?你的仆人已在此侍立。

3.44.37

अकामं फल्गुनं ज्ञात्वा इङ्गितज्ञा तदोर्वशी ।
गन्धर्ववचनं सर्वं श्रावयामास फल्गुनम् ॥ ३.४४.३७ ॥

乌尔瓦希知道法尔古那(阿周那)并不情愿,便善察眼色,把乾达婆的全部话语说给法尔古那听。

3.44.38

यथा मे चित्रसेनेन कथितं मनुजोत्तम ।
नत्तेऽहं संप्रवक्ष्यामि यथा चाहमिहागता ॥ ३.४४.३८ ॥

人中最上者啊,我将完整地告诉你,奇特军所对我说的话,以及我为何来到这里。

3.44.39

उपस्ताने महेन्द्रस् वर्तमाने मनोरमे ।
तवागमनतुष्ट्या च स्वर्गस्य परमोत्सवे ॥ ३.४४.३९ ॥

在因陀罗的集会中正举行迷人的庆典之时,在天界的盛大节日里,因你的到来而欢喜。

3.44.40

रुद्राणां चैव सान्निध्यमादित्यानां च सर्वशः ।
समागमेऽश्विनोश्चैव वसूनां च नरोत्तम ॥ ३.४४.४० ॥

人中最上者啊,在楼陀罗们的近旁,在阿提底耶们的全体集会中,也在双马童与婆苏们的会聚中。

3.44.41

महर्षीणां च सङ्घेषु राजर्षिप्रवरेषु च ।
सिद्धचारणयक्षेषु महोरगगणेषु च ॥ ३.४४.४१ ॥

在大仙人的集会中,在最优秀的王仙中,在悉陀、遮罗那与夜叉之中,也在大蛇众的群体中。

3.44.42

उपविष्टेषु सर्वेषु स्थानमानप्रभावतः ।
ऋद्ध्या प्रज्वलमानेषु अग्निसोमार्कवर्ष्मसु ॥ ३.४४.४२ ॥

当众人就座之时,依其地位与尊荣的威力,以光辉闪耀,其身形如火、如苏摩、如日者。

3.44.43

वीणासु वाद्यमानासु गन्धर्वैः शक्रनन्दन ।
दिव्ये मनोरमे गीते प्रवृत्ते पृथुलोचन ॥ ३.४४.४३ ॥

帝释之子啊,当乾闼婆们弹奏琵琶,神妙动人的歌曲开始奏响之时,哦,广目者!

3.44.44

सर्वाप्सरःसु मुख्यासु प्रनृत्तासु कुरूद्वह ।
त्वं किलानिमिषः पार्थ मामेकां तत्र दृष्टवान् ॥ ३.४४.४४ ॥

库鲁之首啊,当所有最杰出的天女翩翩起舞时,帕尔塔啊,你在那里唯独不眨眼地注视着我。

3.44.45

तत्र चावभृथे तस्मिन्नुपस्थाने दिवौकसाम् ।
तव पित्राऽभ्यनुज्ञाता गताः स्वनिलयान्सुराः ॥ ३.४४.४५ ॥

在那里,在那次阿婆利陀沐浴仪式上,在天界居民的集会中,诸神在你父亲的允许下,各自返回了自己的住所。

3.44.46

तथैवाप्सरसः सर्वाविशिष्टाः स्वगृहं गताः ।
अपि चान्याश्च शत्रुघ्न तव पित्रा विसर्जिताः ॥ ३.४४.४६ ॥

同样,所有天女,无论普通还是出众,都回到了自己的家;还有其他天女,哦,灭敌者,也都被你的父亲遣散了。

3.44.47

ततः शक्रेण संदिष्टश्चित्रसेनो ममान्तिकम् ।
प्राप्तः कमलपत्राक्ष स च मामब्रवीत्स्वयम् ॥ ३.४४.४७ ॥

于是,受帝释派遣的奇拉塞那来到我面前,哦,莲花瓣眼的人;他亲自对我说道。

3.44.48

त्वत्कृतेऽहं सुरेशेन प्रेषितो वरवर्णिनि ।
प्रियं कुरु महेन्द्रस्य मम चैवात्मनश्च ह ॥ ३.४४.४८ ॥

正是为了你,诸神之主派遣了我,美丽的人啊。请做那使伟大的因陀罗、我,以及你自己都欢喜的事吧。

3.44.49

शक्रतुल्यं रणे शूरं रूपौदार्यगुणान्वितम् ।
पार्थं प्रार्थय सुश्रोणि त्वमित्येवं तदाऽब्रवीत् ॥ ३.४४.४९ ॥

你应向帝释般、在战场上英勇、具备容貌、慷慨与德行的般度之子(阿周那)请求,美臀女啊——她当时如此说道。

3.44.50

ततोऽहं समनुज्ञाता तेन पित्रा च तेऽनघ ।
तवान्तिकमनुप्राप्ता शुश्रूषितुमरिंदम ॥ ३.४४.५० ॥

于是我得到了他和你父亲的允许,无瑕者啊,制敌者啊,我来到你的面前,前来侍奉你。

3.44.51

न केवलं हि चक्रेण प्रेषिता चाहमागता ।
चिराभिलषितो वीर ममाप्येष मनोरथः ॥ ३.४४.५१ ॥

我并非只是受圆盘所遣而来;英雄啊,这也是我长久以来所渴望的心愿。

3.44.52

तां तथा ब्रुवतीं श्रुत्वा भृशं लज्जान्वितोऽर्जुनः ।
उवाच कर्णौ हस्ताभ्यां पिधाय त्रिदशोपमः ॥ ३.४४.५२ ॥

阿周那听她如此说,深感羞愧,他如天神一般,以双手掩住耳朵,说道:

3.44.53

दुःश्रुतं मेऽस्तु सुभगे यन्मां वदसि भामिनि ।
गुरुदारैः समाना मे निश्चयेन वरानने ॥ ३.४४.५३ ॥

美丽的人啊,骄傲的女子啊,愿你对我所说的话我不曾听见;美颜的人啊,你对我来说,确实如同师长的妻子。

3.44.54

यथा कुन्तीमहाभागा यथेन्राणी शची मम ।
तथा त्वमपि कल्याणीनात्र कार्या विचारणा ॥ ३.४४.५४ ॥

正如大福的昆蒂之于我,如因陀罗之妻舍chī之于我,你也是如此,吉祥的人啊;此事无须再作考虑。

3.44.55

यच्चेक्षिताऽसि विस्पष्टं विशेषेण मया शुभे ।
तच्च मे कारणं सर्वं शृणु सत्येन सुस्मिते ॥ ३.४४.५५ ॥

吉祥的人啊,请如实听完我如此清楚而特别地看着你的全部原因,甜美微笑的人啊。

3.44.56

इयं पौरववंशस् जननी सुदतीति ह ।
त्वामहं दृष्टवांस्तत्र विस्मयोत्फुल्ललोचनः ॥ ३.४४.५६ ॥

此人是部族的母亲,名叫苏达提。我在那里以惊讶而睁大的眼睛看见了你。

3.44.57

न मामर्हसि कल्याणि अन्यथा ध्यात्रमप्सरः ।
गुरोर्गरुतरा मे त्वं मम त्वं वंशवर्धिनी ॥ ३.४४.५७ ॥

善良的女子啊,不要以别样的心意看待我,天女啊。对我而言,你比老师更尊贵;你是增益我家族的人。

3.44.58

अनावृताश्च सर्वाः स्म देवराजाभिनन्दन ।
गुरुस्थाने न मां वीर नियोक्तुं त्वमिहार्हसि ॥ ३.४४.५८ ॥

天王所悦之人啊,我们都是不受约束的。英雄啊,你不应该在这里把我置于老师的位置。

3.44.59

पितरः सोदराः पुत्रा नप्तारो वा त्विहागताः ।
तपसा रमयन्त्यस्मान्न च तेषां व्यतिक्रमः ॥ ३.४४.५९ ॥

来到这里的父辈、兄弟、儿子或孙子,以苦行使我们欢喜,他们之中也没有越轨。

3.44.60

तत्प्रसीद न मामार्तां विसर्जयितुमर्हसि ।
हृच्छयेन च संतप्तां भक्तां च भज मानद ॥ ३.४४.६० ॥

所以请施恩;把我这个痛苦的人打发走,对你来说并不合适。赐予尊荣的人啊,请接纳我吧,我被心中潜藏的欲望所煎熬,并且对你忠诚。

3.44.61

शृणु सत्यंवरारोहे यत्त्वां वक्ष्याम्यनिन्दिते ।
शृण्वन्तु मे दिशश्चैव विदिशश्च सदेवताः ॥ ३.४४.६१ ॥

听着,你这持守真誓、腰肢优美的无瑕之人,我将要对你说的话。愿四方与四维及诸神都来听我说。

3.44.62

यथा कुन्ती च माद्री च शची चैव समा इह ।
तथा च वंशजननी त्वं हि मेऽद्य गरीयसी ॥ ३.४४.६२ ॥

正如此处的贡蒂、玛德丽和舍质对我而言同样尊贵,作为我族系之母的你,今日对我更加尊崇。

3.44.63

गच्छ मूर्ध्ना प्रपन्नोस्मि पादौ ते वरवर्णिनि ।
त्वं हि मे मातृवत्पूज्या रक्ष्योऽहं पुत्रवत्त्वया ॥ ३.४४.६३ ॥

去吧,美丽的女子。我低头投靠在你的脚下。你于我如母,应当受到尊敬;我则应像子女一样受你庇护。

3.44.64

ततोऽवधूता पार्थेन उर्वशी क्रोधमूर्च्छिता ।
वेपन्ती भ्रुकुटीकक्रा शशापाथ धनंजयम् ॥ ३.४४.६४ ॥

于是乌尔瓦西被阿周那拒绝,怒火攻心,浑身颤抖,皱着眉头,诅咒了财主(达难闍耶)。

3.44.65

तव पित्राऽभ्यनुज्ञातां स्वयं च गृहमागताम् ।
यस्मान्मां नाभिनन्देथाः कामबाणवशंगताम् ॥ ३.४४.६५ ॥

你不接纳我——我已得到你父亲的许可,又是自己来到你的家中,尽管我已被欲望之箭所制伏。

3.44.66

तस्मात्त्वं नर्तकः पार्थ स्त्रीमध्ये मानवर्जितः ।
अपुंस्त्वेन च विख्यातः पण्ढवद्विचरिष्यसि ॥ ३.४४.६६ ॥

因此,阿周那啊,你将在女人中间成为舞者,失去尊严;以无能之名闻名,你将如宦官一般四处流浪。

3.44.67

एवं दत्त्वाऽर्जुने शापं स्फुरितोष्ठी श्वसन्त्यथ ।
पुनः प्रत्यागता क्षिप्रमुर्वशी स्वं निवेशनम् ॥ ३.४४.६७ ॥

乔那如此诅咒阿周那之后,乌尔瓦希嘴唇颤抖、喘息急促,很快返回了自己的住处。

3.44.68

पार्थोपि लब्ध्वा शापं तं तां निशां दुःखितोऽवसम् ।
विवक्षुश्चित्रसेनाय प्रातः सर्वमहृष्टवत् ॥ ३.४४.६८ ॥

普利塔之子得了那诅咒,在那夜中悲伤度过;清晨欲将一切告诉乔答的查特罗塞那,却仿佛并不高兴。

3.44.69

ततः प्रभाते विमले गन्धर्वाय यथातथम् ।
निवेदयामास तदा चित्रसेनाय पाण्डवः ॥ ३.४४.६९ ॥

之后,在清晨明净之时,般度之子将所发生的一切如实告诉了乾闼婆查特罗塞那。

3.44.70

तच्च सर्वं यथावृत्तं शापं चैव यथातथम् ।
अवेदयच्च शक्रस्य चित्रसेनोऽपि सर्वशः ॥ ३.४४.७० ॥

乔答的查特罗塞那也将所发生的一切以及那诅咒原样地全部禀告了因陀罗(释迦)。

3.44.71

तदा त्वानाय्य तनयं विविक्ते हरिवाहनः ।
सान्त्वयित्वा शुभैर्वाक्यैः स्मयमानोऽभ्यभाषत ॥ ३.४४.७१ ॥

于是,黄马之主(因陀罗)将儿子叫到僻静处,以吉祥之言安慰他,微笑着对他说道。

3.44.72

सुपुत्राद्यपृथा तात त्वया पुत्रेण सत्तम ।
ऋषयोपि हि धैर्येण जिता वै ते महाभुज ॥ ३.४४.७२ ॥

善人之最啊,亲爱的孩子,普利塔(贡蒂)因有你这样的好儿子而有福;啊,大臂者,你以坚定之心甚至战胜了诸仙人。

3.44.73

यं च दत्तवती शापमुर्वशी तव मानद ।
स चापि तेऽर्थकृत्तात साधकश्च भविष्यति ॥ ३.४४.७३ ॥

尊敬者啊,乌尔瓦希给你的诅咒,孩子,也将成为成就你目的的助力。

3.44.74

अज्ञातवासो वस्तव्यो भवद्भिर्भूतलेऽनघ ।
वर्पे त्रयोदशे वीर तत्र त्वं गमयिष्यसि ॥ ३.४४.७४ ॥

无罪者啊,你们须在大地上隐姓埋名地居住;英雄啊,第十三年你将在那里度过。

3.44.75

तेन नर्तकवेपेण अपुंस्त्वेन तथैव च ।
वर्षमेकं विहृत्यैव ततः पुंस्त्वमवाप्स्यसि ॥ ३.४४.७५ ॥

身着那舞者之服,并同样处于阳痿之状,度过一年之后,你便会重获男子之身。

3.44.76

एवमुक्तस्तु शक्रेण फल्गुनः परवीरहा ।
मुदं परमिकां लेभे न च शापं व्यचिन्तयत् ॥ ३.४४.७६ ॥

因因陀罗如此吩咐,击杀敌方勇士的法尔古那获得了无上的喜悦,并未去思虑那诅咒。

3.44.77

चित्रसेनेन सहितो गन्धर्वेण यशस्विना ।
रेमे स स्वर्गभवने पाण्डुपुत्रो धनंजयः ॥ ३.४४.७७ ॥

与著名的乾达婆茜多罗犀那同行,般度之子财胜在天界宫殿中欢娱。

3.44.78

य इमां शृणुयान्नित्यं धृतिं पाण्डुसुतस्य वै ।
न तस्य कामः कामेषु पापकेषु प्रवर्तते ॥ ३.४४.७८ ॥

凡常闻般度之子这番坚定之言者,其欲念便不会趋向罪恶的欲望。

3.44.79

इदममरवरात्मजस्य घोरं ।
सुचि चरितं विनिशाम्य फल्गुनस्य।
व्यपगतमददम्भरागदोषा-
स्त्रिदिवगताऽभिरमन्ति मानवेन्द्राः ॥ ३.४४.७९ ॥

聽聞這位天神之長之子(阿周那,Phalguna)那可怖而純潔的事蹟,已摒除傲慢、驕矜、貪欲與過失、升往天界的人間君王們都歡喜起來。