摩诃婆罗多 · 章 3.66
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.66.1
विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः ।
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ॥ ३.६६.१ ॥
毗陀婆的国王是正法之人毗摩,勇力可畏。他这位美丽的女儿以达摩衍蒂之名闻名。
3.66.2
राजा तु नैषधो नाम वीरसेनसुतो नलः ।
भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः ॥ ३.६६.२ ॥
名叫那罗的国王,乃毗罗塞那之子,属奈沙陀族,是这位美丽女子的丈夫,那位以德行闻名的智者。
3.66.3
स द्यूतेन जितो भ्रात्रा हृतराज्यो महामनाः ।
दमयन्त्या गतः सार्धं न प्राज्ञायत कस्यचित् ॥ ३.६६.३ ॥
他在掷骰中败给兄弟,失去王国。这位大度之人与达摩衍蒂同去,无人知晓他的下落。
3.66.4
ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम् ।
सेयमासादिता बाला तव देवि निवेशने ॥ ३.६६.४ ॥
我们为寻找达摩衍蒂而走遍此地,这位少女如今在您的府中被找到了,女王啊。
3.66.5
अस्या रूपेण सदृशी मानुषी न हि विद्यते ।
अस्या ह्येष भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः ॥ ३.६६.५ ॥
论容貌,人间没有能与她相比的女子;她双眉之间有这颗天生的上好痣。
3.66.6
श्यामायाः पद्मसंकाशो लक्षितोऽन्तर्हितो मया ।
मलेन संवृतोह्यस्याश्छन्नोऽभ्रेणेव चन्द्रमाः ॥ ३.६६.६ ॥
我曾见过这位黑肤女子如莲花般的痣,只是被我遮掩着;它被污垢覆盖,就像被云遮住的月亮。
3.66.7
चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः ।
प्रतिपत्कलुषेवेन्दोर्लेखा नातिविराजते ॥ ३.६६.७ ॥
此记号是造物主为装饰而造,如同初一被污染的月牙线,不太明亮。
3.66.8
न चास्या नश्यते रूपं वपुर्मलसमाचितम् ।
असंस्कृतमपि व्यक्तं भाति काञ्चनसन्निभम् ॥ ३.६६.८ ॥
虽然身体被污垢覆盖,她的美貌并未毁灭;即便不加修饰,也如金子般清晰闪耀。
3.66.9
अनेन वपुषा बाला पिप्लुनाऽनेन सूचिता ।
लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा ॥ ३.६६.९ ॥
此身上的这颗痣表明这位少女;我认出了这位女神,正如火被热气所掩盖。
3.66.10
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशांपते ।
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् ॥ ३.६६.१० ॥
人主啊!听了苏提婆的那番话,苏南达洗去了遮盖胎记的污垢。
3.66.11
स मलेनापकृष्टन पिप्लुस्तस्या व्यरोचत ।
दमयन्त्या यथा व्यभ्रे नभसीव निशाकरः ॥ ३.६६.११ ॥
污垢除去后,她的胎记闪耀起来,如同无云的天空中的明月,又如达摩衍蒂的月亮。
3.66.12
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत ।
रुदन्त्यौ तां परिष्वज्यमुहूर्तमिव तस्थतुः ॥ ३.६६.१२ ॥
婆罗多的后裔啊!看见胎记,苏南达与王太后都哭泣着拥抱她,并静立片刻。
3.66.13
उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् ।
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता ॥ ३.६६.१३ ॥
拭泪之后,王太后缓缓说道:「你是我姐妹的女儿;皮普鲁已将此告知。」
3.66.14
अहं च तव माता च राजन्यस्य महात्मनः ।
सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने ॥ ३.६६.१४ ॥
我与你的母亲,美面者啊,乃是大德之王、十城之主苏达曼的女儿。
3.66.15
भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः ।
त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे ॥ ३.६६.१५ ॥
她被许配给国王毗摩,我又被许配给毗罗跋湿;而你生于你父亲在十城的家中,并被我所见。
3.66.16
यथैव ते पितुर्गेहं तथेदमपि भामिति ।
यथैव च ममैश्वर्यं दमयन्ति तथा तव ॥ ३.६६.१६ ॥
你父亲的家如何,这里也如何,光彩照人的人啊;我的财富与权势如何,达摩衍蒂啊,你的也如何。
3.66.17
तां प्रहृष्टेन मनसा दमयन्ती विशांपते ।
प्रणम्य मातुर्भगिनीमिदं वचनमब्रवीत् ॥ ३.६६.१७ ॥
人主啊,达摩衍蒂怀着喜悦的心,向母亲的姐妹行礼,说出了这些话。
3.66.18
अज्ञायमानाऽपिसती सुखमस्म्युषिता त्वयि ।
सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया ॥ ३.६६.१८ ॥
虽然无人知晓,我作为贞洁的妻子与你快乐地相处,各种所需都得到妥善照顾,并始终受到你的保护。
3.66.19
सुखात्सुखतरो वासो भविष्यति न संशयः ।
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि ॥ ३.६६.१९ ॥
必定会有比幸福更幸福的居所,这毫无疑问。母亲啊,你应当允许我这久别之人前去。
3.66.20
दारकौ च हि मे नीतौ वसतस्तत्र बालकौ ।
पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ ॥ ३.६६.२० ॥
我的两个年幼的儿子在我住在那里时也被带走了。失去父亲、饱受悲痛的他们,我怎能(抛下他们)呢?
3.66.21
यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि ।
विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश ॥ ३.६६.२१ ॥
如果你想在此为我做任何令我欢喜的事,我愿前往毗陀婆;请速为我吩咐车辆。
3.66.22
बाढमित्येव तामुक्त्वा हृष्ट्वा मातृष्वसा नृप ।
गुप्तां बलेन महता पुत्रस्यानुमते ततः ॥ ३.६६.२२ ॥
国王啊,她对她说“很好”之后,欣喜的姨母在儿子的同意下,便派遣她,由大军护卫着……
3.66.23
प्रास्थापयद्राजमाता श्रीमतीं नरवाहिना ।
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् ॥ ३.६६.२३ ॥
太后派遣这位光辉的女子,婆罗多中最优秀者啊,乘坐由人抬的车辇,备有饮食与用物。
3.66.24
ततः सा नचिरादेव विदर्भानगमच्छुभा ।
तां तु बन्धुजनः सर्वः प्रहृष्टः समपूजयत् ॥ ३.६६.२४ ॥
于是这位吉祥的女子不久便抵达毗陀婆,所有亲族都欢喜地好好款待了她。
3.66.25
सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ ।
मातरं पितरं चोभौ सर्वं चैव सखीजनम् ॥ ३.६६.२५ ॥
见到所有亲人安好,两个孩子,母亲与父亲,以及所有女伴。
3.66.26
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी ।
परेण विधिना देवी दमयन्ती विशांपते ॥ ३.६६.२६ ॥
名声显赫的王后达摩衍蒂以至高的仪轨供奉诸神与婆罗门,人民之主啊。
3.66.27
अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः ।
प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च ॥ ३.६६.२७ ॥
国王见到女儿十分欢喜,以千头牛、一座村庄和财物酬谢苏提瓦。
3.66.28
सा व्युष्टा रजनीं तत्रपितुर्वेश्मनि भामिनी ।
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् ॥ ३.६६.२८ ॥
那位光彩照人的女子,夜尽之后在父亲的宫中休息,国王啊,她对母亲说了这些话。