Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.67

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.67.1

मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमिते ।
नलस्य नरवीरस्य यतस्वानयने पुनः ॥ ३.६७.१ ॥

母亲啊,若你希望我活着,我便对你说实话:请努力把人中英雄那罗接回来吧。

3.67.2

दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता ।
बाष्पेणापिहिता राज्ञी नोत्तरं किंचिदब्रवीत् ॥ ३.६७.२ ॥

达摩衍蒂如此说后,那位王后悲痛万分,满面泪水,一句话也没有回答。

3.67.3

तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा ।
हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ॥ ३.६७.३ ॥

众人见她如此模样,整个内宫便陷入一片“哎呀,哎呀”的哀号之中,大声痛哭起来。

3.67.4

ततो भीमं महाराजं भार्या वचनामब्रवीत् ।
दमयन्ती नृप भृशं भर्तारमनुशोचति ॥ ३.६७.४ ॥

于是妻子达摩衍蒂对大王毗摩说了这些话:大王啊,达摩衍蒂正为她的丈夫深深悲伤。

3.67.5

अपकृष्य च लज्जां सा स्वयमुक्तवती विभो ।
प्रयतन्तु तवप्रेष्याः पुण्यश्लोकस्य दर्शने ॥ ३.६७.५ ॥

她放下羞怯,亲口说道:大王啊,愿您的侍从们努力去见那位著名的那罗。

3.67.6

तयाप्रयोदितो राजा ब्राह्मणान्वशवर्तिनः ।
प्राश्थापयद्दिशः सर्वा यतध्वं नलदर्शने ॥ ३.६७.६ ॥

在她的劝促下,国王派遣听命的婆罗门前往四方:你们要努力去见那罗。

3.67.7

ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणास्तदा ।
दमयन्तीमथापृच्छ्य प्रस्थितास्ते तथाऽव्रुवन् ॥ ३.६७.७ ॥

于是,奉毗达婆国王之命,婆罗门们向达摩衍蒂辞行出发,并这样说道。

3.67.8

अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः ।
ब्रूत वै जनसंसत्सु तत्रतत्र पुनः पुनः ॥ ३.६७.८ ॥

于是比摩之女达摩衍蒂对他们说:“在所有的国家、民众的集会上,到处反复地说这句话。”

3.67.9

क्वनु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम ।
उत्सृज्य वपिने सुप्तामनुरक्तां प्रियां प्रिय ॥ ३.६७.९ ॥

赌徒啊!你割下我衣服的一半,去了哪里?你抛弃了在林中熟睡、对你一片深情的爱人,啊,我的爱人!

3.67.10

सा वै यथा त्वया दृष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणी ।
दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता ॥ ३.६७.१० ॥

她仍如你所见,等待着你,那年轻女子痛苦万分,只以半幅衣裳遮身。

3.67.11

तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव ।
प्रसादं कुरु वै देव प्रतिवाक्यं वदस्व च ॥ ३.६७.११ ॥

她因悲痛而不停哭泣,啊,国王!啊,尊神,请施恩并给予回答。

3.67.12

एवमन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि ।
वायुना धूयमानो हि वनं दहति पावकः ॥ ३.६७.१२ ॥

应当这样并说些别的,使她对我生出怜悯,正如被风吹动的火焚烧森林一样。

3.67.13

भर्तव्या रक्षणीया त्व पत्नी पत्या हि नित्यदा ।
तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव ॥ ३.६७.१३ ॥

丈夫应当始终供养并保护妻子。既然你是通晓法义的善人,为何你身上这二者都已失落?

3.67.14

ख्यातः प्राज्ञः कुलीनश् सानुक्रोशो भवान्सदा ।
संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥ ३.६७.१४ ॥

你一向名声显赫、智慧高远、出身高贵、富有慈悲。我怀疑,因我命运的崩坏,你变得毫无慈悲了。

3.67.15

तत्कुरुष्व नरव्याघ्र दयां मयि नरर्पभ ।
आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतः ॥ ३.६७.१५ ॥

因此,人中之虎,人中之牛,请对我施以慈悲。仁慈是至高的法,这是我只从你那里听来的。

3.67.16

एवंब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन ।
स नरः सर्वथा ज्ञेयः कश्चासौ क्वनु वर्तते ॥ ३.६७.१६ ॥

若有人回答你们这样说的话,那人必须在各方面被了解。他是谁?身在何处?

3.67.17

यश्चैवं वचनं श्रुत्य्वा बूयात्प्रतिवचो नरः ।
तदादाय वचस्तस्य ममावेद्यं द्विजोत्तमाः ॥ ३.६७.१७ ॥

凡是听到这些话而回答的人,你们应当记下他的话并告诉我,诸位最优秀的再生者。

3.67.18

यथा च वो न जानीयाच्चरतो भीमशासनात् ।
पुनरागमनं चेह तथा कार्यमतन्द्रितैः ॥ ३.६७.१८ ॥

在可怖的命令下流浪时,不可让人认出你们;同样,回到这里也必须小心谨慎地进行。

3.67.19

यदि वाऽसौ समृद्धः स्याद्यदि वाऽप्यधनो भवेत् ।
यदिऽवाप्यसमर्थः स्याज्ज्ञेयमस्य चिकीर्षितम् ॥ ३.६७.१९ ॥

无论他是富裕的,还是贫穷的,或是无能的,都应当由此得知他的意图。

3.67.20

एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतो दिशम् ।
नलं मृगयितुं राजंस्तदा व्यसनिनं तथा ॥ ३.६७.२० ॥

如此吩咐之后,那些婆罗门,大王啊,便前往四方寻找那纳罗以及那遭受厄运的人。

3.67.21

ते पुराणि सराष्ट्राणि ग्रामान्धोपांस्तथाऽऽश्रमान् ।
अन्वेषन्तो नलं राजन्नाधिजग्मुर्दविजातयः ॥ ३.६७.२१ ॥

他们在城市、国土、村庄、森林和隐修处寻找那纳罗,大王啊,那些再生者却没有找到他。

3.67.22

तच्च वाक्यं तथा सर्वेतत्रतत्र विशांपते ।
श्रावयांचक्रिरे विप्रा दमयन्त्या यथेरितम् ॥ ३.६७.२२ ॥

那些婆罗门,人主啊,便将达摩衍蒂所说的全部那番话,在各处宣读传扬。