Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.87

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.87.1

अवन्तीषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि ।
यानि तत्रपवित्राणि पुण्यान्यायतनानि च ॥ ३.८७.१ ॥

在阿槃提地区,西方方向,我将为你讲述那里的圣地与神圣的寺院。

3.87.2

प्रियङ्ग्वाम्रवणोपेता वानीरफलमालिनी ।
प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत ॥ ३.८७.२ ॥

那里有圣河纳尔马达,两岸长满楝、芒果与婆那树,身披蔓草果实的花环,向西流淌,婆罗多啊。

3.87.3

त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च ।
सरिद्वनानि शैलेन्द्रा देवाश्च सपितामहाः ॥ ३.८७.३ ॥

三界之中的一切圣渡口与神圣寺庙,河流与森林,诸大山,诸神以及祖父梵天。

3.87.4

नर्मदायां कुरुश्रेष्ठ सहसिद्धर्षिचारणैः ।
स्नातुमायान्ति पुण्यौधैः सदा वारिषु भारत ॥ ३.८७.४ ॥

纵有圣者与天界歌者,同来纳尔马达河沐浴,库鲁之最,婆罗多啊,那圣水之中常有众多善人前来。

3.87.5

निरेतः श्रूयते पुण्यो यत्र विश्रवसो मुनेः ।
जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः ॥ ३.८७.५ ॥

人们传闻那圣地尼赫塔斯,那里诞生了财神俱毗罗,他是仙人毗舍罗婆之子,以人为座骑。

3.87.6

वैढूर्यशिखरो नाम पुण्यो गिरिवरः शिवः ।
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥ ३.८७.६ ॥

有一座名为吠琉璃峰的圣洁吉祥的最胜之山,那里的树木常青叶绿,永远开花结果。

3.87.7

तस्य शैलस्य शिखरे सरः पुण्यं महीपते ।
फुल्लपद्मं महाराज देवगन्धर्वसेवितम् ॥ ३.८७.७ ॥

在那座山的峰顶有一片圣湖,大地之主啊,大王啊,湖中盛开着莲花,为诸天和乾闼婆所常临。

3.87.8

बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते ।
पुण्ये स्वर्गोपमे चैव देवर्षिगणसेविते ॥ ३.८७.८ ॥

大王啊,那座山上可见许多奇观;那是圣洁的、如同天界的地方,为众天神仙人所常临。

3.87.9

ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् ।
विश्चामित्रेण तपसा निर्मिता सर्वपावनी ॥ ३.८७.९ ॥

那里,王仙毗湿嘛密多罗以苦行创造了一条河,由湖水注入,有圣洁的渡口,能净化一切。

3.87.10

यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः ।
पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान् ॥ ३.८७.१० ॥

在其岸边,于善人之中,那吠舍之子——纳湖沙之子耶陀提坠落;他又重新获得了诸界和永恒的法。

3.87.11

तत्रपुण्यो ह्रदः ख्यातो मैनाकश्चैव पर्वतः ।
बहुमूलफलोपेतस्त्वमितो नाम पर्वतः ॥ ३.८७.११ ॥

那里有著名的圣湖,还有弥那迦山,盛产众多根茎与果实;从此处起还有名为阿弥多的山。

3.87.12

आश्रमः कक्षसेनस्य पुण्यस्तत्रयुधिष्ठिरः ।
च्यवनस्याश्रमश्चैव विख्यातस्तत्रपाण्डव।
तत्राल्पेनैव सिद्ध्यन्ति मानवास्तपसा विभो ॥ ३.८७.१२ ॥

那里有甘叉西那的圣地,尊贵的坚战啊;楚雅婆那的修行处也在那里著名,般度之子啊。在那里,人们即使只做少许苦行也能成就,大力者啊。

3.87.13

जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम् ।
आश्रम शाम्यतां श्रेष्ठ मृगद्विजनिषेवितः ॥ ३.८७.१३ ॥

大王啊,阎浮道是心性清净的仙人的隐居处,諸位寂靜者中最優秀的人啊,鹿與鳥群經常在此聚居。

3.87.14

ततः पुण्यतमा राजन्सततं तापसैर्युता ।
केतुमाला च मेध्या च गङ्गाद्वारं च भूमिप।
ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् ॥ ३.८७.१४ ॥

接着,大王啊,最为神圣的鸡头摩罗、梅提耶与恒河门,大地之主啊,常有苦行者聚集;还有著名的圣地信度森林,为再生族所常往。

3.87.15

पितामहसरः पुण्यं पुष्करं नाम नामतः ।
वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः ॥ ३.८७.१५ ॥

祖父之圣湖,名为普什迦罗,乃是韦卡纳萨成就者与仙人们所喜爱的隐居之地。

3.87.16

अप्यत्र संश्रयार्थाय प्रजापतिरथो जगौ ।
पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनांवर ॥ ३.८७.१६ ॥

此处亦然,为求庇护,众生之主在普什迦罗之地吟唱一首偈颂,俱卢中最优秀者,善人中最杰出者啊。

3.87.17

मनसाऽप्यभिकामस्य पुष्कराणि मनखिनः ।
विप्रणश्यन्ति पापानि नाकपृष्ठे च मोदते ॥ ३.८७.१७ ॥

即使心中仅有所愿的智者,普什迦罗也能彻底消除他的罪业,他在天界之巅欢喜。