Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.92

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.92.1

न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम ।
तथाऽस्मि दुःखसंतप्तो यथा नान्यो महीपतिः ॥ ३.९२.१ ॥

坚战说:诸天仙中最优秀者,我并不认为自己缺乏德行,然而我被悲痛煎熬,犹如别的国王都不曾如此。

3.92.2

परांश्च निर्गुणान्मन्ये न च ध्रमगतानपि ।
ते च लोमश लोकेऽस्मिन्नृध्यन्ते के न हेतुना ॥ ३.९२.२ ॥

坚战说:我不认为别人缺乏德行,也不认为行走在法道上的人缺乏德行。罗摩舍啊,在这个世间,究竟是谁无缘无故地兴旺?

3.92.3

नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचन ।
यदधर्मेण वर्धेयुरधर्मरुचयो जनाः ॥ ३.९२.३ ॥

罗摩舍说:大王,般度子啊,你不应当为此事以任何方式悲伤,因为喜好非法的人是借非法而增长的。

3.92.4

वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति ।
ततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥ ३.९२.४ ॥

人因非法而增长,接着看到了好事;随后他战胜敌人,但会连根毁灭。

3.92.5

यत्र धर्मेण वर्धन्ते राजानो राजसत्तम ।
सर्वान्सपत्नान्वाधन्ते राज्यं चैषां विवर्धते ॥ ३.९२.५ ॥

诸王中最优秀者啊,凡是国王因法而兴盛之处,他们便能压制所有敌人,他们的国土也随之繁荣。

3.92.6

मया हि दृष्टा दैतेया दानवाश्च महीपते ।
वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः ॥ ३.९२.६ ॥

罗摩舍说:大地之主啊,我曾见过提迭耶与檀那婆;他们因非法而增长,却又再次走向毁灭。

3.92.7

पुरा देवयुगे चैव दृष्टं सर्वं मया विभो ।
अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः ॥ ३.९२.७ ॥

往昔天神时代,哦,大能者,我都亲眼见过。诸天喜好法,阿修罗则舍弃了法。

3.92.8

तीर्तानि देवा विविशुर्नाविशन्भारतासुराः ।
तानधर्मकृतो दर्पः पूर्वमेव समाविशत् ॥ ३.९२.८ ॥

诸天进入圣渡口,哦,婆罗多,阿修罗却未能进入。由不法而生的骄慢早已先行侵入了他们。

3.92.9

दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत ।
क्रोधादहीस्ततोऽलञ्जा वृत्तं तेषां ततोऽनशत् ॥ ३.९२.९ ॥

由骄慢生出我慢,由我慢生出愤怒。由愤怒生出无耻,于是他们的行为便毁灭了。

3.92.10

तानलज्जान्गतश्रीकान्हीनवृत्तान्वृथाव्रतान् ।
क्षमा लक्ष्मीः स्वधर्मश्च नचिरात्प्रजहुस्ततः ॥ ३.९२.१० ॥

那些无耻、失去吉祥、行为卑劣、誓愿徒劳的人,不久便被忍耐、吉祥与自身之法所舍弃。

3.92.11

लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ॥ ३.९२.११ ॥

然而吉祥天女去了诸天,哦,国王,而不吉祥去了阿修罗。

3.92.12

तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः ।
दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ॥ ३.९२.१२ ॥

那些被不吉祥所附、心被骄慢所毁的提提耶与檀那婆,此时迦利也进入了他们之中。

3.92.13

तानलक्ष्मीसमाविष्टान्दानवान्कलिनाहतान् ।
दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः
मानाभिभूतानचिराद्विनाशः समपद्यत ॥ ३.९२.१३ ॥

被阿拉克什米附体、被羯利击伤、被傲慢所压倒、无正行而失智、被我慢所制伏的檀那婆们,俄顷之间便遭毁灭,嗟呼,俱蒂之子。

3.92.14

निर्यशस्कास्तथा दैत्याः कृत्स्नशो विलयं गताः ।
अधर्मरुचयोराजन्नलक्ष्म्या समधिष्ठिताः ॥ ३.९२.१४ ॥

如是,无名的提迭耶们尽数灭亡。大王,他们喜好非法,为阿拉克什米所据有。

3.92.15

देवास्तु सागरांश्चैव सरितश्च सरांसि च ।
अभ्यगच्छन्धर्मशीलाः पुण्यान्यावतनानि च ॥ ३.९२.१५ ॥

而具有法性的天神们,则前往大海、河流、湖泊以及圣地。

3.92.16

तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव ।
प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ॥ ३.९२.१६ ॥

以苦行、祭祀、布施与祝福,般度之子啊,他们舍弃了一切罪恶,获得了至善。

3.92.17

एवमादानवन्तश् निरादानाश्च सर्वशः ।
तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ॥ ३.९२.१७ ॥

如是,无论有财无财的诸神,都前往诸圣渡口,由此获得了无上的福祉。

3.92.18

तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः ।
पुनर्वेत्स्वसि तां लक्ष्मीमेष पन्थाः सनातनः ॥ ३.९२.१८ ॥

同样地,你也将与你的弟弟们在圣渡口沐浴,便能再次获得那吉祥天女。此乃永恒之道。

3.92.19

यथैव हि नृगो राजा शिविरौशीनरो यथा ।
भगीरयो वसुमना गयः पूरुः पुरूरवाः ॥ ३.९२.१९ ॥

正如国王那伽、乌希那罗之子尸毗、婆吉罗王、婆苏曼、伽耶、补卢和补卢罗婆斯。

3.92.20

चरमाणास्तपो नित्यंस्पर्शनादम्भसश्च ते ।
तीर्थामिगमनात्पूता दर्शनाच्च महात्मनाम् ॥ ३.९२.२० ॥

他们不断修苦行,因触碰圣水、前往圣渡口以及见到伟大的灵魂而得以清净。

3.92.21

अलभन्त यशः पुण्यं धनानि च विशांपते ।
तथा त्वमपि राजेन्द्र लब्ध्वा सुविपुलां श्रियम् ॥ ३.९२.२१ ॥

人主啊,他们获得了功德之名与财富。大王啊,你也同样会获得极丰厚的吉祥。

3.92.22

यथा चेक्ष्वाकुरभवत्सपुत्रजनबान्धवः ।
मुचुकुन्दोऽथ मांधाता मरुत्तश्च महीपतिः ॥ ३.९२.२२ ॥

正如伊刹婆伽与其子嗣、民众及亲属所得;以及穆楚昆陀、曼陀多和地上之主摩录多。

3.92.23

कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात् ।
देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसि ॥ ३.९२.२३ ॥

正如诸神凭苦行之力获得功德之名,天仙们也全然如此,你也将会知晓。

3.92.24

धार्तराष्ट्रास्त्वधर्मेण मोहिन च वशीकृताः ।
नचिराद्वै विनङ्क्ष्यन्ति दैत्या इव न संशयः ॥ ३.९२.२४ ॥

持国之子因非法与迷惑而被制服,不久必将灭亡,如同阿修罗一般,此无疑问。