Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.28

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.28.1

ते दृष्ट्वा निहतान्सूतान्भीमसेनेन भारत ।
पौराश्च सहिताः सर्वे राज्ञे गत्वा न्यवेदयन् ।
गन्धर्वेण हता राजन्सूतपुत्राः परश्शतम् ॥ ४.२८.१ ॥

婆罗多的后裔啊,众市民见到被怖军杀死的御者们,一同前去禀告国王:国王啊,一百多名御者之子被一位乾达婆杀死了。

4.28.2

यथा वज्रेण दीर्णं वै पर्वतस्य महच्छिरः ।
विनिकार्णाः प्रदृश्यन्ते तथा सूता महीतले ॥ ४.२८.२ ॥

如同被雷电劈裂的大山峰散落各处,御者们也散落在地面上。

4.28.3

सैरन्ध्री चापि मुक्ता सा पुनरायाति ते गृहम् ।
सर्वं संशयितं राजन्नगरं ते भविष्यति ॥ ४.२८.३ ॥

萨兰德里被释放后,还会回到你的家中。国王啊,你的整座城市都将陷入疑虑。

4.28.4

तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः ।
पुंसामिष्टश्च विषयो मैथुनाय न संशयः ॥ ४.२८.४ ॥

萨兰德里的容貌如此,而乾达婆们又极其强大。对男子而言,她是令人渴望交合的对象,此事毫无疑问。

4.28.5

यथा सैरन्ध्रिदोषेण नेदं राजन्पुरं तव ।
विनाशमेति वै क्षिप्रं तथा साधु विधीयताम् ॥ ४.२८.५ ॥

国王啊,为了使你的这座城市不因萨兰德里的过错而迅速毁灭,请妥善作出安排。

4.28.6

सर्वाङ्गसौष्ठवयुतां रूपलावण्यशालिनीम् ।
पश्यतामनिमेषेण चक्षुषा वनितां शुभाम्।
मनसश्चक्षुषश्चैव प्रतिबन्धो न विद्यते ॥ ४.२८.६ ॥

凡是注视这位身材完美、容貌娇美的美丽女子的人,都会目不转睛地看;心与眼都再无阻碍。

4.28.7

तस्मात्तां यः पुमान्दृष्ट्वा रूपेणाप्रतिमां भुवि ।
गच्छेत्कामवशं मूढो गन्धर्वैः स निहन्यते ॥ ४.२८.७ ॥

因此,愚昧之人见到大地上这无与伦比的美貌而被欲望所controlled,便会被乾达婆杀死。

4.28.8

निष्कासयैनां भवनात्पुराच्चैव विशेषतः ।
कालः प्रविश्य सैरन्ध्रीं पुरं नाशयते ध्रुवम् ॥ ४.२८.८ ॥

把她赶出宫殿,尤其要驱逐出城;因为死神已进入这位侍女之中,必定会毁灭此城。

4.28.9

तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः ।
अब्रवीत्क्रियतामेषां सूतानामपरक्रिया ॥ ४.२८.९ ॥

维罗吒(军队统帅)听了他们的话,说道:“为这些御者举行丧葬之礼吧。”

4.28.10

एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने ।
दह्यन्तां कीचकाः सर्वे सर्वगन्धैश्च सर्वशः ॥ ४.२८.१० ॥

"让所有这些羯游卡在同一堆旺盛的火中焚烧,并用各种香料。"

4.28.11

इत्युक्त्वा परमोद्वग्निः प्रविश्यान्तःपुरं शुभम् ।
सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः ॥ ४.२८.११ ॥

说完这些,国王深感不安,走进吉祥的内宫,满怀恐惧地对王后苏德什那说道。

4.28.12

सैरन्ध्रीमागतां ब्रूया ममैव वचनादिह ।
गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराधुना ।
बिभेति राजा सैरन्धि गन्धर्वेभ्यः पराभवात् ॥ ४.२८.१२ ॥

请替我告诉前来的这位侍女:“侍女啊,愿你吉祥。现在你可以随意去任何地方,因为国王害怕被乾达婆击败。”

4.28.13

न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् ।
स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ॥ ४.२८.१३ ॥

她受乾闥婆守护,我自己不敢与她交谈。女子并无过错,所以我对你说。

4.28.14

एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने ।
अदहन्कीचकान्सर्वान्संस्कारैश्चैव सर्वशः ॥ ४.२८.१४ ॥

他们全体在同一堆熊熊烈火中焚烧了所有的吉查卡,并完整地举行了葬礼。

4.28.15

अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च ।
मोक्षिता भीमसेनेन जगाम नगरं प्रति ॥ ४.२८.१५ ॥

于是克里希那摆脱了恐惧,驱散了御者之子,并被毗摩先那救出,朝城中走去。

4.28.16

त्रासितेव मृगी बाला शार्दूलेन मनस्विनी ।
सा तु गात्राणि वासश्च प्रक्षाल्य प्रविवेश ह ॥ ४.२८.१६ ॥

那位心志高尚的女子,如同被老虎惊吓的幼鹿,洗净身体与衣服,走了进去。

4.28.17

तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश ।
गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टिं न्यमीलयन् ॥ ४.२८.१७ ॥

大王啊,众人见到她,便向十方奔逃;有些人因害怕乾闥婆,闭上了眼睛。

4.28.18

प्रदुद्रुवुश्चाप्यपरे तथा जना हस्तैश्च चक्षूंषि पिधाय मोहिताः ।
मा पश्यत स्मेति च तां ब्रुवन्तस्तथा जनाश्चुक्रुशुरार्तरूपाः ॥ ४.२८.१८ ॥

其他人也逃走了;迷惑的人们用手遮住眼睛,说着“不要看她”,痛苦地大声呼喊。

4.28.19

तामद्य यः पश्यति रूपशालिनीं शयीत भग्नोऽत्र यथैव कीचकाः ।
इति ब्रुवन्तो भयविग्नचेतसो भयेन गन्धर्वगतेन मोहिताः ॥ ४.२८.१९ ॥

说道:“今天谁看她这位容光焕发的女子,谁就会像迦吉卡们一样在这里倒下。”他们心神因恐惧而扰乱,被乾闼婆的力量迷惑。

4.28.20

ततो महानसद्वारे भीमसेनमवस्थितम् ।
ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ॥ ४.२८.२० ॥

大王啊,于是般遮罗公主看见站在厨房门口的怖军,就像看见一头发狂的大象。

4.28.21

सोपहासं तु शनकैः संज्ञाभिरिदमब्रवीत् ।
नमो गन्धर्वराजाय येनास्मि परिमोक्षिता ॥ ४.२८.२१ ॥

她却带着嘲笑,轻声以手势说道:“向乾闼婆王致敬,是他使我得以解脱。”

4.28.22

कीचकेभ्यो विनिर्दोषामनाथां वसतीं गृहे ।
यो मां रक्षति सन्त्रस्तां गन्धर्वाय नमोस्तु ते ॥ ४.२८.२२ ॥

向保护我的乾闼婆致敬——我在屋中无辜而无依,被迦吉卡们惊吓,他保护着我。

4.28.23

ये यस्या विचरन्तीह पुरुषा वशवर्तिनः ।
तेषां च वशगा नित्यं विचर त्वं यथेष्टतः ॥ ४.२८.२३ ॥

这里那些受她支配而行走的男子,以及那些始终受他们支配的人——你想怎样行走就怎样行走吧。

4.28.24

ये पुरा विचरन्तीह पुरुषा वशवर्तिनः ।
तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वितः ॥ ४.२८.२४ ॥

那些从前在这里受她支配而行走的男子,听了她的话,便可脱离债务,从此离去吧。

4.28.25

तयोस्तद्वचनं श्रुत्वा जझिरे नेतरे जनाः ।
ततः पाञ्चालराजस्य सुता चापि जगाम ह ॥ ४.२८.२५ ॥

众人听到二人的这番话,并未惊讶。随后,般遮罗王之女也离开了。

4.28.26

ततः सा नर्तनागारे धनंजयमपश्यत ।
राज्ञः कन्या विराटस्य नर्तयन्तं महाभुजम् ॥ ४.२८.२६ ॥

于是她在舞房中看见了达那姆贾耶,他正在教导毗罗吒王之女跳舞,那位大臂者。

4.28.27

ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः ।
कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् ॥ ४.२८.२७ ॥

于是众少女与阿周那一同走出舞房,看见克里希纳走来,她痛苦而无辜。

4.28.28

दिष्ट्या सैरन्ध्रि मुक्ताऽसि दिष्ट्याऽसि पुनरागता ।
दिष्ट्या च निहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ॥ ४.२८.२८ ॥

幸运的是,苏兰德丽啊,你获得了自由;幸运的是,你又回来了;幸运的是,那些折磨你这无辜之人的御者已被杀死。

4.28.29

कथं सैरन्ध्रि मुक्ताऽसि कथं पापाश्च ते हताः ।
इच्छामि ते कथां श्रोतुं कथयस्व यथातथम् ॥ ४.२८.२९ ॥

苏兰德丽啊,你是如何获得自由的,那些罪人又是如何被杀的?我想从你那里听听这个故事;请照实说来。

4.28.30

बृहन्नले किंनु तव सैरन्ध्र्या कार्यमद्य वै ।
या त्वं रंस्यसि कल्याणि सदा कन्यापुरे सुखं ॥ ४.२८.३० ॥

毗罗摩难陀啊,你今天与苏兰德丽有何相干?吉祥的人啊,你将永远在少女城中快乐地生活。

4.28.31

न हि दुःख समाप्नोषि सैरन्ध्री यदुपाश्रुते ।
सुखेन वर्तसे येह न तद्दुःखमवाप्यते।
तेन मां दुःखितामेवं पृच्छसि प्रहसन्त्यपि ॥ ४.२८.३१ ॥

Sairandhrī,你并不遭受痛苦,因为你在此快乐地生活,所以那痛苦不会降临到你身上。然而你却笑着这样问我这个忧伤的人。

4.28.32

बृहन्नलाऽपि कल्याणि दुःखमाप्नोत्यनन्तकम् ।
तिर्यग्योनिगतेवेयं न चैनामवबुध्यसे ॥ ४.२८.३२ ॥

吉祥的女人啊,连布利汉纳拉也遭受无尽的痛苦。你并不理解这沦落于畜生境地的处境。

4.28.33

त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता ।
त्वत्तः कृच्छ्रतरं वासं वसेयमहमङ्गने ।
क्लिश्यन्त्यां त्वयि सुश्रोणि कोनु दुःखं न चिन्तयेत्॥। ॥ ४.२८.३३ ॥

我曾与你一同生活,而你曾与所有人一同生活。女子啊,我会过比你更艰难的生活。美臀的女子啊,你在苦难中煎熬时,谁能不为悲伤而思虑呢?

4.28.34

न तु केनचिदन्यन्तं कस्यचिद्धृदयं क्वचित् ।
वेदितुं शक्यते नूनं तेन मां नावबुध्यसे ॥ ४.२८.३४ ॥

没有人能够确切地知晓他人心中的深处,无论何处。因此你不能理解我。

4.28.35

ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् ।
प्रविवेश सुदेष्णायाः समीपमनसूयिनी ॥ ४.२८.३५ ॥

于是,德劳帕蒂与众女子一同走进那座王宫,来到苏德什那身边,心中毫无嫉妒。

4.28.36

तामब्रवीद्राजपत्नी विराटवचनादिदम् ।
सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् ।
राजा बिभेति सैरन्ध्रि गन्धर्वेभ्यः पराभवात् ॥ ४.२८.३६ ॥

应毗罗吒之命,王后对她说:赛兰陀利啊,你想去哪里就快去吧。赛兰陀利啊,国王因败于乾达婆而心怀畏惧。

4.28.37

त्वं चापि तरुणी सुभ्रू रूपेणाप्रतिमा भुवि ।
चित्तानि च नृणां भद्रे रक्तानि स्पर्शजे सुखे ॥ ४.२८.३७ ॥

你也年轻,眉目秀美,在世间容貌无双。善良的女子啊,男人的心都贪恋由接触而生的欢乐。

4.28.38

तस्मात्त्वत्तो भयं मह्यं राष्ट्रस्य नगरस्य च ।
गच्छाद्यैव यथेष्टं त्वं नगराद्यत्र रंस्यसे ॥ ४.२८.३८ ॥

因此,我和王国、都城都因你而害怕。今天就照你的心意离开吧,从城中走出,去你能快乐的地方。

4.28.39

त्वन्निमित्तं शुभे मह्यं सर्वो बन्धुजनो हतः ।
नृशंसा खलु ते बुद्धिर्भ्रातॄणां मे कृतो वधः ॥ ४.२८.३९ ॥

善良的女子啊,因你之故,我所有的亲族都被杀害了。你的心意实在残忍,我的兄弟们也被杀了。

4.28.40

तस्माद्गन्धर्वराजेभ्यो भयमद्य प्रवर्तते ।
यथेष्टं गच्छ सैरन्ध्रि स्वस्ति चेह यथा भवेत् ॥ ४.२८.४० ॥

因此,如今对乾达婆王们的恐惧已经产生。赛兰陀利啊,照你的心意去吧,好让此地平安。

4.28.41

सुदेष्णाया वचः श्रुत्वा सैरन्ध्री चेदमब्रवीत् ।
त्रयोदशाहमात्रं तु राजा क्षाम्यतु भामिनि ॥ ४.२८.४१ ॥

赛兰陀利听了苏提什那的话,便说:夫人啊,只有十三天。愿国王宽容。

4.28.42

कृतकृत्या अविष्यन्ति गन्धर्वास्ते न संशयः ।
ततो मामुपनेष्यन्ति करिष्यन्ति च ते प्रियम् ॥ ४.२८.४२ ॥

乾闥婆们必将完成使命,此事毫无疑问。那时他们会把我带回来,并做你所喜爱的事。

4.28.43

ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः ।
राज्ञः कृतोपकाराश्च कृतज्ञाश्च सदा शुभे।
साधवश्च बलोत्सिक्ताः कृतप्रतिकृतेप्सवः ॥ ४.२८.४३ ॥

国王必将与亲族共享吉祥。吉祥的女子啊,受过国王恩惠的人,始终感恩,善良而有力,渴望以恩报恩。

4.28.44

अर्थिनी मा ब्रवीत्येषा यद्वातद्वेति चिन्तय ।
भरस्व तदहर्मात्रं तत्ते श्रेयो भविष्यति ॥ ४.२८.४४ ॥

她恳求我说:『无论如何,请考虑一下。』忍耐一天,那便是你的福分。

4.28.45

तस्यास्तद्वचनं श्रुत्वा कैकेयी दुःखमोहिता ।
उवाच द्रौपदीमार्ता भ्रातृव्यसनकर्शिता ॥ ४.२८.४५ ॥

迦吠耶听了她的话,因悲痛而心神迷乱,又为兄弟的灾难所消瘦,痛苦地对德罗波蒂说道。

4.28.46

वस भद्रे यथेष्टं त्वं त्वामहं शरणं गता ।
त्रायस्व मम भर्तारं पुत्रांश्चैव विशेषतः ॥ ४.२८.४६ ॥

善良的女子啊,你愿意怎样就怎样住着吧;我已来到你身边寻求庇护。请保护我的丈夫,尤其是我的儿子们。

4.28.47

इत्युक्तवा राजशार्दूल राज्ञे सर्वं न्यवेदयत् ।
त्रिंशद्रात्रिमिमां भीरुः कृतकृत्या निवासये ॥ ४.२८.४७ ॥

她说完这些,王中之虎啊,便把一切都禀告了国王。胆怯的德罗波蒂说:『完成我的使命后,我将留下这三十个夜晚。』